Advertisements
Chapters
*: उच्यारणस्थानानि
द्वितीयः अभ्यासः - सन्धय
क: स्वर-सन्धिः
ख: व्यञ्जन-सन्धिः
ग: विसर्ग-सन्धिः
तृतीयः अभ्यासः - शब्दरूपाणां प्रयोग
क: अजन्तशब्दाः
ख: हलन्तशब्दाः
ग: सर्वनाम
घ: सङ्ख्यावाचकशब्दाः
चतुर्थः अभ्यासः - धातुरूपाणां प्रयोग
क: लट्लकारः (वर्तमानकालः)
ख: लङ्लकारः (भूतकालः)
ग: लृट्लकारः (भविष्यत्कालः)
घ: लोट्लकारः (आदेशार्थे)
ङ: विधिलिङ्लकारः (सम्भावना)
पञ्चमः अभ्यासः - विभक्तीनां प्रयोगा
क: कारकपरिचयः
ख: प्रथमा-द्वितीया-विभवितति-प्रयोगः
ग: तृतीयाविभवितिप्रयोगः
घ: चतुर्थीविभक्तिप्रयोगः
ङ: पञ्चमीविभक्तिप्रयोगः
च: षष्ठीविभविततप्रयोगः
छ: सप्तमीविभक्तिप्रयोगः
ज: विहद्घावलोकनम्
षष्ठः अभ्यासः - प्रत्यय-प्रयोगः
क: क्तवा प्रत्ययः
ख: ल्यप् प्रत्ययः
ग: तुमुन् प्रत्ययः
घ: क्तवतु-क्त-प्रत्ययौ
ङ: शत् प्रत्ययः
सप्तमः अभ्यासः
*: अव्ययानि
अष्टमः अभ्यासः
▶ *: अपठितावबोधनम्
नवमः अभ्यासः - रचनात्मककार्यम्
क: पत्रलेखनम्
ख: चित्रवर्णनम्
ग: अनुच्छेदलेखनम्
घ: कथापूर्तिः
ङ: संवादलेखनम्

Advertisements
Solutions for Chapter *: अपठितावबोधनम्
Below listed, you can find solutions for Chapter * of CBSE CBSE for संस्कृत मणिका प्रथमो भाग इयत्ता ९.
CBSE solutions for संस्कृत मणिका प्रथमो भाग इयत्ता ९ * अपठितावबोधनम् अपठितावबोधनम् [Pages 176 - 183]
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| आधुनिकजीवने सङ्गणकस्य आविष्कारेण उद्योगे, शिक्षायां, मनोरञ्जने इत्यादिषु सर्वेषु क्षेत्रेषु कल्पनातीतः विकासः दृश्यते। कोरोनाकारणात् यदा गृहवासः जातः तदा तु सङ्गणकयन्त्रस्य महत्त्वम् इतोऽपि प्रवृद्धम् अभवत्। आबालव्यवसायिनः सर्वेऽपि अनेन स्वस्वकार्यं साधितवन्तः। कार्यालयेषु वित्तकोषादिषु च महत्सङ्ख्याकाः गणनाः क्षणेनैव अनेन साधिताः भवन्ति तदपि दोषं विना। दूरभाष-वायुयान-आदिभिः दूरस्थः संसारः अवश्यमेव समीपम् आयाति परम् अन्तर्जालमाध्यमेन तु वसुधा अस्माकं मुष्टिकायामिव प्रतिभाति। अनेन प्रेषितः सन्देशः झटिति सप्तसमुद्रान् अपि अतिक्रम्य पारं गच्छति। अस्य साहाय्येन वयं दूरस्थान् बन्धुबान्धवान् द्रष्टुं तैः सह वार्ता च कर्तुं समर्थाः भवामः। वस्तुतः अधुना “वसुधैव कुटुम्बकम्” इति उक्तिः सफला अभवत्। |
(अ) एकपदेन उत्तरत-
- कस्य आविष्कारेण कल्पनातीतः विकासः दृश्यते?
- सन्देशः कान् अतिक्रम्य पारं गच्छति?
- केन वसुधा अस्माकं मुष्टिकायामिव प्रतिभाति?
(आ) पूर्णवाक्येन उत्तरत -
- अधुना का उक्तिः सफला अभवत्?
- सङ्गणकयन्त्रेण दोषं विना किं साधितं भवति?
- सङ्गणकयन्त्रस्य महत्त्वं कदा प्रवृद्धम् अभवत्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत।
- अधुना “वसुधैव कुटुम्बकम्” इति उक्तिः सफला अभवत्, अत्र ‘अभवत्’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
(क) सफला (ख) अधुना (ग) उक्तिः (घ) वसुधैव - ‘कल्पनातीतः’ इति विशेषणस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
(क) उद्योगे (ख) विकासः (ग) क्षेत्रेषु (घ) शिक्षायाम् - ‘पृथ्वी’ इति पदस्य अर्थं गद्यांशे किं पदं प्रयुक्तम्?
(क) वसुधा (ख) कुटुम्बकम् (ग) वस्तुतः (घ) दूरस्थान् - ‘समीपस्थः’ पदस्य विलोमपदम् अनुच्छेदात् चित्वा लिखत।
(क) दूरस्थः (ख) प्रेषितः (ग) संसारः (घ) साधितवन्तः
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| गोमायुः नाम कश्चन शृगालः आसीत्। एकदा सः महत्या बुभुक्षया पीडितः अभवत्। तया तस्य शरीरे शैथिल्यम् अभवत्। तदा सः आहारान्वेषणार्थम् अरण्ये इतस्ततः भ्रमति स्म। भ्रमन् सः अरण्यस्य मध्ये तत् स्थानं प्राप्तवान् यत्र केभ्यश्चित् दिनेभ्यः पूर्वं द्वयोः सैन्ययोः मध्ये युद्धं जातम् आसीत्। तत्र सैनिकैः प्रयोगः कृतः कश्चन दुन्दुभिः पतितः आसीत्। वायोः कारणात् समीपस्थायाः लतायाः शाखाः यदा दुन्दुभिं घट्टयन्ति तदा ततः महान् शब्दः भवति स्म। शृगालः दूरादेव तं महान्तं शब्दं श्रुतवान्। तस्य महाशब्दस्य श्रवणेन शृगालः भीतः अभवत्। सः एवम् अचिन्तयत् - हन्त! हा हतोऽस्मि। एवं शब्दं कुर्वतः प्राणिनः दृष्टिपथं यावत् न गच्छामि तावदेव इतः अन्यत्र गच्छामि इति। सः पुनः चिन्तयति - अथवा झटिति एवं निर्णयकरणं नोचितम्। भयं हर्षः वा यदा जायते तद्विषये विमर्शः करणीयः, झटिति किमपि कार्यं न कर्तव्यम्। एवं सर्वं विचिन्त्य यः कार्यं करोति सः सन्तापं न प्राप्नोति। |
(अ) एकपदेन उत्तरत-
- शृगालः कया पीडितः अभवत्?
- यः विचिन्त्य कार्यं करोति सः किं न प्राप्नोति?
- शृगालस्य नाम किम् आसीत्?
(आ) पूर्णवाक्येन उत्तरत-
- शृगालः भ्रमन् अरण्यमध्ये किं प्राप्तवान्?
- शृगालः पुनः किं चिन्तयति?
- गोमायुः किमर्थं वने इतस्ततः भ्रमति स्म?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत -
- “महाशब्दस्य श्रवणेन शृगालः भीतः अभवत्।” अस्यां पङ्क्तौ कर्तृपदं किम्?
(क) महाशब्दस्य (ख) शृगालः (ग) श्रवणेन (घ) अभवत् - “महान्” इति विशेषणपदस्य किं विशेष्यपदम् अनुच्छेदे प्रयुक्तम्?
(क) शब्दः (ख) गोमायुः (ग) विमर्शः (घ) कर्तव्यम् - “दुःखम्” इति पदस्य किं समानार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
(क) हर्षः (ख) सन्तापम्/सन्तापः (ग) भयम् (घ) विमर्शः - ‘अविचार्य’ इति पदस्य विलोमपदम् अनुच्छेदात् चित्वा लिखत।
(क) विचिन्त्य (ख) श्रुत्वा (ग) भ्रमन् (घ) कर्तव्यम्
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति। तदा कृषका मुदिताः भवन्ति। यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति। आकाशे मेघाः उच्चैः गर्जन्ति। सर्वत्र गर्जनोत्पन्नप्रकम्पनं भयङ्करं भवति। तदा मयूराः केकारवं कुर्वन्तः हर्षिताः भूत्वा नृत्यन्ति। नद्यः तडागाः च जलपूर्णाः भवन्ति। कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति। क्रमेण सस्यसम्पद् वर्धते। परं यदा अतिवृष्टिः भवति तदा महती विपद् सज्जायते। नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति। पशुपक्षिणः, लघवः प्राणिनः च प्रियन्ते। एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति। तदा जलस्य अभावेन तडागाः शुष्यन्ति। वृक्षाः विनश्यन्ति। कृषिकर्म असाध्यं भवति। कृषिं विना धान्योत्पत्तिः एव न भवति। प्राणान् धारयितुम् आवश्यकानां वस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति। क्रमशः जीवनम् एव दुर्बहं भवति। अतिवृष्टेरनावृष्टेः च मूलं मानवः एव। सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति। पर्यावरणप्रदूषणेन ऋतूनां गतयः परिवर्तिताः भवन्ति। अतः पर्यावरणसंरक्षणाय वयं जागरुकाः भवेम। |
(अ) एकपदेन उत्तरत -
- वर्षाकालः कदा आगच्छति?
- सर्वत्र गर्जनोत्पन्नप्रकम्पनं कीदृशं भवति?
- जलस्य अभावेन के शुष्यन्ति ?
(आ) पूर्णवाक्येन उत्तरत-
- पर्यावरणं कथम् असन्तुलितं भवति?
- कदा भगवतः आशीर्वाद इव जलबिन्दवः निपतन्ति?
- यदा अतिवृष्टिः भवति तदा नदीनां तीरेषु किं भवति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘कृषकाः’ क्षेत्राणि कृष्ट्वा बीजानि वपन्ति।’ अत्र किं क्रियापदम्?
(क) कृष्ट्वा (ख) बीजानि (ग) वपन्ति (घ) उपर्युक्तानि सर्वाणि - ‘असन्तुलिम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम् (ख) विपिनम् (ग) ऋतुः (घ) मानवः - ‘अरण्यानाम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) मेघानाम् (ख) विपिनानाम् (ग) निमज्जितानाम् (घ) पर्यावरणम् - ‘दुःखिताः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
(क) परिवर्तिताः (ख) जनाः (ग) आशीर्वादाः (घ) मुदिताः
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| संस्कृतभाषायाम् एव विश्वस्य प्राचीनतमः आलेखः ऋग्वेदः निबद्धः। अस्यां भाषायां भारतीय-संस्कृतेः मूलाधारभूतानि रामायणं, महाभारतं पुराणानि चापि प्राप्यन्ते। चत्वारो वेदाः, सर्वा उपनिषदः, अष्टादशपुराणानि अन्यानि च महाकाव्यनाट्यादीनि अस्यामेव भाषायां लिखितानि सन्ति। इयं सा भाषा यस्यां निबद्धाः विचाराः प्राचीनकालात् आरभ्य आधुनिककालं यावत् सततम् अखिलं विश्वं प्रभावितं कुर्वन्ति। वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति। श्रीमद्भगवद्गीतायाः सन्देशः विश्वस्य जनेषु विविधभाषानुवादमाध्यमेन प्रख्यातः। विश्वस्य अनेकेषु विश्वविद्यालयेषु संस्कृतस्य भिन्नशाखानाम् अध्ययनार्थं विभागाः सन्ति। इयं देवभाषा सम्पूर्णं विश्वे भारतवर्षस्य गौरवं वर्धयति। विद्यमानेषु निखिलेषु अपि वाङ्मयेषु संस्कृतभाषायाः वाङ्मयं सर्वश्रेष्ठं सुसम्पन्नं च वर्तते। धन्योऽयं भारतदेशः यत्र सुरभारती समुल्लसति। |
(अ) एकपदेन उत्तरत-
- विश्वस्य प्राचीनतमः आलेखः कः?
- संस्कृतं कस्य गौरवं वर्धयति?
- अनेकेषु विश्वविद्यालयेषु कस्य अध्ययनस्य कृते विभागाः सन्ति?
(आ) पूर्णवाक्येन उत्तरत-
- संस्कृतभाषायां किं किं प्राप्यते?
- श्रीमद्भगवद्गीतायाः सन्देशः कथं प्रख्यातः?
- मानवेभ्यः किं प्रेरणादायकम् अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘सन्ति’ इति क्रियापदस्य किं कर्तृपदम्?
(क) संस्कृतस्य (ख) अनेके (ग) विश्वस्य (घ) विभागाः - ‘विश्वम्’ इति पदस्य किं विशेषणपदम्?
(क) अखिलम् (ख) सम्पूर्णम् (ग) संस्कृतम् (घ) सततम् - ‘निरन्तरम्’ इत्यर्थं किं पदं गद्यांशे प्रयुक्तम्?
(क) सततम् (ख) विश्वम् (ग) अखिलम् (घ) संस्कृतम् - ‘वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?
(क) ज्ञानम् (ख) मानवेभ्यः (ग) प्रेरणादायकम् (घ) अस्ति
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| अनुशासनं जीवनाय अनिवार्यं तत्त्वम् अस्ति। व्यावहारिकजीवने अनुशासनस्य अतीव महत्त्वं विद्यते। किं नाम अनुशासनम् इति जिज्ञासायाम् अयमेव व्यावहारिकः अर्थः मनसि आगच्छति यत् निर्धारितानां नियमानां पालनं, मातुः, पितुः, गुरूणां ज्येष्ठानां च आज्ञापालनम् एव अनुशासनं भवति। अनुशासनस्य पालनेन न केवलं जीवनं व्यवस्थितं भवति अपितु अतिकठिनानि लक्ष्याणि अपि सरलतया प्राप्तानि भवन्ति। अनुशासनशीलाः जनाः जीवने सर्वत्र सफलतां सम्मानं च प्राप्नुवन्ति। प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति। यथा - सूर्यः निश्चिते समये उदितः भवति निर्धारिते च समये एव अस्तं गच्छति। संसारे ये केचन सुप्रसिद्धाः महापुरुषाः अभवन् ते सर्वे अनुशासनप्रियाः आसन्। सर्वे मानवाः यदि गृहे, कार्यस्थले, मार्गे, समाजे च अनुशासनं पालयेयुः तर्हि सर्वमपि सुव्यवस्थितं भवेत्। अतः इदम् अनिवार्यम् अस्ति यत् सर्वे जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु। |
(अ) एकपदेन उत्तरत-
- सुप्रसिद्धाः महापुरुषाः कीदृशाः आसन्?
- जीवनाय अनिवार्यं तत्त्वं किम् अस्ति?
- कः निश्चिते समये उदितः भवति?
(आ) पूर्णवाक्येन लिखत-
- सर्वमपि सुव्यवस्थितं कथं भवेत्?
- अनुशासनं किं भवति?
- अनुशासनशीलाः जनाः जीवने किं प्राप्नुवन्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति।’ अत्र क्रियापदं किम् अस्ति?
(क) प्रकृतेः (ख) सर्वदा (ग) तत्त्वानि (घ) पालयन्ति - ‘निर्धारिते’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
(क) भवति (ख) अस्तम् (ग) समये (घ) निश्चिते - ‘आदरम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) सम्मानम् (ख) आज्ञापालनम् (ग) सफलताम् (घ) अनिवार्यम् - ‘जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु।’ वाक्येऽस्मिन् ‘कुर्वन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अनुशासनस्य (ख) जनाः (ग) बाल्यादेव (घ) पालनम्
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| एकः भिक्षुकः भिक्षाटनं करोति स्म। तस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुला एव आसन्। ईश्वरं प्रार्थयन् सः अवदत्- “भगवन्! एतेन मम परिवारस्य उदरपूर्तिः न भविष्यति। प्रभो! दया कुरु!” तदैव कश्चिद् अन्यः भिक्षुकः तत्र आगच्छति वदति च - “भिक्षां देहि” इति। प्रथमः भिक्षुकः क्रोधेन अगर्जत् - “अरे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।” द्वितीयः भिक्षुकः तम् उक्तवान् - “तव भिक्षापात्रे तु अञ्जलिपरिमिताः तण्डुलाः सन्ति, मम पात्रं तु रिक्तम् अस्ति। दया कुरु। अर्धं मह्यं देहि।” प्रथमः भिक्षुकः तस्य निवेदनं न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः! निष्ठुरः मा भव। केवलम् एकम् एव तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै केवलम् एकम् एव तण्डुलम् अयच्छत्। द्वितीयः भिक्षुकः एकं तण्डुलं गृहीत्वा अगच्छत्। किञ्चित्कालानन्तरं प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारम् एकं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापं करोति - “धिङ् माम्। धिङ् मम मूर्खताम्।” |
(अ) एकपदेन उत्तरत-
- द्वितीयः भिक्षुकः अन्ते कति तण्डुलान् अयाचत?
- शिरः ताडयन् भिक्षुकः किं करोति?
- भिक्षुकस्य भिक्षापात्रे कियन्तः तण्डुलाः आसन्?
(आ) पूर्णवाक्येन लिखत-
- प्रथमः भिक्षुकः अन्ते स्वभिक्षापात्रे किं पश्यति?
- प्रथमः भिक्षुकः ईश्वरं किं प्रार्थयत्?
- क्रुद्धः भिक्षुकः गर्जन् किम् अकथयत्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘अयच्छत्’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
(क) तण्डुलम् (ख) तस्मै (ग) केवलम् (घ) भिक्षुकः - ‘तव भिक्षापात्रे तु अञ्जलिपरिमिताः तण्डुलाः सन्ति।’ वाक्येऽस्मिन् विशेषणपदं किम्?
(क) भिक्षापात्रे (ख) अञ्जलिपरिमिताः (ग) तव (घ) तण्डुलाः - ‘पश्चात्’ इति अर्थं गद्यांशे किं पदं प्रयुक्तम्?
(क) अनन्तरम् (ख) किञ्चित् (ग) आकारम् (घ) पश्चात्तापः - अनुच्छेदे ‘दयालुः’ इति पदस्य कः विपर्ययः आगतः?
(क) तण्डुलः (ख) भिक्षुकः (ग) निष्ठुरः (घ) भव
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| राष्ट्रस्य सर्वाङ्गीणविकासे छात्राणां महत्त्वपूर्णा भूमिका वर्तते यतः अद्यतनीयाः विद्यार्थिनः एव श्वस्तनीयाः प्रतिभावन्तः समृद्धाः सर्वसमर्थाः राष्ट्रोन्नतेः नायकाः सन्ति। राष्ट्रस्य उत्थानं पतनञ्च तान् एव आश्रयतः। अतः छात्राणां भाविजीवनस्य निर्माणे शिक्षकैः अभिभावकैः नागरिकैश्च सर्वैः एव सतर्कता सावधानता च परिलक्षणीयाः। छात्राः स्वयम् अपि स्वस्य भाविजीवनस्य निर्माणम् अतीव सतर्कतया सावधानतया च कुर्युः। इदमेव तेभ्यः सर्वेभ्यः अपेक्षते यत् ते स्वराष्ट्रं, स्वसमाजं, स्वधर्मं स्वसंस्कृतिञ्च प्रति अहर्निशं जागरूकाः भवेयुः यतः तेषां संयमितेन उत्कृष्टेन जीवनेन राष्ट्रं बलं गतिं च प्राप्तुं शक्नुयात्। येषां छात्राणां जीवनं राष्ट्रिय-भावनया परिपूर्णं न भवति तेषां जीवनं तस्मै राष्ट्राय समाजाय च भारायते। विद्यार्थिनां लक्ष्यं विद्योपार्जनेन सह चरित्रनिर्माणम् अपि भवेत्। विद्योपार्जनं कृत्वा चरित्रवन्तः छात्राः एव राष्ट्रम् उन्नतिपथं नेतुं समर्थाः भवन्ति। |
(अ) एकपदेन उत्तरत-
- राष्ट्रस्य विकासे केषां महत्त्वपूर्णा भूमिका वर्तते?
- कीदृशाः छात्राः राष्ट्रम् उन्नतिपथं नेतुं समर्थाः भवन्ति?
- छात्राः कस्य निर्माणं सतर्कतया सावधानतया च कुर्युः?
(आ) पूर्णवाक्येन उत्तरत-
- राष्ट्रोन्नतेः नायकाः के सन्ति?
- कीदृशाः छात्राः राष्ट्राय समाजाय वा भारभूताः एव भवन्ति?
- छात्रेभ्यः किम् अपेक्षते?
(इ) उपरिलिखितस्य अनुच्छेदस्य उचितं शीर्षकं लिखत।
(ई) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत-
- अनुच्छेदे ‘छात्राणाम्’ इत्यस्य कः पर्यायः आगतः?
(क) तेषाम् (ख) भारतस्य (ग) विद्यार्थिनः (घ) विद्यार्थिनाम् - ‘शक्नुयात्’ क्रियापदस्य कर्तृपदं किम्?
(क) तेषाम् (ख) राष्ट्रम् (ग) बलम् (घ) जीवनेन - ‘असमर्थाः’ इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे आगतः?
(क) समर्थाः (ख) समृद्धाः (ग) नायकाः (घ) जागरूकाः - ‘राष्ट्रस्य उत्थानं पतनञ्च तान् एव आश्रयतः।’ अत्र ‘तान्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) सर्वेभ्यः (ख) विद्यार्थिभ्यः (ग) शिक्षकेभ्यः (घ) नागरिकेभ्यः
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| एकदा एकः वैदेशिकः प्रथमराष्ट्रपतेः श्रीमतः राजेन्द्रप्रसादस्य गृहं प्राप्तवान्। राष्ट्रपतेः परिचारकः तम् आतिथ्यगृहे प्रतीक्षितुम् अकथयत् तम् असूचयत् च यद् राष्ट्रपतिमहोदया सम्प्रति पूजां कुर्वन्ति इति। सः अतिथिः ज्ञातुम् ऐच्छत् यद् राष्ट्रपतिः कथं करोति पूजाम्? परिचारकस्य मार्गदर्शनेन सङ्कोचं कुर्वन् सः अन्तः पूजागृहं प्राविशत्। सः आगन्तुकःराष्ट्रपते: समक्षं विद्यमानं मृत्पिण्डम् अवन्दत श्रद्धया च तत्र उपाविशत्। पूजां परिसमाप्य राष्ट्रपतिमहोदयः ससम्मानं तम् आतिथ्यगृहस्य अन्तः अनयत्। श्रीराजेन्द्रमहोदयः तस्य कौतूहलं विज्ञाय तस्मै समबोधयत् - एतत् मृत्पिण्डं भारतस्य भूम्याः प्रतीकम् अस्ति। वयं मृत्किकायाः कणेषु अपि ईश्वरस्य दर्शनं कुर्मः। अस्माकं चिन्तने तु मानवेषु पशुपक्षिषु, वृक्षेषु, पाषाणादिषु सर्वेषु चेतनाचेतनेषु अपि ईश्वरस्य सत्ता अस्ति। |
(अ) एकपदेन उत्तरत-
- श्रीराजेन्द्रप्रसादस्य गृहं कः प्राप्तवान्?
- चेतनाचेतनादिषु कस्य सत्ता अस्ति?
- राष्ट्रपते: परिचारकः वैदेशिकं कुत्र प्रतीक्षितुम् अकथयत्?
(आ) पूर्णवाक्येन उत्तरत-
- अतिथिः किं ज्ञातुम् ऐच्छत्?
- श्रीराजेन्द्रमहोदयः आगन्तुकं किं समबोधयत्?
- भारतीयचिन्तनानुसारम् ईश्वरस्य सत्ता कुत्र अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत-
- ‘एकदा एकः वैदेशिकः प्रथमराष्ट्रपते: श्रीराजेन्द्रप्रसादस्य गृहं प्राप्तवान्।’ अत्र कर्तृपदं किम् अस्ति?
(क) वैदेशिकः (ख) प्रथमराष्ट्रपते: (ग) श्रीराजेन्द्रप्रसादस्य (घ) गृहम् - ‘बहिः’ पदस्य किं विपर्ययपदम् अनुच्छेदे प्रयुक्तम्?
(क) समक्षम् (ख) सम्पदम् (ग) अन्तः (घ) विद्यमानम् - ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) परिचारकाय (ख) आगन्तुकाय (ग) राजेन्द्रप्रसादाय (घ) मृत्पिण्डाय - ‘एतत्’ इत्यस्य पदस्य किं विशेष्यपदं प्रयुक्तम्?
(क) प्रतीकम् (ख) महतीम् (ग) भारतीयाः (घ) मृत्पिण्डम्
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| श्रुतिपरम्परया समागताः प्राचीनतमाः ग्रन्थाः वेदाः सन्ति। ते चत्वारः सन्ति - ऋग्वेदः, यजुर्वेदः, सामवेदः अथर्ववेदश्च। वेदाः मानवकल्याणाय पथप्रदर्शकाः ग्रन्थाः सन्ति। वैदिककालीनं जीवनम् आदर्शभूतम् आसीत्। तदा मानवाः प्रमादरहिताः उद्योगशीलाः आसन्। वेदानां सन्देशः अस्ति यत् समाजे एकता भवेत्, जनेषु परस्परम् उच्चनीचभावः न भवेत् इति। ‘सङ्घच्छध्वं संवदध्वम्’ इति सङ्घटनसूक्तम् एतदेव उपदिशति यत् जनानां मनसि समानभावनाः स्युः। यदा सर्वे मिलित्वा कार्यं कुर्वन्ति, तदा समाजः उन्नतिशीलः भवति। अस्माभिः वैदिकजीवनमूल्यानि एव आचरणीयानि येन समाजे कश्चन दीनः दुर्बलः च न भवेत्। समाजघातकानि दुर्व्यसनानि सर्वथा त्याज्यानि भवेयुः। वेदेषु दुर्व्यसनानां निन्दा उद्योगस्य च प्रशंसा कृता वर्तते। उद्योगशीलाः जनाः एव स्वस्य, समाजस्य राष्ट्रस्य च उद्धारकाः भवन्ति इति उपदिशन्ति वेदाः। |
(अ) एकपदेन उत्तरत-
- वेदेषु कस्य प्रशंसा कृता?
- वेदकालीनं जीवनं कीदृशम् आसीत्?
- ‘उच्चनीचभावः न भवेत्’ इति केषां सन्देशः?
(आ) पूर्णवाक्येन उत्तरत-
- उद्योगशीलाः जनाः कीदृशाः भवन्ति?
- वेदाः के सन्ति?
- सङ्कटनसूक्तं किम् उपदिशति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) निर्देशानुसारम् उत्तरत-
- ‘भवेयुः’ इति क्रियापदस्य कर्तृपदं किम्?
- ‘उद्योगशीलाः’ इति विशेषणस्य विशेष्यं किम्?
- ‘यदा सर्वे मिलित्वा कार्यं कुर्वन्ति।’ अत्र सर्वे इति सर्वनामपदं केभ्यः प्रयुक्तम्?
- ‘मानवानाम्’ इति अर्थं अनुच्छेदे किं पदं प्रयुक्तम्?
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| कदाचित् केचन चौराः कस्यचित् साधोः कुटीरम् आगच्छन्। ते चौराः कुटीरम् आगत्य तस्य धेनुं चोरयित्वा नयन्ति स्म। तस्मिन् समये साधुः ईश्वर-स्तुत्यां रतः आसीत्। यदा धेनुः उच्चैः अस्मभत तदा उन्मीलितनेत्रः साधुः अपश्यत् यत् केचन जनाः तस्य धेनुं नयन्ति। साधुः तान् शान्तभावेन अवदत् - ‘तिष्ठत भ्रातरः! एतं गोवत्सम् अपि नयत अन्यथा मातृ-वियोगेन एषः स्वप्राणान् त्यक्ष्यति।’ साधोः हृदयस्य करुणभावनया चौराणां मनः परिवर्तितम् अभवत्। ते साधोः चरणयोः अपतन्, भविष्ये च चौरकर्म त्यक्त्वा उद्यमेन धनम् अर्जयितुम् प्रेरिताः अभवन्। |
(अ) एकपदेन उत्तरत-
- केषां मनः परिवर्तितम् अभवत्?
- चौराः कां चोरयित्वा नयन्ति स्म?
- साधुः कस्यां रतः आसीत्?
(आ) पूर्णवाक्येन उत्तरत-
- उन्मीलितनेत्रः साधुः किम् अपश्यत्?
- साधुः चौरान् किम् अकथयत्?
- चौराणां मनः कथं परिवर्तितम् अभवत्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) निर्देशानुसारम् उत्तरत-
- ‘नयन्ति स्म’ इति क्रियापदस्य कर्तृपदं किम्?
- ‘निमीलितनेत्रः’ इति पदस्य विलोमपदम् अनुच्छेदे किम्?
- ‘तस्य धेनुम् अनयन्।’ इति वाक्ये ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
- ‘साधोः’ इति पदस्य विशेषणपदम् अनुच्छेदे किम्?
Solutions for *: अपठितावबोधनम्

CBSE solutions for संस्कृत मणिका प्रथमो भाग इयत्ता ९ chapter * - अपठितावबोधनम्
Shaalaa.com has the CBSE Mathematics संस्कृत मणिका प्रथमो भाग इयत्ता ९ CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. CBSE solutions for Mathematics संस्कृत मणिका प्रथमो भाग इयत्ता ९ CBSE * (अपठितावबोधनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. CBSE textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in संस्कृत मणिका प्रथमो भाग इयत्ता ९ chapter * अपठितावबोधनम् are .
Using CBSE संस्कृत मणिका प्रथमो भाग इयत्ता ९ solutions अपठितावबोधनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in CBSE Solutions are essential questions that can be asked in the final exam. Maximum CBSE संस्कृत मणिका प्रथमो भाग इयत्ता ९ students prefer CBSE Textbook Solutions to score more in exams.
Get the free view of Chapter *, अपठितावबोधनम् संस्कृत मणिका प्रथमो भाग इयत्ता ९ additional questions for Mathematics संस्कृत मणिका प्रथमो भाग इयत्ता ९ CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.
