English

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (घ) - संवादलेखनम्‌ [Latest edition]

Chapters

    *: पुनरावृत्तिः - (वर्णानाम् उच्चारणस्थानानि, स्वरसमयः, व्यञ्जनसमयः, विसर्गसन्धयः)

प्रथम: अभ्यास: - सन्धयः:

    (क): स्वरसन्धय:

    (ख): व्यजञ्जनसन्धय:

    (ग): विसर्गसन्धि:

द्वितीय: अभ्यास: - समासा:

    (क): अव्ययीभाव समास:

    (ख): तत्पुरुषा:

    (ग): द्वन्द्वसमास:

    (घ): बहुव्रीहि:

तृतीय: अभ्यास: - प्रत्यया:

    (क): कृत्प्रत्ययाः

    (ख): तद्धितप्रत्यया:

    (ग): स्त्रीप्रत्ययौ:

चतुर्थ: अभ्यास:

    *: वाच्यम्‌

पञ्चम: अभ्यास:

    *: सङ्ख्या

षष्ठ: अभ्यास

    *: समयः

सप्तम: अभ्यास:

    *: अव्ययानि

अष्टम: अभ्यास

    *: अशुद्धिसंशोधनम्‌

नवम: अभ्यास: रचनात्मककार्यम्‌

    (क): चित्रवर्णनम्‌

    (ख): अनुच्छेदलेखनम्‌

    (ग): पत्रलेखनम्‌

▶ (घ): संवादलेखनम्‌

    (ड़): कथापूर्तिः

दशम: अभ्यास:

    *: अपठितावबोधनम्‌

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (घ) - संवादलेखनम्‌ - Shaalaa.com
Advertisements
Advertisements

Solutions for Chapter (घ): संवादलेखनम्‌

Below listed, you can find solutions for Chapter (घ) of CBSE CBSE for Sanskrit Manika Dvitiyo Bhag Class 10.


संवादलेखनम्‌
Advertisements
संवादलेखनम्‌ [Pages 132 - 136]

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 (घ) संवादलेखनम्‌ संवादलेखनम्‌ [Pages 132 - 136]

1.Page 132

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

गृञ्जनलाभाः
शाकविक्रेत्री स्वीकरोतु। स्वीकरोतु। स्वास्थ्यवर्धकानि रक्तवर्णानि कोमलानि गृज्जनकानि। एतानि पित्तं शमयन्ति। रक्तं वर्धयन्ति च।
सुरभिः अयि त्वम् ..... असि?
शाकविक्रेत्री मया तु गुणाः अपि वर्णनीयाः एव। यतोहि अहम् प्राकृतिकचिकित्साम् अपठम्।
सुरभिः शोभनम्। गृञ्जनकानां ..... किम्?
शाकविक्रेत्री मूल्यम्? एकवारम् एव वदामि। पञ्चाशतरूप्यकैः किलोमितानि।
सुरभिः अधिकं ननु, ..... करोतु।
शाकविक्रेत्री त्रिंशत् रूप्यकाणि? नैव? त्वं तु विना मूल्येन एव वाञ्छसि किल।
सुरभिः अस्तु। क्रोधं मास्तु, चत्वारिंशत् करोतु, ..... स्वीकरोमि।
शाकविक्रेत्री पञ्चकिलोमितानि ददामि। गृञ्जनपाकार्थं वाञ्छ्यते किम्?
सुरभिः आम्! बालेभ्यः ..... बहु रोचते ननु।
शाकविक्रेत्री धन्यवादः। पुनरपि आगच्छतु भवती।

मञ्जूषा

त्रिंशत्, वैद्या, मूल्यम्, पञ्चकिलोमितानि, गुञ्जनपाकः।
2.Page 132

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

अलं विवादेन
बस-संवाहकः भोः ! कुत्र गन्तव्यम्? यात्रापत्रं स्वीकरोतु।
सोमेशः द्वे ..... केन्द्रीयसचिवालयं यावत् ददातु। एतानि पञ्चाशत् ..... स्वीकरोतु।
बस-संवाहकः एते यात्रापत्रे। परिवर्तं देहि। विंशतिः रूप्यकाणि न सन्ति?
सोमेशः मम समीपे ..... न अस्ति।
बस-संवाहकः यात्रापत्रम् आनय। तस्य पृष्ठे अवशिष्टं राशिं लिखामि।
सोमेशः अवशिष्टानि रूप्यकाणि कुतः .....?
बस-संवाहकः राजीवचतुष्पथे स्थितात् कार्यालयात् एव प्राप्स्यन्ते।
सोमेशः विचित्रा व्यवस्था। ..... रूप्यकाणि प्राप्तुं पुनः दशरूप्यकाणां व्ययः समयहानिः च।
बस-संवाहकः अहं किं करवाणि? मम समीपे त्रिंशत् रूप्यकाणि न सन्ति?
धनेशः सोमेश, अलं विवादेन। एतानि विशतिरूप्यकाणि दीयन्ताम्।
बस-संवाहकः धन्यवादाः। जनतायाः सहयोगः इत्थम् एव सर्वत्र अपेक्षितः।

मञ्जूषा

त्रिंशत्, रूप्यकाणि, यात्रापत्रे, प्राप्स्यन्ते, परिवर्तः।
3.Page 133

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

यातायातनियमानां पालनम्
(नगेन्द्रः द्विचक्रिकया गच्छति।)
आरक्षकः विरम विरम! किं न पश्यसि रक्तविद्युत्सङ्केतम्?
नगेन्द्रः .....।
आरक्षकः विद्यालयं प्रति गन्तव्यम् इति तु समुचितं कारणं नास्ति।
नगेन्द्रः .....।
आरक्षकः परीक्षा अस्ति तर्हि गृहात् दशनिमेषपूर्वम् एव प्रस्थानं करणीयम्।
नगेन्द्रः .....।
आरक्षकः कथं क्षमे? शीघ्रं शतं रूप्यकाणि प्रयच्छ।
नगेन्द्रः .....।
आरक्षकः बाढम्! गच्छ अधुना। भविष्ये कदापि यातायातनियमानाम् उल्लङ्घनं न करणीयम्। भवतां सुरक्षार्थम् एव एते नियमाः सन्ति।
नगेन्द्रः .....।

मञ्जूषा

  • किं करोमि? अद्य परीक्षा अस्ति।
  • (विलपन्) कृपया क्षम्यताम्। अद्य तु मम समीपे धनं नास्ति।
  • क्षम्यताम्। विद्यालयं प्रति गन्तव्यम्। विलम्बः जातः अस्ति।
  • उपकृतः अस्मि। भविष्ये कदापि इत्थं न आचरिष्यामि।
  • अद्य तावत् क्षम्यताम्।
4.Page 133

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

आरोग्यं परमं सुखम्
वैद्यः आगच्छ पुत्रि। किं जातम्? ज्वरः अस्ति किम्?
सुनृता .....।
वैद्यः एवम्। ज्वरः न अस्ति। उदरे पीडा वर्तते ह्यः किं भक्षितम्?
सुनृता .....।
वैद्यः अहो! आपणे आलुकस्य पिष्टिकाः खादिताः। किं न जानासि, वर्षर्तौ आपणे खाद्यवस्तूनि न खादितव्यानि। एतत् चूर्णं स्वीकरोतु।
सुनृता .....। 
वैद्यः अरे नहि। कटु न अस्ति। पुनरपि औषधिकृते स्वादः न गणनीयः।
सुनृता .....? 
वैद्यः दिने त्रिवारम् एकचमसमात्रम् उष्णजलेन ग्रहीतव्यम्।
सुनृता .....
वैद्यः पुनः आगमनस्य आवश्यकता एव न भविष्यति। स्वास्थ्यं प्रति भविष्ये सावधाना भव। आरोग्यं परमं सुखम्।
सुनृता धन्यवादाः। प्रणमामि।

मञ्जूषा

  • महोदय! ज्वरः नास्ति, उदरे पीडा अस्ति।
  • औषधं दिवसे कतिवारं स्वीकरणीयम्?
  • अस्तु, पुनः कदा आगन्तव्यम्?
  • अहो चूर्णम्! चूर्णं कटु तु न अस्ति?
  • अधिकं किमपि न भक्षितम् आपणे केवलम् आलुकस्य पिष्टिकाः खादिताः।
5.Page 134

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

परोपकाराय सतां विभूतयः
सुधाकरः नमस्ते। आगच्छतु भवान्। उपविशतु।
अतिथिः उपविशामि तावत्। भवतः पितृमहोदयाः गृहे न सन्ति किम्?
सुधाकरः स तु इदानीम् एव चिकित्सालयम् अगच्छत्।
अतिथिः किमर्थं ..... अगच्छत्?
सुधाकरः नास्ति विशेषं कारणम्। स प्रतिदिनं रुग्णेभ्यः दुग्धं ..... तत्र गच्छति।
अतिथिः एवम् ..... दातुम्! किं प्रतिदिनम् एव?
सुधाकरः आम्! यदा कदा फलानि अपि नयति।
अतिथिः महान् ..... अस्ति।
सुधाकरः किम् अत्र परोपकारः। एतत् तु अस्माकं कर्तव्यम् एव।
अतिथिः धन्योऽहं यत् एतेषाम् अद्य ..... भविष्यति।
सुधाकरः नहि, नहि। अद्य दर्शनं न भविष्यति यतः सः ततः एव कार्यालयं प्रति गमिष्यति।
अतिथिः ..... कदा गच्छति?
सुधाकरः प्रतिदिनम् अष्टवादने एव।
अतिथिः श्वः अष्टवादने एव आगमिष्यामि। कृपया निवेदय ‘तस्य बालमित्रं सुरेन्द्रः आगतः आसीत्’।
सुधाकरः अवश्यमेव कथयिष्यामि। नमस्ते।

मञ्जूषा

दातुम्, परोपकारः, कार्यालयम्, दुग्धम्, चिकित्सालयम्, दर्शनम्।
6.Page 135

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

सदुपयोगः
ऋतिका तव वस्त्राणि तु अतीव शोभन्ते।
मञ्जुला .....
ऋतिका तव पार्श्वे कति परिधानानि सन्ति?
मञ्जुला बहूनि नूतनपरिधानानि वर्तन्ते मम समीपे तथापि अहं विशेषावसरेषु नवीनपरिधानानां क्रयं करोमि।
ऋतिका .....
मञ्जुला अत्र-तत्र यदा-कदा अवसरेषु धारयिष्यामि। तव समीपे कति परिधानानि?
ऋतिका .....
मञ्जुला पुस्तकैः किं करिष्यसि?
ऋतिका पुस्तकानि एव अस्माकं मित्राणि सन्ति। अद्यत्वे दिल्लीनगरे पुस्तकमेलापकं वर्तते। तत्र गत्वा पुस्तकानि एव क्रेष्यामि।
मञ्जुला .....
ऋतिका परिधानेभ्यः किं भवति? परिधानानि तु जीवनाय एव सन्ति न तु जीवनं परिधानेभ्यः अस्ति। पुस्तकानि तु आजीवनम् उपकुर्वन्ति।
मञ्जुला .....

मञ्जूषा

  • किं पुस्तकैः परिधानस्य स्थानं नीयते?
  • किं करिष्यसि एभिः परिधानैः?
  • साधु। एतत् तु मया न चिन्तितम्। अद्य आरभ्य अहम् अपि धनस्य सदुपयोगं पुस्तकेभ्यः एव करिष्यामि न तु परिधानेभ्यः।
  • मम समीपे केवलं पञ्च परिधानानि सन्ति। अहं तैः सन्तुष्टा अस्मि। अहं तु पुस्तकप्रिया अस्मि।
  • अये! अद्य तु मम जन्मदिवसः, एतत् परिधानं तु मम माता मह्यं क्रीतवती।
7.Page 136

निम्नलिखितसंवादेषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयन्तु।

उद्यमः
(सर्वेशः सोमेशः च विद्यालयस्य अल्पाहारगृहे उपविष्टौ। एकादशवर्षीयः मनोजः आगत्य चायपात्राणि स्थापयति।)
सर्वेशः भो! कतिदिनेभ्यः अत्र कार्यं करोषि? पूर्वं तु न दृष्टः?
मनोजः .....
सोमेशः एवम्। सप्ताहः जातः! कुतः आगतः?
मनोजः .....
सोमेशः अध्ययनं त्यक्त्वा किमर्थं पाटलिपुत्रतः अत्र आगतः?
मनोजः किं करोमि! मन्दभाग्यस्य मम पिता दुष्टैः पूर्वं हतः।
  ....., अनाथः अहं कथं निर्वाहं कुर्याम्?
सर्वेशः अहो! महदुःखम्, परं पठनं न वाञ्छसि किम्?
मनोजः .....
सोमेशः एवं हतोत्साही मा भव। विद्यालये रात्रौ कक्षा भवति। किमपि पठितं न वा?
मनोजः केवलं द्वितीयकक्षा उत्तीर्णा।
सर्वेशः सायं षड्वादने आगच्छतु। यदि मनोयोगेन पठिष्यसि तर्हि छात्रवृत्तिमपि प्राप्स्यसि।
मनोजः .....
सोमेशः सर्वं तव अधीनम् एव। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः।

मञ्जूषा

  • बहु उपकृतम्। ईश्वरः भवते सर्वां सिद्धिं प्रदास्यति।
  • अवश्यम् इच्छामि। परं शिक्षा नास्ति मे भाग्ये।
  • श्रीमन्! पाटलिपुत्रतः आगतोऽस्मि।
  • श्रीमन्! सप्ताहः एव जातः।
  • इदानीं मम माता अपि दिवङ्गता।

Solutions for (घ): संवादलेखनम्‌

संवादलेखनम्‌
CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (घ) - संवादलेखनम्‌ - Shaalaa.com

CBSE solutions for Sanskrit Manika Dvitiyo Bhag Class 10 chapter (घ) - संवादलेखनम्‌

Shaalaa.com has the CBSE Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. CBSE solutions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE (घ) (संवादलेखनम्‌) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. CBSE textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit Manika Dvitiyo Bhag Class 10 chapter (घ) संवादलेखनम्‌ are .

Using CBSE Sanskrit Manika Dvitiyo Bhag Class 10 solutions संवादलेखनम्‌ exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in CBSE Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit Manika Dvitiyo Bhag Class 10 students prefer CBSE Textbook Solutions to score more in exams.

Get the free view of Chapter (घ), संवादलेखनम्‌ Sanskrit Manika Dvitiyo Bhag Class 10 additional questions for Mathematics Sanskrit Manika Dvitiyo Bhag Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×