अहम् एकः छिन्नः द्रुमः अस्मि। ह्यः वने एकः नरः आगच्छत्। सः काष्ठाय मम शरीरम् अच्छिन्नत्। छेदनेन मे शरीरे अनेके ब्रणाः जाताः। छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्।
Advertisements
Advertisements
Question
| अहम् एकः छिन्नः द्रुमः अस्मि। ह्यः वने एकः नरः आगच्छत्। सः काष्ठाय मम शरीरम् अच्छिन्नत्। छेदनेन मे शरीरे अनेके ब्रणाः जाताः। छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्। अकथनीया मम पीडा। हृदयं विदीर्णं जातम्। अश्रुभिः कण्ठः अवरुद्धः। मम अन्तकालः समीपे एव तिष्ठति। काष्ठानि एकत्रीकृत्य सः तु अगच्छत्। परं कोऽस्ति अत्र व्यथाकथाश्रवणाय? वृक्षान् छित्वा नरः प्रकृतिमातुः अङ्गानि नाशयति। इन्धनाय, कर्गदपत्राय, भवननिर्माणाय मम काष्ठस्य प्रयोगः भवति। किन्तु कुतः मे पत्राणि, पुष्पाणि कुतः च रोगनिवारणाय औषधयः? निराश्रिताः भविष्यन्ति आश्रिताः खगाः कीटपतङ्गाश्च। पन्थानः अपि छायाहीनाः भविष्यन्ति। आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति? मम जीवने पुनः वसन्तर्तुः न आगमिष्यति। |
अ. एकपदेन उत्तरत -
(क) के छायाहीनाः भविष्यन्ति?
(ख) नरः किमर्थं वृक्षस्य शरीरम् अच्छिन्नत्?
(ग) पथिकः केन तमः भवति?
(घ) वृक्षस्य कण्ठः कैः अवरुद्धः अभवत्?
आ. पूर्णवाक्येन उत्तरत -
(क) वृक्षस्य काष्ठस्य प्रयोगः कुत्र कुत्र भवति?
(ख) के निराश्रिताः भविष्यन्ति?
(ग) छुरिकायाः प्रहारेण किम् अभवत्?
(घ) वृक्षान् छित्वा नरः किं करोति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकल्पेष्य चिनुत -
(क) ‘अपतन्’ इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?
- अश्रुरूपाः
- प्रहारेण
- शरीरात्
- जलबिन्दवः
(ख) ‘आतपेन ततः श्रान्तः पथिकः अधुना कुत्र गमिष्यति।’ वाक्येऽस्मिन् विशेष्यपदं किम्?
- पथिकः
- तप्तः
- श्रान्तः
- अधुना
(ग) ‘आश्रिताः’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- पतङ्गाः
- निराश्रिताः
- छायाहीनाः
- अश्रुरूपाः
(घ) ‘वृक्षः’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- छिन्नः
- काष्ठानि
- द्रुमः
- औषधयः
Advertisements
Solution
अ.
(क) पन्थानः
(ख) काष्ठाय
(ग) आतपेन
(घ) अश्रुभिः
आ.
(क) वृक्षस्य काष्ठस्य प्रयोगः इन्धनाय, कागदपत्राय तथा भवननिर्माणाय भवति।
(ख) वृक्षे आश्रिताः खगाः कीटपतङ्गाः च निराश्रिताः भविष्यन्ति।
(ग) छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्।
(घ) वृक्षान् छित्वा नरः प्रकृतिमातुः अङ्गानि नाशयति।
इ. छिन्नः द्रुमः — वृक्षच्छेदनस्य दुष्परिणामः
ई.
(क) जलबिन्दवः
(ख) पथिकः
(ग) निराश्रिताः
(घ) द्रुमः
