Advertisements
Advertisements
प्रश्न
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| एकः भिक्षुकः भिक्षाटनं करोति स्म। तस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुला एव आसन्। ईश्वरं प्रार्थयन् सः अवदत्- “भगवन्! एतेन मम परिवारस्य उदरपूर्तिः न भविष्यति। प्रभो! दया कुरु!” तदैव कश्चिद् अन्यः भिक्षुकः तत्र आगच्छति वदति च - “भिक्षां देहि” इति। प्रथमः भिक्षुकः क्रोधेन अगर्जत् - “अरे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।” द्वितीयः भिक्षुकः तम् उक्तवान् - “तव भिक्षापात्रे तु अञ्जलिपरिमिताः तण्डुलाः सन्ति, मम पात्रं तु रिक्तम् अस्ति। दया कुरु। अर्धं मह्यं देहि।” प्रथमः भिक्षुकः तस्य निवेदनं न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः! निष्ठुरः मा भव। केवलम् एकम् एव तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै केवलम् एकम् एव तण्डुलम् अयच्छत्। द्वितीयः भिक्षुकः एकं तण्डुलं गृहीत्वा अगच्छत्। किञ्चित्कालानन्तरं प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारम् एकं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापं करोति - “धिङ् माम्। धिङ् मम मूर्खताम्।” |
(अ) एकपदेन उत्तरत-
- द्वितीयः भिक्षुकः अन्ते कति तण्डुलान् अयाचत?
- शिरः ताडयन् भिक्षुकः किं करोति?
- भिक्षुकस्य भिक्षापात्रे कियन्तः तण्डुलाः आसन्?
(आ) पूर्णवाक्येन लिखत-
- प्रथमः भिक्षुकः अन्ते स्वभिक्षापात्रे किं पश्यति?
- प्रथमः भिक्षुकः ईश्वरं किं प्रार्थयत्?
- क्रुद्धः भिक्षुकः गर्जन् किम् अकथयत्?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘अयच्छत्’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
(क) तण्डुलम् (ख) तस्मै (ग) केवलम् (घ) भिक्षुकः - ‘तव भिक्षापात्रे तु अञ्जलिपरिमिताः तण्डुलाः सन्ति।’ वाक्येऽस्मिन् विशेषणपदं किम्?
(क) भिक्षापात्रे (ख) अञ्जलिपरिमिताः (ग) तव (घ) तण्डुलाः - ‘पश्चात्’ इति अर्थं गद्यांशे किं पदं प्रयुक्तम्?
(क) अनन्तरम् (ख) किञ्चित् (ग) आकारम् (घ) पश्चात्तापः - अनुच्छेदे ‘दयालुः’ इति पदस्य कः विपर्ययः आगतः?
(क) तण्डुलः (ख) भिक्षुकः (ग) निष्ठुरः (घ) भव
आकलन
Advertisements
उत्तर
(अ)
- एकम्।
- पश्चात्तापं करोति।
- अञ्जलिपरिमिताः।
(आ)
- सः भिक्षापात्रे तण्डुलाकारम् एकं स्वर्णकण्ठं पश्यति।
- सः ‘भगवन्! एतेन मम परिवारस्य उदरपूर्तिः न भविष्यति। प्रभो! दया कुरु!’ इति प्रार्थयत्।
- सः ‘अरे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।’ इति अकथयत्।
(इ) स्वर्णकण्ठः।
(ई)
- भिक्षुकः
- अञ्जलिपरिमिताः
- अनन्तरम्
- निष्ठुरः
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
