English

दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागतरङ्गै क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली।

Advertisements
Advertisements

Question

दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागतरङ्गै क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत्-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः। एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुर्वन्ति।

अ. एकपदेन उत्तरत -

(क) समुद्रजले स्थितायां शिलायां किं विकसितम्?

(ख) कस्य दृश्यम् अद्भुतं प्रतिभाति?

(ग) त्रयाणां सागराणां सङ्गमस्थलस्य किं नाम अस्ति?

(घ) कन्याकुमारी इति नगरं कैः क्षाल्यमानम् अस्ति?

आ. पूर्णवाक्येन उत्तरत -

(क) कन्याकुमारीम् आगत्य साधकाः किं कुर्वन्ति?

(ख) का दर्शकान् मन्त्रमुग्धान् करोति?

(ग) सागरस्य लहरीभिः किं भवति?

(घ) स्वामिविवेकानन्दः समुद्रजले स्थितायां शिलायाम् किमकरोत्?

इ. गद्यांशस्य समुचितं शीर्षकं लिखत।

ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -

(क) ‘दक्षिणभारते सागरमध्ये एकं लघुद्वीपं वर्तते।’ वाक्येऽस्मिन् किं कर्तृपदं प्रयुक्तम्?

  1. लघुद्वीपम् 
  2. सागरमध्ये
  3. दक्षिणभारते
  4. एकम्

(ख) ‘प्रतिबिम्बितम्’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?

  1. अद्भुतम्
  2. सूर्योदयस्य
  3. दृश्यम्
  4. समुद्रजले

(ग) ‘कृष्णा’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?

  1. शोभा
  2. अरुणा
  3. पीता
  4. धवला

(घ) ‘समुद्रतीरे’ इत्यर्थं गद्यांशे किं पदं प्रयुक्तम्?

  1. समुद्रजले 
  2. जलधितटे
  3. सागरमध्ये
  4. सागरतरङ्गै
Comprehension
Advertisements

Solution

अ. 

(क) विवेकानन्दकेन्द्रम्

(ख) सूर्योदयस्य

(ग) कन्याकुमारी

(घ) सागरतरङ्गैः

आ. 

(क) कन्याकुमारीम् आगत्य साधकाः ध्यानं साधनां च कृत्वा जीवनं सफलं कुर्वन्ति।

(ख) सूर्यस्य क्रमशः अरुणा, पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति।

(ग) सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति।

(घ) स्वामिविवेकानन्दः समुद्रजले स्थितायां शिलायां त्रीणि दिनानि ध्यानमग्नः जातः।

इ. कन्याकुमारी — सागरसङ्गमस्थली

ई. 

(क) लघुद्वीपम्

(ख) दृश्यम्

(ग) धवला

(घ) जलधितटे

shaalaa.com
  Is there an error in this question or solution?
Chapter 22: अपठितावबोधनम्‌ - अपठितावबोधनम् [Page 141]

APPEARS IN

CBSE Sanskrit Manika Dvitiyo Bhag Class 10
Chapter 22 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 3. | Page 141
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×