CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (ग) - पत्रलेखनम् [Latest edition]
Chapters
प्रथम: अभ्यास: - सन्धयः:
(क): स्वरसन्धय:
(ख): व्यजञ्जनसन्धय:
(ग): विसर्गसन्धि:
द्वितीय: अभ्यास: - समासा:
(क): अव्ययीभाव समास:
(ख): तत्पुरुषा:
(ग): द्वन्द्वसमास:
(घ): बहुव्रीहि:
तृतीय: अभ्यास: - प्रत्यया:
(क): कृत्प्रत्ययाः
(ख): तद्धितप्रत्यया:
(ग): स्त्रीप्रत्ययौ:
चतुर्थ: अभ्यास:
*: वाच्यम्
पञ्चम: अभ्यास:
*: सङ्ख्या
षष्ठ: अभ्यास
*: समयः
सप्तम: अभ्यास:
*: अव्ययानि
अष्टम: अभ्यास
*: अशुद्धिसंशोधनम्
नवम: अभ्यास: रचनात्मककार्यम्
(क): चित्रवर्णनम्
(ख): अनुच्छेदलेखनम्
▶ (ग): पत्रलेखनम्
(घ): संवादलेखनम्
(ड़): कथापूर्तिः
दशम: अभ्यास:
*: अपठितावबोधनम्

Advertisements
Advertisements
Solutions for Chapter (ग): पत्रलेखनम्
Below listed, you can find solutions for Chapter (ग) of CBSE CBSE for Sanskrit Manika Dvitiyo Bhag Class 10.
Advertisements
CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 (ग) पत्रलेखनम् पत्रलेखनम् [Pages 126 - 131]
सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।
छात्रावासः,
राजकीयः विद्यालयः
(i) ......।
तिथिः 25-02-2025
माननीयाः पितृवर्याः!
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (ii) ..... परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iii) ..... विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिकभ्रमणाय (iv) ..... नेष्यन्ति। अहम् अपि ताभिः (v) ..... गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापिकायै (vi) ..... रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (vii) ..... तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं न पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
सर्वेभ्यः मम (viii) ..... निवेदनीयाः।
भवतां प्रिया (ix) .....
सुकन्या
पत्रवेष्टनम्।
|
सविधे श्री प्रणवभट्टाचार्यः, 26, चितरज्जनपार्क:, नवदिल्ली (x) ..... |
मञ्जूषा
| प्रणामाः, सह, कोलकातातः, स्यात्, पञ्चसहस्रम्, 110019, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री। |
सौम्या दिल्ली नगरे वसति। तस्याः सखी सुमतिः असमप्रदेशे वसति। सौम्यया गणतन्त्रदिवसस्य शोभायात्रायां भागः गृहीतः। सा स्वानुभवान् स्वमित्रं सुमतिं प्रति पत्रे लिखति। मञ्जूषातः पदानि विचित्य पत्रं पूरयन्तु।
ए-14, वसन्तविहारः
नवदिल्लीतः
तिथिः .....
प्रियसखि सुमते,
(i) .....
अत्र कुशलं तत्रास्तु। अहं (ii) ..... सज्जायां व्यस्ता आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं लिखामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) .....। अस्माकं विद्यालयस्य (iv) ..... राजपथे स्वकलायाः प्रदर्शनम् अकरोत्। अहं गरबानृत्यस्य (v) ..... आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (vi) ..... गुज्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृश्यानि (vii) ..... च दृष्ट्वा अहं गौरवान्विता अस्मि। (viii) ..... बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। (ix) ..... वन्दनीयौ।
भवत्याः (x) .....
सौम्या
आवरणम्
|
सविधे सुश्री सुमतिः 98, भवतारमार्गः असमप्रदेशः-533277 |
मञ्जूषा
| पितरौ, गृहीतः, नमस्ते, मम, सखी, राजपथम्, वाद्यवृन्दम्, लोकनृत्यानि, गणतन्त्रदिवससमारोहस्य, प्रमुख-सञ्चालिका। |
सुजाता दिल्लीमहानगरे वसति। तस्याः सखी दिव्यामहादेवन् चेन्नईनगरे निवति। सुजातायाः विद्यालये पर्यावरणविषये एका गोष्ठी जाता। गोष्ठी वर्णयन्ती सुजाता दिव्यायै पत्रम् एकं लिखति। मञ्जूषातः समुचितपदानि चित्वा पत्रं पूरयन्तु।
20, वसन्तविहारः,
नवदिल्लीतः।
तिथिः 20-5-2025
(i) ..... दिव्ये!
सस्नेहं नमस्ते।
ह्यः अस्माकं विद्यालये (ii) ..... एका महत्त्वपूर्णा गोष्ठी अभवत्। तत्र महानगरेषु वर्धमानं प्रदूषणं दृष्ट्वा पर्यावरणस्य (iii) ..... उपायानां विषये चर्चा अभवत्। गोष्ठ्यां वक्तृणां विचारसारः आसीत् यत् गृहात् बहिः, (iv) ..... रथ्यासु च अवकरः न क्षेपणीयः। (v) ..... समये समये जलशुद्धिः करणीया। मार्गेषु, उद्यानेषु विद्यालयेषु च अधिकाधिकं (vi) ..... आरोपणीयाः। जनजागरणार्थं “वृक्षो रक्षति रक्षितः”, “जलम् एव जीवनम्” एतादृशानि महावाक्यानि पट्टिकासु लिखित्वा यत्र तत्र (vii) ..... ध्वनिप्रदूषणं निवारयितुं ध्वनिप्रसारकयन्त्राणां (viii) ..... प्रयोगः करणीयः। अस्मिन् विषये भवत्याः विद्यालये किं किं भवति इति मां विस्तरेण लिखतु।
पितरौ वन्दनीयौ।
भवत्याः सखी,
(ix) .....।
आवरणम्
|
सविधे सुश्री (x) ..... 52, मरयापट्टी चेन्नई-641008 |
मञ्जूषा
| सुजाता, नदीजलेषु, स्नेहस्निग्धे, पर्यावरणविषये, न्यूनतमः, वृक्षाः, रक्षणाय, दिव्यामहादेवन्, टङ्कनीयानि, जलप्रदूषण-निवारणाय। |
विकासः नैनीतालस्थे एकस्मिन् विद्यालये पठति। सः छात्रावासात् अमेरिका-वास्तव्यं मित्रं जोसेफं नैनीतालविषये पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।
छात्रावासः
(i) .....
तिथिः .....
प्रिय (ii) ..... जोसेफ!
(iii) .....।
गतमासे आवयोः दूरभाषेण वार्तालापः अभवत्। (iv) ..... एव अत्र हिमपातः आरभत। तं द्रष्टुम् अनेके यात्रिणः दूरतः आगताः आसन्। नैनीसरः अत्र एकं विशेषम् आकर्षणस्थलम् अस्ति, तस्य अपि जलं (v) ..... आसीत्। तदा तत्र नौकाविहारः तु सम्भवः नासीत् किन्तु (vi) ..... आनन्दिताः आसन्। भयङ्करे शीतेऽपि यात्रिणः ‘चाइना-पीक’ इति स्थानं द्रष्टुं गताः आसन्। अत्रत्यानि प्राकृतिकदृश्यानि आकर्षकाणि मनोरमाणि च सन्ति।
यात्रिणां समूहं (vii) ..... स्थानीयाः आपणिकाः प्रमुदिताः आसन्। यात्रिनिवासालयेषु आवासः दुर्लभः अभवत्। निवासाय (viii) ..... भाटकं प्रवृद्धम् आसीत्। अहम् इच्छामि यत् ईदृशे अवसरे भवान् अपि भारतम् आगच्छेत् पर्वतीयस्थलस्य च आनन्दम् (ix) .....।
अग्रिमे दिसम्बरमासे जनवरीमासे वा भवान् अत्र आगमिष्यति इति मे हार्दिकी कामना।
सधन्यवादम्।
(x) ..... मित्रम्
आवरणम्
|
सविधे श्री जोसेफ, 2200, पाइनहर्स्टसर्कलः, जिरारड, ओहायो-44420 अमेरिका। |
मञ्जूषा
| भवताम्, दृष्ट्वा, नैनीतालम्, अनुभवेत्, मित्र, प्रकोष्ठानाम्, हिमीभूतम्, नमो नमः, दिनद्वयान्तरम्, स्केटिंगप्रेमिणः। |
भवतः नाम अधोक्षजः। भवतः परीक्षा समाप्ता अधुना भवान् किञ्चित् विशिष्टं कर्तुम् इच्छति अतः पितुः अनुमतिं प्राप्तुम् अधोलिखिते पत्रे मञ्जूषापदसहायतया रिक्तस्थानानि पूरयतु-
रणवीरच्छात्रावासः,
वाराणसीतः
दिनाङ्कः .....
पूज्याः पितृचरणाः!
साष्टाङ्गं प्रणमामि।
अहमत्र (i) ..... कुशली सन् भवतां कुशलतां भगवन्तं विश्वनाथं प्रार्थये। साम्प्रतम् अहं (ii) ..... वाञ्छामि यत् मम वार्षिकी परीक्षा मार्चमासस्य (iii) ..... दिनाङ्के सम्पन्ना भविष्यति। अग्रिमायै कक्षायै पुनर्नामाङ्कनं जूनमासे भविष्यति। (iv) ..... पश्चात् मम समीपे मासत्रयस्य समयः अस्ति। तस्य मासत्रयस्य समयस्य (v) ..... वेदाध्ययनं कर्तुं वाञ्छामि। अतः भवताम् अनुमत्या सह अम्बायाः अपि (vi) ..... वाञ्छामि। यतोहि आधुनिकविषयाणां (vii) ..... सह भारतीयज्ञानस्य अपि अनिवार्यताम् अनुभवामि तच्च (viii) ..... विना न सम्भवति। विशेषाधिकम् गृहागमन-पश्चात् (ix) .....। पौनः पुन्येन सर्वेभ्यः ज्येष्ठ्येभ्यः सादरं प्रणामाञ्जलिं समर्पयन् भवताम् उत्तरस्य (x) ..... अस्मि।
भवतां पुत्रः
अधोक्षजः
मञ्जूषा
| प्रतीक्षायाम्, ज्ञानेन, अनुमतिम्, परीक्षायाः, सूचयितुम्, छात्रावासे, अष्टादशे, सदुपयोगाय, वेदाध्ययनम्, चर्चयिष्यामः। |
भवान् ब्रह्मा एकादश्याः कक्षायाः छात्रः अस्ति। भवान् विज्ञानविषयेण सह संस्कृतविषयं पठितुम् इच्छति। तदर्थं प्रधानाचार्याय लिखिते पत्रे मञ्जूषापदसहायतया रिक्तस्थानानि पूरयतु-
दिनाङ्कः .....
सेवायाम्
(i) .....
विष्णुदत्त-वरिष्ठमाध्यमिक-विद्यालयः,
इन्द्रप्रस्थः।
विषयः - संस्कृतविषयस्य (ii) ..... सन्दर्भे प्रार्थनापत्रम्।
महोदय!
अहं भवतः (iii) ..... एकादश्याः कक्षायाः विज्ञानसमूहस्य (iv) ..... अस्मि। अहं विज्ञानविषयेण सह (v) ..... अपि पठितुम् इच्छामि यतोहि संस्कृते बहवः (vi) ..... अंशाः सन्ति। तान् अंशान् ज्ञातुं संस्कृतस्य (vii) ..... आवश्यकम् अस्ति। संस्कृतस्य मूलज्ञानं विना तस्य (viii) ..... अवगमनं क्लेशकरम् अस्ति इति भावयामि।
अतः सविनयं (ix) ..... यत् मह्यं संस्कृतविषयं प्रदाय माम् अनुगृह्णातु भवान्।
सधन्यवादम्
भवदीयः छात्रः,
(x) .....
कक्षा - एकादशी ‘अ’
अनुक्रमाङ्कः - 16
मञ्जूषा
| संस्कृतविषयम्, वैज्ञानिकाः, ज्ञानम्, विद्यालये, छात्रः, तत्त्वस्य, निवेदयामि, प्रधानाचार्यमहोदयः, ब्रह्मा, चयनस्य। |
भवान् सङ्गमविहारक्षेत्रस्य निवासी अस्ति। भवान् स्वनगरस्य स्वच्छतां कारयितुम् इच्छति। तदर्थं नगर-निगमाधिकारि-महोदयाय लिखिते पत्रे मञ्जूषापदसहायतया रिक्तस्थानानि पूरयतु -
सेवायाम्,
नगरनिगमधिकारि-महोदयः,
(i) ....., दिल्ली।
विषयः - वीथिकासु स्वच्छतायाः सन्दर्भे (ii) .....
मान्यवर!
अहं सङ्गमविहारक्षेत्रस्य (iii) ..... अस्मि। अतः सूचयितुं वाञ्छामि यत् अद्यत्वे (iv) ..... सर्वत्र अवकरणां राशिः अधिकः दृश्यते। तानि अवकरणानि निगलितानि भूत्वा (v) ..... जायमानानि सन्ति। अनेन सङ्क्रमणस्य (vi) ..... अत्यधिका अस्ति। केचन जनाः अत्र (vii) ..... अपि जाताः सन्ति। परम् अवकरम् अपसारयितुं कापि व्यवस्था न दृश्यते। (viii) ..... अपि बहुभ्यः दिनेभ्यः न आगतम् अस्ति।
अतः प्रार्थयामि यत् अस्माकं वीथिकानां (ix) ..... समुचितां व्यवस्थां कारयित्वा सर्वान् नगरवासिनः (x) ..... रक्षतु इति।
सधन्यवादम्
भवदीयः
नगरवासी
मञ्जूषा
| आशङ्का, रुग्णाः, अवकरवाहनम्, स्वच्छतायै, रोगेभ्यः, सङ्गमविहारम्, आवेदनपत्रम्, निवासी, वीथिकासु, दुर्गन्ध-युक्तानि। |
Solutions for (ग): पत्रलेखनम्

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (ग) - पत्रलेखनम्
Shaalaa.com has the CBSE Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. CBSE solutions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE (ग) (पत्रलेखनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. CBSE textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit Manika Dvitiyo Bhag Class 10 chapter (ग) पत्रलेखनम् are .
Using CBSE Sanskrit Manika Dvitiyo Bhag Class 10 solutions पत्रलेखनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in CBSE Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit Manika Dvitiyo Bhag Class 10 students prefer CBSE Textbook Solutions to score more in exams.
Get the free view of Chapter (ग), पत्रलेखनम् Sanskrit Manika Dvitiyo Bhag Class 10 additional questions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.
