मराठी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति। तदा कृषका मुदिताः भवन्ति। यदा वृष्टिः भवति

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

ग्रीष्मकालानन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यमाच्छाद्य मेघाः इतस्ततः विहरन्ति। तदा कृषका मुदिताः भवन्ति। यदा वृष्टिः भवति तदा भगवतः आशीर्वादा इव जलबिन्दवः भुवि निपतन्ति। आकाशे मेघाः उच्चैः गर्जन्ति। सर्वत्र गर्जनोत्पन्नप्रकम्पनं भयङ्करं भवति। तदा मयूराः केकारवं कुर्वन्तः हर्षिताः भूत्वा नृत्यन्ति। नद्यः तडागाः च जलपूर्णाः भवन्ति। कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति। क्रमेण सस्यसम्पद् वर्धते। परं यदा अतिवृष्टिः भवति तदा महती विपद् सज्जायते। नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति। पशुपक्षिणः, लघवः प्राणिनः च प्रियन्ते। एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति। तदा जलस्य अभावेन तडागाः शुष्यन्ति। वृक्षाः विनश्यन्ति। कृषिकर्म असाध्यं भवति। कृषिं विना धान्योत्पत्तिः एव न भवति। प्राणान् धारयितुम् आवश्यकानां वस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति। क्रमशः जीवनम् एव दुर्बहं भवति। अतिवृष्टेरनावृष्टेः च मूलं मानवः एव। सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति। पर्यावरणप्रदूषणेन ऋतूनां गतयः परिवर्तिताः भवन्ति। अतः पर्यावरणसंरक्षणाय वयं जागरुकाः भवेम।

(अ) एकपदेन उत्तरत -

  1. वर्षाकालः कदा आगच्छति?
  2. सर्वत्र गर्जनोत्पन्नप्रकम्पनं कीदृशं भवति?
  3. जलस्य अभावेन के शुष्यन्ति ?

(आ) पूर्णवाक्येन उत्तरत-

  1. पर्यावरणं कथम् असन्तुलितं भवति?
  2. कदा भगवतः आशीर्वाद इव जलबिन्दवः निपतन्ति?
  3. यदा अतिवृष्टिः भवति तदा नदीनां तीरेषु किं भवति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) यथानिर्देशम् उत्तरत-

  1. ‘कृषकाः’ क्षेत्राणि कृष्ट्वा बीजानि वपन्ति।’ अत्र किं क्रियापदम्?
    (क) कृष्ट्वा (ख) बीजानि (ग) वपन्ति (घ) उपर्युक्तानि सर्वाणि
  2. ‘असन्तुलिम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
    (क) पर्यावरणम् (ख) विपिनम् (ग) ऋतुः (घ) मानवः
  3. ‘अरण्यानाम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
    (क) मेघानाम् (ख) विपिनानाम् (ग) निमज्जितानाम् (घ) पर्यावरणम्
  4. ‘दुःखिताः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
    (क) परिवर्तिताः (ख) जनाः (ग) आशीर्वादाः (घ) मुदिताः
आकलन
Advertisements

उत्तर

(अ) 

  1. ग्रीष्मकालानन्तरम्।
  2. भयङ्करम्।
  3. तडागाः।

(आ) 

  1. सघनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति।
  2. यदा वृष्टिः भवति तदा।
  3. नदीनां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमज्जितानि भवन्ति।

(इ) पर्यावरणसंरक्षणम्।

(ई) 

  1. वपन्ति 
  2. पर्यावरणम् 
  3. विपिनानाम्
  4. मुदिताः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १७७]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
पाठ 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 3. | पृष्ठ १७७
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×