सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति।
Advertisements
Advertisements
Question
सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।
छात्रावासः,
राजकीयः विद्यालयः
(i) ......।
तिथिः 25-02-2025
माननीयाः पितृवर्याः!
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (ii) ..... परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iii) ..... विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिकभ्रमणाय (iv) ..... नेष्यन्ति। अहम् अपि ताभिः (v) ..... गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापिकायै (vi) ..... रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (vii) ..... तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं न पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
सर्वेभ्यः मम (viii) ..... निवेदनीयाः।
भवतां प्रिया (ix) .....
सुकन्या
पत्रवेष्टनम्।
|
सविधे श्री प्रणवभट्टाचार्यः, 26, चितरज्जनपार्क:, नवदिल्ली (x) ..... |
मञ्जूषा
| प्रणामाः, सह, कोलकातातः, स्यात्, पञ्चसहस्रम्, 110019, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री। |
Advertisements
Solution
छात्रावासः,
राजकीयः विद्यालयः
(i) कोलकातातः।
तिथिः 25-02-2025
माननीयाः पितृवर्याः!
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (ii) प्रथमसत्रीया परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iii) मम विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिकभ्रमणाय (iv) भुवनेश्वरम् नेष्यन्ति। अहम् अपि ताभिः (v) सह गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापिकायै (vi) पञ्चसहस्रम् रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (vii) स्यात् तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं न पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
सर्वेभ्यः मम (viii) प्रणामाः निवेदनीयाः।
भवतां प्रिया (ix) पुत्री
सुकन्या
पत्रवेष्टनम्।
|
सविधे श्री प्रणवभट्टाचार्यः, 26, चितरज्जनपार्क:, नवदिल्ली (x) 110019 |
