CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter * - अपठितावबोधनम् [Latest edition]
Chapters
प्रथम: अभ्यास: - सन्धयः:
(क): स्वरसन्धय:
(ख): व्यजञ्जनसन्धय:
(ग): विसर्गसन्धि:
द्वितीय: अभ्यास: - समासा:
(क): अव्ययीभाव समास:
(ख): तत्पुरुषा:
(ग): द्वन्द्वसमास:
(घ): बहुव्रीहि:
तृतीय: अभ्यास: - प्रत्यया:
(क): कृत्प्रत्ययाः
(ख): तद्धितप्रत्यया:
(ग): स्त्रीप्रत्ययौ:
चतुर्थ: अभ्यास:
*: वाच्यम्
पञ्चम: अभ्यास:
*: सङ्ख्या
षष्ठ: अभ्यास
*: समयः
सप्तम: अभ्यास:
*: अव्ययानि
अष्टम: अभ्यास
*: अशुद्धिसंशोधनम्
नवम: अभ्यास: रचनात्मककार्यम्
(क): चित्रवर्णनम्
(ख): अनुच्छेदलेखनम्
(ग): पत्रलेखनम्
(घ): संवादलेखनम्
(ड़): कथापूर्तिः
दशम: अभ्यास:
▶ *: अपठितावबोधनम्

Advertisements
Advertisements
Solutions for Chapter *: अपठितावबोधनम्
Below listed, you can find solutions for Chapter * of CBSE CBSE for Sanskrit Manika Dvitiyo Bhag Class 10.
Advertisements
CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 * अपठितावबोधनम् अपठितावबोधनम् [Pages 140 - 145]
| प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः पक्षिणः वनस्पतयः च तस्याः एव अङ्गानि। निराशाः असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति। सा स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति। सूर्यः चन्द्रः च तस्याः नेत्रे। शस्य-श्यामला एषा भूमिः। विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति। नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति। |
अ. एकपदेन उत्तरत -
(क) कैः सह प्रकृते शाश्वतः सम्बन्धः अस्ति?
(ख) मानवः किं विहाय असाधुसेवितं पथं गच्छति?
(ग) निराशाः असहायाः जनाः कस्याः आश्रयं प्राप्नुवन्ति?
(घ) एषा भूमिः कीदृशी अस्ति?
आ. पूर्णवाक्येन उत्तरत -
(क) का प्रकृतेः एव शोभा अस्ति?
(ख) शाश्वतं सुखम् इच्छन् नरः किं न आचरेत्?
(ग) प्रकृतिः स्वमनोहरेण सौन्दर्येण किं करोति?
(घ) प्रकृतेः अङ्गानि कानि सन्ति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकलपेभ्य चिनुत -
(क) आचरेत् इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?
- जनः
- नरः
- प्रकृतिः
- प्रतिकूलम्
(ख) ‘विविधाः’ इति पदं कस्य पदस्य विशेषणम्?
- ओषधयः
- वनस्पतयः
- जनाः
- कष्टानि
(ग) ‘सरसम्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- हृदयम्
- आश्रयम्
- शाश्वतम्
- नीरसम्
(घ) ‘सततम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- सर्वेषाम्
- उपकारम्
- नित्यम्
- परम्
| अहं पाटलपुष्पम् अस्मि। वृते वसामि। पवनः मां मन्दं मन्दम् आन्दोलनयति। दिने रविकिरणाः मां विकासयन्ति, रात्रौ ज्योत्सना मां लालयति। मम अनेके वर्णाः-श्वेतः, पीतः नारङ्गः, अरुणः पाटलश्च। एतेषु रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते। यत्र सौन्दर्यं कमनीयतां च कवयः वर्णयितुम् इच्छन्ति, मम उपयोगं कुर्वन्ति। अहं विवाहादिसमारोहेषु मण्डपानां शोभाम् आतनोमि। वर-वध्वोः जयमालयोः अहं विलसामि। अहं मृदुना सुगन्धेन वातावरणं सुरभितं करोमि। मम स्वल्पकालजीवनमपि लोकहितम् आतनोति अतः पूर्णं विकसितं मे रूपम् अभिनन्दन्ति जनाः। विकसितरूपे स्थितम् अहं मानवस्य निराशामयं जीवनम् अपि आशामयं करोमि। स्वगन्धं विकीर्यं अन्ते प्रकृतिमातुः अङ्के स्वपिमि। |
अ. एकपदेन उत्तरत -
(क) पाटलपुष्पं स्वगन्धं विकीर्यं अन्ते कस्याः अङ्के स्वपिति?
(ख) पाटलपुष्पं के विकासयन्ति?
(ग) पाटलपुष्पस्य मृदुना सुगन्धेन वातावरणं कीदृशं भवति?
(घ) पाटलपुष्पं कुत्र वसति?
आ. पूर्णवाक्येन उत्तरत -
(क) विकसितरूपे स्थितं पाटलपुष्पं किं करोति?
(ख) पाटलपुष्पस्य के के वर्णाः भवन्ति?
(ग) कवयः कदा पाटलपुष्पस्य उपयोगं कुर्वन्ति?
(घ) पाटलपुष्पस्य स्वल्पकालजीवनम् अपि किं करोति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेभ्य चिनुत -
(क) ‘पवनः’ इति कर्तृपदस्य क्रियापदं गद्यांशे किं प्रयुक्तम्?
- लालयति
- आन्दोलनयति
- आतनोति
- रोचते
(ख) ‘रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते।’ वाक्येऽस्मिन् विशेषणपदं किं प्रयुक्तम्?
- वर्णः
- जनेभ्यः
- सर्वाधिकम्
- रक्तिमः
(ग) ‘सुवासितम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- सुरभितम्
- विकसितम्
- स्थितम्
- आशामयम्
(घ) ‘रात्रौ’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- दिने
- वृन्ते
- विकीर्यं
- विकसितरूपे
| दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागतरङ्गै क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत्-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः। एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुर्वन्ति। |
अ. एकपदेन उत्तरत -
(क) समुद्रजले स्थितायां शिलायां किं विकसितम्?
(ख) कस्य दृश्यम् अद्भुतं प्रतिभाति?
(ग) त्रयाणां सागराणां सङ्गमस्थलस्य किं नाम अस्ति?
(घ) कन्याकुमारी इति नगरं कैः क्षाल्यमानम् अस्ति?
आ. पूर्णवाक्येन उत्तरत -
(क) कन्याकुमारीम् आगत्य साधकाः किं कुर्वन्ति?
(ख) का दर्शकान् मन्त्रमुग्धान् करोति?
(ग) सागरस्य लहरीभिः किं भवति?
(घ) स्वामिविवेकानन्दः समुद्रजले स्थितायां शिलायाम् किमकरोत्?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -
(क) ‘दक्षिणभारते सागरमध्ये एकं लघुद्वीपं वर्तते।’ वाक्येऽस्मिन् किं कर्तृपदं प्रयुक्तम्?
- लघुद्वीपम्
- सागरमध्ये
- दक्षिणभारते
- एकम्
(ख) ‘प्रतिबिम्बितम्’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
- अद्भुतम्
- सूर्योदयस्य
- दृश्यम्
- समुद्रजले
(ग) ‘कृष्णा’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- शोभा
- अरुणा
- पीता
- धवला
(घ) ‘समुद्रतीरे’ इत्यर्थं गद्यांशे किं पदं प्रयुक्तम्?
- समुद्रजले
- जलधितटे
- सागरमध्ये
- सागरतरङ्गै
| अहम् एकः छिन्नः द्रुमः अस्मि। ह्यः वने एकः नरः आगच्छत्। सः काष्ठाय मम शरीरम् अच्छिन्नत्। छेदनेन मे शरीरे अनेके ब्रणाः जाताः। छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्। अकथनीया मम पीडा। हृदयं विदीर्णं जातम्। अश्रुभिः कण्ठः अवरुद्धः। मम अन्तकालः समीपे एव तिष्ठति। काष्ठानि एकत्रीकृत्य सः तु अगच्छत्। परं कोऽस्ति अत्र व्यथाकथाश्रवणाय? वृक्षान् छित्वा नरः प्रकृतिमातुः अङ्गानि नाशयति। इन्धनाय, कर्गदपत्राय, भवननिर्माणाय मम काष्ठस्य प्रयोगः भवति। किन्तु कुतः मे पत्राणि, पुष्पाणि कुतः च रोगनिवारणाय औषधयः? निराश्रिताः भविष्यन्ति आश्रिताः खगाः कीटपतङ्गाश्च। पन्थानः अपि छायाहीनाः भविष्यन्ति। आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति? मम जीवने पुनः वसन्तर्तुः न आगमिष्यति। |
अ. एकपदेन उत्तरत -
(क) के छायाहीनाः भविष्यन्ति?
(ख) नरः किमर्थं वृक्षस्य शरीरम् अच्छिन्नत्?
(ग) पथिकः केन तमः भवति?
(घ) वृक्षस्य कण्ठः कैः अवरुद्धः अभवत्?
आ. पूर्णवाक्येन उत्तरत -
(क) वृक्षस्य काष्ठस्य प्रयोगः कुत्र कुत्र भवति?
(ख) के निराश्रिताः भविष्यन्ति?
(ग) छुरिकायाः प्रहारेण किम् अभवत्?
(घ) वृक्षान् छित्वा नरः किं करोति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -
(क) ‘अपतन्’ इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?
- अश्रुरूपाः
- प्रहारेण
- शरीरात्
- जलबिन्दवः
(ख) ‘आतपेन ततः श्रान्तः पथिकः अधुना कुत्र गमिष्यति।’ वाक्येऽस्मिन् विशेष्यपदं किम्?
- पथिकः
- तप्तः
- श्रान्तः
- अधुना
(ग) ‘आश्रिताः’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- पतङ्गाः
- निराश्रिताः
- छायाहीनाः
- अश्रुरूपाः
(घ) ‘वृक्षः’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- छिन्नः
- काष्ठानि
- द्रुमः
- औषधयः
| पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र द्विशतं छात्राः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा संस्थाधिकारिणः छात्रेभ्यः एकं वैद्यं प्रेषितवन्तः। सः त्रीन् मासान् तत्र अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत्। वैद्यराजः प्रधानाचार्यम् अपृच्छत् - किम् अत्र कोऽपि रोगी न भवति? प्रधानाचार्यः विहस्य अवदत् - वैद्यराज! अस्य एकं रहस्यम् अस्ति। अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत् एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एव यत् स्वस्थाः नराः औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत् अत्र मम उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः। |
अ. एकपदेन उत्तरत -
(क) गुरुकुलं कस्मिन् प्रदेशे आसीत्?
(ख) कीदृशाः नराः औषधं न सेवन्ते?
(ग) वैद्यः कियतः मासान् गुरुकुले अवसत्?
(घ) कति सङ्ख्याकाः छात्राः गुरुकुले पठन्ति स्म?
आ. पूर्णवाक्येन उत्तरत -
(क) एकदा संस्थाधिकारिणः किं कृतवन्तः?
(ख) छात्राणां स्वास्थ्यस्य किं रहस्यम् अस्ति?
(ग) वैद्यः हसित्वा किम् अवदत्?
(घ) छात्राणां भोजनादिव्यवस्थां का अकरोत्?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं उत्तरत -
(क) ‘विहस्य’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम्?
(ख) ‘सः त्रीन् मासान् तत्र अवसत्।’ वाक्येऽस्मिन् विशेषणपदं किम्?
(ग) ‘रुग्णाः’ इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(घ) ‘आगच्छत्’ इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?
| एकदा कश्चिच् नरः आखेटाय अगच्छत्। सः सर्वं दिनं वने अभ्रमत्, किन्तु कमपि पशुं न अपश्यत्। सायङ्काले यदा सः आखेटकः स्वगृहं प्रति आगच्छति स्म तदा एकां पुत्रसहितां हरिणीम् अपश्यत्। सः नरः अश्वेन तस्या अनुसरणम् अकरोत्। किन्तु सा मृगी कुत्रचित् अदृश्या अभवत्। ततः सः तस्याः शावकं गृहीत्वा अश्वस्य पृष्ठे बद्धवान्। अश्वम् आरुह्य सः नरः किञ्चिद् दूरं गत्वा अपश्यत् यत् पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म। एतद् दृष्ट्वा तस्य मनसि करुणा उत्पन्ना अभवत्। करुणार्द्रहृदयः सः अचिन्तयत् - एषा हरिणी स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति। अहो! एतां निराशां न करिष्यामि इति विचार्य सः मृगीशावकम् अमुञ्चत्। हरिणी प्रसन्ना अभवत्। तस्याः नयनयोः कृतज्ञताभावः आसीत्। एतद् विलोक्य सः परमम् आनन्दं प्राप्तवान्। |
अ. एकपदेन उत्तरत -
(क) स्वशावकं प्राप्त हरिण्याः नयनयोः कः भावः आसीत्?
(ख) आखेटकः कदा स्वगृहं प्रति आगच्छति?
(ग) का स्वप्राणमोहं त्यक्त्वा पुत्रं रक्षितुम् इच्छति?
(घ) नरः केन हरिण्याः अनुसरणम् अकरोत्?
आ. पूर्णवाक्येन उत्तरत -
(क) पुत्रस्नेहव्याकुला मृगी किं करोति स्म?
(ख) नरः मृगीशावकं गृहीत्वा किम् अकरोत्?
(ग) करुणार्द्रहृदयः सः आखेटकः किम् अचिन्तयत्?
(घ) आखेटकः किं विलोक्य परमम् आनन्दं प्राप्तवान्?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -
(क) ‘पुत्रस्नेहव्याकुला सा मृगी अपि पुत्रम् अनुसरति स्म।’ वाक्येऽस्मिन् कर्तृपदं किं प्रयुक्तम्?
(ख) ‘एकां पुत्रसहितां हरिणीम् अपश्यत्।’ वाक्येऽस्मिन् विशेष्यपदं किमस्ति?
(ग) ‘प्रातःकाले’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत्?
(घ) ‘सः नरः अश्वेन तस्याः अनुसरणम् अकरोत्।’ इति कर्तृपदस्य क्रियापदं किमस्ति?
| वैज्ञानिकाः सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषित्रयन्त्रम् (मोबाइल) तादृशम् एव लोकप्रियं यन्त्रम्। बालाः, वृद्धाः, युवकाः, पुरुषाः, महिलाः, नागरिकाः, ग्रामीणाः वा, सर्वेषाम् एव एतत् कर्णभूषणं जातम्। यानानि आरूढाः, कार्यालयेषु कार्यं कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति। अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति। मार्गेषु दुर्घटनाः भवन्ति। सभागारेषु, कक्षासु, अन्यसभासु वा अव्यवस्था भवति। सत्यम् अस्ति यत् आविष्कारः कदापि हानिकरः न, परन्तु तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति। वस्तुतः वयं यन्त्रस्य अधीनाः न स्याम अपितु यन्त्रम् अस्माकम् अधीनं स्यात्। ते एव बुद्धिमन्तः ये विज्ञानस्य सदुपयोगं कुर्वन्ति। |
अ. एकपदेन उत्तरत -
(क) वर्तमानकाले किं लोकप्रियं सञ्चारसाधनम् अस्ति?
(ख) यन्त्रस्य दुष्प्रयोगेण कस्य शान्तिः नश्यति?
(ग) यन्त्रस्य कीदृशः प्रयोगः कार्येषु व्यवधानं करोति?
(घ) वयं कस्य अधीनाः न स्याम?
आ. पूर्णवाक्येन उत्तरत -
(क) के खलु बुद्धिमन्तः सन्ति?
(ख) चलभाषित्रयन्त्रस्य ध्वनिना कक्षासु किं भवति?
(ग) वैज्ञानिकाः सञ्चारसाधनेषु किमर्थं नवीनतमान् आविष्कारान् कुर्वन्ति?
(घ) चलभाषित्रयन्त्रं कीदृशं साधनम् अस्ति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं उत्तरत -
(क) ‘सन्देशप्रेषणे अधिकतमा सुविधा स्यात्।’ अत्र किं विशेषणपदं प्रयुक्तम्?
(ख) ‘तस्य दुष्प्रयोगेण जीवनस्य शान्तिः नश्यति।’ अत्र कर्तृपदं किं प्रयुक्तम्?
(ग) ‘आकर्ण्य’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम्?
(घ) ‘व्यवस्था’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
Solutions for *: अपठितावबोधनम्

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter * - अपठितावबोधनम्
Shaalaa.com has the CBSE Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. CBSE solutions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE * (अपठितावबोधनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. CBSE textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit Manika Dvitiyo Bhag Class 10 chapter * अपठितावबोधनम् are .
Using CBSE Sanskrit Manika Dvitiyo Bhag Class 10 solutions अपठितावबोधनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in CBSE Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit Manika Dvitiyo Bhag Class 10 students prefer CBSE Textbook Solutions to score more in exams.
Get the free view of Chapter *, अपठितावबोधनम् Sanskrit Manika Dvitiyo Bhag Class 10 additional questions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.
