प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः पक्षिणः वनस्पतयः च तस्याः एव अङ्गानि।
Advertisements
Advertisements
Question
| प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः पक्षिणः वनस्पतयः च तस्याः एव अङ्गानि। निराशाः असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति। सा स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति। सूर्यः चन्द्रः च तस्याः नेत्रे। शस्य-श्यामला एषा भूमिः। विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति। नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति। |
अ. एकपदेन उत्तरत -
(क) कैः सह प्रकृते शाश्वतः सम्बन्धः अस्ति?
(ख) मानवः किं विहाय असाधुसेवितं पथं गच्छति?
(ग) निराशाः असहायाः जनाः कस्याः आश्रयं प्राप्नुवन्ति?
(घ) एषा भूमिः कीदृशी अस्ति?
आ. पूर्णवाक्येन उत्तरत -
(क) का प्रकृतेः एव शोभा अस्ति?
(ख) शाश्वतं सुखम् इच्छन् नरः किं न आचरेत्?
(ग) प्रकृतिः स्वमनोहरेण सौन्दर्येण किं करोति?
(घ) प्रकृतेः अङ्गानि कानि सन्ति?
इ. गद्यांशस्य समुचितं शीर्षकं लिखत।
ई. यथानिर्देशं समुचितमुत्तरं विकलपेभ्य चिनुत -
(क) आचरेत् इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?
- जनः
- नरः
- प्रकृतिः
- प्रतिकूलम्
(ख) ‘विविधाः’ इति पदं कस्य पदस्य विशेषणम्?
- ओषधयः
- वनस्पतयः
- जनाः
- कष्टानि
(ग) ‘सरसम्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- हृदयम्
- आश्रयम्
- शाश्वतम्
- नीरसम्
(घ) ‘सततम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?
- सर्वेषाम्
- उपकारम्
- नित्यम्
- परम्
Advertisements
Solution
अ.
(क) मनुष्यैः
(ख) कृतज्ञताम्
(ग) प्रकृतेः
(घ) शस्यश्यामला
आ.
(क) विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा अस्ति।
(ख) शाश्वतं सुखम् इच्छन् नरः प्रकृतेः प्रतिकूलं कदापि न आचरेत्।
(ग) प्रकृतिः स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति।
(घ) पशवः, पक्षिणः च वनस्पतयः प्रकृतेः अङ्गानि सन्ति।
इ. प्रकृतिः मानवस्य उपकारिणी
ई.
(क) नरः
(ख) ओषधयः
(ग) नीरसम्
(घ) नित्यम्
