English

पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र द्विशतं छात्राः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्।

Advertisements
Advertisements

Question

पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र द्विशतं छात्राः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा संस्थाधिकारिणः छात्रेभ्यः एकं वैद्यं प्रेषितवन्तः। सः त्रीन् मासान् तत्र अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत्। वैद्यराजः प्रधानाचार्यम् अपृच्छत् - किम् अत्र कोऽपि रोगी न भवति? प्रधानाचार्यः विहस्य अवदत् - वैद्यराज! अस्य एकं रहस्यम् अस्ति। अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत् एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एव यत् स्वस्थाः नराः औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत् अत्र मम उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः।

अ. एकपदेन उत्तरत -

(क) गुरुकुलं कस्मिन् प्रदेशे आसीत्?

(ख) कीदृशाः नराः औषधं न सेवन्ते?

(ग) वैद्यः कियतः मासान् गुरुकुले अवसत्?

(घ) कति सङ्ख्याकाः छात्राः गुरुकुले पठन्ति स्म?

आ. पूर्णवाक्येन उत्तरत -

(क) एकदा संस्थाधिकारिणः किं कृतवन्तः?

(ख) छात्राणां स्वास्थ्यस्य किं रहस्यम् अस्ति?

(ग) वैद्यः हसित्वा किम् अवदत्?

(घ) छात्राणां भोजनादिव्यवस्थां का अकरोत्?

इ. गद्यांशस्य समुचितं शीर्षकं लिखत।

ई. यथानिर्देशं उत्तरत -

(क) ‘विहस्य’ इति अर्थे गद्यांशे किं पदं प्रयुक्तम्?

(ख) ‘सः त्रीन् मासान् तत्र अवसत्।’ वाक्येऽस्मिन् विशेषणपदं किम्?

(ग) ‘रुग्णाः’ इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(घ) ‘आगच्छत्’ इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?

Comprehension
Advertisements

Solution

अ.

(क) गुजरातप्रदेशे

(ख) स्वस्थाः

(ग) त्रीन्

(घ) द्विशतम्

आ. 

(क) एकदा संस्थाधिकारिणः छात्रेभ्यः एकं वैद्यं प्रेषितवन्तः।

(ख) छात्राः तीव्रक्षुधाम् अनुभूय भोजनं कुर्वन्ति तथा तृप्तेः पूर्वमेव भोजनं त्यजन्ति; एतदेव तेषां स्वास्थ्यस्य रहस्यम्।

(ग) वैद्यः हसित्वा अवदत् यत् अत्र तस्य उपयोगः न अस्ति, अतः सः गच्छति।

(घ) एका नगरस्थिता संस्था छात्राणां भोजनादिव्यवस्थाम् अकरोत्।

इ. स्वास्थ्यस्य रहस्यम्

ई. 

(क) हसित्वा

(ख) त्रीन्

(ग) स्वस्थाः

(घ) कोऽपि रुग्णः

shaalaa.com
  Is there an error in this question or solution?
Chapter 22: अपठितावबोधनम्‌ - अपठितावबोधनम् [Page 143]

APPEARS IN

CBSE Sanskrit Manika Dvitiyo Bhag Class 10
Chapter 22 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 5. | Page 143
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×