मराठी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - आधुनिकजीवने सङ्गणकस्य आविष्कारेण उद्योगे, शिक्षायां, मनोरञ्जने इत्यादिषु सर्वेषु क्षेत्रेषु कल्पनातीतः विकासः दृश्यते।

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

आधुनिकजीवने सङ्गणकस्य आविष्कारेण उद्योगे, शिक्षायां, मनोरञ्जने इत्यादिषु सर्वेषु क्षेत्रेषु कल्पनातीतः विकासः दृश्यते। कोरोनाकारणात् यदा गृहवासः जातः तदा तु सङ्गणकयन्त्रस्य महत्त्वम् इतोऽपि प्रवृद्धम् अभवत्। आबालव्यवसायिनः सर्वेऽपि अनेन स्वस्वकार्यं साधितवन्तः। कार्यालयेषु वित्तकोषादिषु च महत्सङ्ख्याकाः गणनाः क्षणेनैव अनेन साधिताः भवन्ति तदपि दोषं विना। दूरभाष-वायुयान-आदिभिः दूरस्थः संसारः अवश्यमेव समीपम् आयाति परम् अन्तर्जालमाध्यमेन तु वसुधा अस्माकं मुष्टिकायामिव प्रतिभाति। अनेन प्रेषितः सन्देशः झटिति सप्तसमुद्रान् अपि अतिक्रम्य पारं गच्छति। अस्य साहाय्येन वयं दूरस्थान् बन्धुबान्धवान् द्रष्टुं तैः सह वार्ता च कर्तुं समर्थाः भवामः। वस्तुतः अधुना “वसुधैव कुटुम्बकम्” इति उक्तिः सफला अभवत्।

(अ) एकपदेन उत्तरत-

  1. कस्य आविष्कारेण कल्पनातीतः विकासः दृश्यते?
  2. सन्देशः कान् अतिक्रम्य पारं गच्छति?
  3. केन वसुधा अस्माकं मुष्टिकायामिव प्रतिभाति?

(आ) पूर्णवाक्येन उत्तरत -

  1. अधुना का उक्तिः सफला अभवत्?
  2. सङ्गणकयन्त्रेण दोषं विना किं साधितं भवति?
  3. सङ्गणकयन्त्रस्य महत्त्वं कदा प्रवृद्धम् अभवत्?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं निर्देशानुसारं चित्वा लिखत।

  1. अधुना “वसुधैव कुटुम्बकम्” इति उक्तिः सफला अभवत्, अत्र ‘अभवत्’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
    (क) सफला (ख) अधुना (ग) उक्तिः (घ) वसुधैव
  2. ‘कल्पनातीतः’ इति विशेषणस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
    (क) उद्योगे (ख) विकासः (ग) क्षेत्रेषु (घ) शिक्षायाम्
  3. ‘पृथ्वी’ इति पदस्य अर्थं गद्यांशे किं पदं प्रयुक्तम्?
    (क) वसुधा (ख) कुटुम्बकम् (ग) वस्तुतः (घ) दूरस्थान्
  4. ‘समीपस्थः’ पदस्य विलोमपदम् अनुच्छेदात् चित्वा लिखत।
    (क) दूरस्थः (ख) प्रेषितः (ग) संसारः (घ) साधितवन्तः
आकलन
Advertisements

उत्तर

(अ)

  1. सङ्गणकस्य।
  2. सप्तसमुद्रान्।
  3. अन्तर्जालमाध्यमेन।

(आ)

  1. “वसुधैव कुटुम्बकम्” इति उक्तिः सफला अभवत्।
  2. महत्सङ्ख्याकाः गणनाः दोषं विना साधिताः भवन्ति।
  3. कोरोनाकारणात् यदा गृहवासः जातः तदा।

(इ) सङ्गणकस्य महत्त्वम्।

(ई) 

  1. उक्तिः।
  2. विकासः। 
  3. वसुधा।
  4. दूरस्थः। 
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १७६]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
पाठ 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 1. | पृष्ठ १७६
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×