मराठी

प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः पक्षिणः वनस्पतयः च तस्याः एव अङ्गानि।

Advertisements
Advertisements

प्रश्न

प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः पक्षिणः वनस्पतयः च तस्याः एव अङ्गानि। निराशाः असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति। सा स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति। सूर्यः चन्द्रः च तस्याः नेत्रे। शस्य-श्यामला एषा भूमिः। विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति। नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति।

अ. एकपदेन उत्तरत -

(क) कैः सह प्रकृते शाश्वतः सम्बन्धः अस्ति?

(ख) मानवः किं विहाय असाधुसेवितं पथं गच्छति?

(ग) निराशाः असहायाः जनाः कस्याः आश्रयं प्राप्नुवन्ति?

(घ) एषा भूमिः कीदृशी अस्ति?

आ. पूर्णवाक्येन उत्तरत -

(क) का प्रकृतेः एव शोभा अस्ति?

(ख) शाश्वतं सुखम् इच्छन् नरः किं न आचरेत्?

(ग) प्रकृतिः स्वमनोहरेण सौन्दर्येण किं करोति?

(घ) प्रकृतेः अङ्गानि कानि सन्ति?

इ. गद्यांशस्य समुचितं शीर्षकं लिखत।

ई. यथानिर्देशं समुचितमुत्तरं विकलपेभ्य चिनुत -

(क) आचरेत् इति क्रियापदस्य कर्तृपदं गद्यांशे किं प्रयुक्तम्?

  1. जनः
  2. नरः
  3. प्रकृतिः
  4. प्रतिकूलम्

(ख) ‘विविधाः’ इति पदं कस्य पदस्य विशेषणम्?

  1. ओषधयः
  2. वनस्पतयः
  3. जनाः
  4. कष्टानि

(ग) ‘सरसम्’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?

  1. हृदयम् 
  2. आश्रयम्
  3. शाश्वतम्
  4. नीरसम्

(घ) ‘सततम्’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?

  1. सर्वेषाम्
  2. उपकारम्
  3. नित्यम्
  4. परम्
आकलन
Advertisements

उत्तर

अ. 

(क) मनुष्यैः

(ख) कृतज्ञताम्

(ग) प्रकृतेः

(घ) शस्यश्यामला

आ. 

(क) विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा अस्ति।

(ख) शाश्वतं सुखम् इच्छन् नरः प्रकृतेः प्रतिकूलं कदापि न आचरेत्।

(ग) प्रकृतिः स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति।

(घ) पशवः, पक्षिणः च वनस्पतयः प्रकृतेः अङ्गानि सन्ति।

इ. प्रकृतिः मानवस्य उपकारिणी

ई. 

(क) नरः

(ख) ओषधयः

(ग) नीरसम्

(घ) नित्यम्

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 22: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १४०]

APPEARS IN

सीबीएसई Sanskrit Manika Dvitiyo Bhag Class 10
पाठ 22 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 1. | पृष्ठ १४०
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×