English

Sanskrit (Core) Board Sample Paper 2025-2026 Commerce (English Medium) Class 12 Question Paper Solution

Advertisements
Sanskrit (Core) [Board Sample Paper]
Marks: 80 CBSE
Commerce (English Medium)
Science (English Medium)
Arts (English Medium)
Commerce (Hindi Medium)
Science (Hindi Medium)
Arts (Hindi Medium)

Academic Year: 2025-2026
Date: March 2026
Advertisements

सामान्यनिर्देशाः 

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 18 प्रमुखाः प्रश्नाः सन्ति।
  • अस्मिन्‌ प्रश्नपत्रे चत्वारः खण्डाः सन्ति -
    • खण्डः (क) अपठितावबोधनम्‌ - 10 अङ्काः
    • खण्डः () रचनात्मककार्यम्‌ - 15 अङ्काः
    • खण्डः () अनुप्रयुक्तव्याकरणम्‌ - 20 अङ्काः
    • खण्डः () - (I) पठित-अवबोधनम्‌ - 25 अङ्काः
      (II) संस्कृत-साहित्येतिहास-परिचयः - 10 अङ्काः
  • प्रत्येकं खण्डम्‌ अधिकृत्य उत्तराणि एकस्मिन्‌ स्थाने क्रमेण लेखनीयानि । 
  • उत्तरलेखनात्‌ पूर्व प्रशनपत्रानुसारं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः । 
  • सर्वेषां प्रश्नानाम्‌ उत्तराणि संस्कृतेन लेखनीयानि ।
  • अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन्‌ अवधौ केवलं प्रश्रपत्र पठनीयम्‌ उत्तरपुस्तिकायां च किमपि न लेखनीयम्‌ ।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

खण्डः (क) अपठितावबोधनम्‌ - 10 अङ्काः
[10]1

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत -

राघवो नाम कश्चन निष्ठावान्‌ बुद्धिमान्‌ च विद्यार्थी आसीत्‌। तस्य अध्ययने महती रुचिः आसीत्‌। अतः सः सर्वदा स्वाध्याये संलग्नः भवति स्म। सम्पूर्णया संलग्रतया परिश्रमेण च तस्य सर्वेषु विषयेषु उत्कृष्टः परिणामः भवति। येन शिक्षकाः सहपाठिनः च तं सर्वदा प्रशंसन्ति। गणितं तस्य प्रियः विषयः अस्ति। सः गणितस्य प्रश्रानां समाधानं कर्तुम्‌ अहर्निशं प्रयतते। तस्य मेधसः परिश्रमस्य च कारणेन सः सर्वदा कक्षायां प्रथमं स्थानम्‌ अवाप्नोति। सः स्वस्य अधिकाधिकं समयम्‌ अध्ययने एव यापयति। राघवस्य अध्ययनं प्रति एतत्‌ समर्पणम्‌ अनुशासनं च तम्‌ आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति। तस्य मित्राणि परिवारसदस्याः प्रतिवेशिजनाः च तस्य सफलतां प्रति गर्वम्‌ अनुभवन्ति। सर्वैः प्रोत्साहितः राघवः अन्येषां बालानां प्रेरकः भवति। अनेन बालाः राघवेण प्रेरिताः अध्ययनाय तत्पराः भवन्ति। समाजे शिक्षितानां बालानां वृद्धिः भवति।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. समाजे कीदृशानां बालानां वृद्धिः भवति?
  2. कः बुद्धिमान्‌ विद्यार्थी आसीत्‌?
  3. राघवः कुत्र संलग्नः भवति?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       4

  1. राघवं किम्‌ आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति?
  2. राघवस्य उत्कृष्टः परिणामः कथं भवति?
  3. के गर्वम्‌ अनुभवन्ति?

(इ) अनुच्छेदस्य समुचितं शीर्षकं लिखत।      1

(ई) यथानिर्देशम्‌ उत्तरत -       3

  1. ‘प्रेरितः’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम्‌?
    (क) प्रेरकः
    (ख) प्रोत्साहितः
    (ग) तत्परः
    (घ) प्रसंशितः
  2. ‘यापयति’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्‌?
    (क) बालः
    (ख) समयम्‌
    (ग) राघवः
    (घ) अध्ययनम्‌
  3. ‘उत्कृष्टः’ इत्यस्य विशेषणपदस्य किं विशेष्यम्‌ अत्र गद्यांशे प्रयुक्तम्‌?
    (क) परिणामः
    (ख) विद्यार्थी
    (ग) सः
    (घ) प्रेरकः
Concept: undefined - undefined
Chapter:
खण्डः (ख) रचनात्मककार्यम्‌ - 15 अङ्काः
[5]2

भवती सौम्या दिल्ली नगरे वसति। भवती एकस्यां पुस्तक-मेलायां भागं गृहीतवती। तदधिकृत्य सखीं तन्वीं प्रति लिखितं पत्र मञ्जूषायां प्रदत्तशब्दैः रिक्तस्थानानि पूरयित्वा पुनः लिखतु -

तिथिः- ______

प्रिये सखि (i) ______

सस्नेहं नमो नमः।

अत्र कुशलं तत्रास्तु। सहर्षं संसूचयितुमिच्छामि यद्‌ (ii) ______ अहम्‌ उज्जयिन्याम्‌ (iii) ______ एकस्यां विश्वपुस्तक-मेलायां (iv) ______ गता आसम्‌। तत्र गत्वा मम व्यैयक्तिकः (v) ______ एव परिवर्तितः। तत्र अनेकेभ्यः स्थानेभ्यः अनेके प्रकाशकाः समागताः आसन्‌। विविधविषयकानि (vi) ______ अपि लभन्ते स्म। तत्रत्यः आकर्षकः दर्शनीयः च विषयः विज्ञान-प्रदर्शनी आसीत्‌। तस्यां प्रदर्शिन्यां सर्वेऽपि (vii) ______ संस्कृतेन प्रदर्शिताः आसन्‌। तत्‌ सर्वं दृष्ट्वा (viii) ______ प्रति मम श्रद्धा इतोऽपि वर्धिता। भवतीम्‌ अहं बहु स्मृतवती। यदि भवती अभविष्यत्‌ तर्हि अधिकः (ix) ______ अभविष्यत्‌। अहम्‌ अनेन पत्रेण सह कानिचित्‌ पुस्तकानि चित्राणि च प्रेषयामि, अवश्यं पश्यतु तेन सर्वम्‌ अवगमिष्यति। शेष मिलित्वा चर्चयावः। पित्रोः चरणयोः मम (x) ______ निवेदयतु।

भवदीया सखी
सौम्या

मञ्जूषा

अनुभवः, विषयाः, पुस्तकानि, संस्कृतज्ञानम्‌, तन्वि!, प्रणामान्‌, गतमासे, आनन्दः, आयोजितायाम्‌, भ्रमणार्थम्‌।
Concept: undefined - undefined
Chapter:
[5]3
[5]3.A

अधः प्रदत्तं चित्रम्‌ आधृत्य पञ्चविंशतितः त्रिंशत्परिमितैः शब्दैः अनुच्छेदमेकं लिखत -

मञ्जूषा

भारतम्‌, सर्वत्र, प्रथितम्‌, देहल्याम्‌, स्थितम्‌, त्रिवर्णः, समायान्ति, विशेषकार्यक्रमे, ध्वजारोहणम्‌, पथसञ्चलनम्‌, सैनिकाः, विशिष्टाः, अतिथयः, भारतद्वारम्‌, भाति।
Concept: undefined - undefined
Chapter:
अथवा
[5]3.B

अधः प्रदत्तं विषयम्‌ आधृत्य पञ्चविंशतितः त्रिंशच्छब्दपरिमितैः शब्दैः अनुच्छेदं लिखत - 

विषयः ‘विवेकानन्दः’

मञ्जूषा

उब्दोधनम्‌, सनातनधर्मस्य, अयम्‌, युवसंन्यासी, समस्ते, विश्वे, स्थापनम्‌, कीर्तिः, सर्वत्र, विदेशेषु, शिकागोनगरे, प्रचारम्‌।
Concept: undefined - undefined
Chapter:
[5]4
[5]4.A

मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत -

पुरा हिरण्यकशिपुः (i) ______ एकः अहङ्कारी बलिष्ठः च (ii) ______ अभवत्‌। सः दैत्यश्चराचरः वर्षसहस्राणि निराहारो हि अधः शिरः (iii) ______ परम-तपसा च ब्रह्मदेवं (iv) ______ कृत्वा वरमयाचत। ततः ब्रह्मा तस्मै विशिष्टं (v) ______ अयच्छत्‌- न मनुष्यैः न पशुभिः न दिवा न रात्रौ न गृहे न बहिः न (vi) ______ नास्त्रेण च मृयेत। अनेन वरेण हिरण्यकशिपुः अजेयः अभवत्‌। सः देवताः (vii) ______ सर्वत्र स्वाधिपत्यम्‌ अस्थापयत्‌। (viii) ______ विष्णुः हिरण्यकशिपोः परमशत्रुः आसीत्‌, यतः विष्णुः (ix) ______ भ्रातरं हिरण्याक्षं हत्वा लोकान्‌ रक्षितवान्‌। तस्मात्‌ (x) ______ सर्वत्र विष्णोः पूजा नामस्मरणं भजनं च तेन निषिद्धम्‌।

मञ्जूषा

राज्ये, भगवान्‌, परिश्रमेण, शस्त्रेण, पराजित्य, नामकः, वरम्‌, प्रसन्नम्‌, राक्षसराजा, हिरण्यकशिपोः।
Concept: undefined - undefined
Chapter:
अथवा
[5]4.B

अधोलिखिते संवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत - 

माधवः  मित्र! भवान्‌ क्रीडनाय वाटिकां न आगच्छत्‌। अपि गृहे सर्वं कुशलम्‌?
रामः  (i) .................................................।
माधवः  तर्हि किमर्थं नागच्छत्‌?
रामः  (ii) .................................................।
माधवः  अहो! वाराणसीं सर्वे परिवारजनाः अगच्छन्‌। बहूत्तमम्‌। किं किं दृष्टम्‌?
रामः  (iii) .................................................।
माधवः  वाराणस्याः विषये बहुधा श्रुतम्‌ अस्ति। किम्‌ अन्वभत्‌ तत्र भवान्‌?
रामः  आनन्दप्रदं नगरं तत्‌, सर्वेऽपि तत्र चिन्तारहिताः हरहरमहादेव इति वदन्तः व्रजन्ति।
माधवः  अहो! अद्भुतं खलु तद्‌ दृश्यम्‌। किं सायङ्कालस्य गङ्गाघट्टस्य दृश्यम्‌ अवालोकयत्‌?
रामः  (iv) .................................................।
माधवः  सत्यं वदति, अहम्‌ अत्र विवरणं श्रुत्वैव आनन्दितः भवामि ।
रामः  भवान्‌ अपि कदापि गच्छतु यतोहि वस्तुतः दर्शनीयं स्थलं तत्‌।
माधवः  (v) .................................................।
रामः  स्वागतम्‌, पुनर्मिलामः राम राम!

मञ्जूषा

  • आम्‌, अद्भुतं दृश्यं भवति तत्र यदा गङ्गारती भवति तदा जनाः सर्वत्र घट्टे उपविश्य आनन्दिताः भवन्ति।
  • आम्‌ मित्र! परिवारसदस्यैः सह विमर्शं कृत्वा योजनां करिष्यामि। धन्यवादः।
  • सर्वप्रथमं तु गङ्गास्नानं कृतं पश्चात्‌ च विश्वनाथदर्शनम्‌ अकुर्म।
  • आम्‌ मित्र! गेहे सर्वं कुशलमेव।
  • वयं गृहे न आस्म, सर्वेऽपि भ्रमणार्थं वाराणसीम्‌ अगच्छाम।
Concept: undefined - undefined
Chapter:
खण्डः (ग) अनुप्रयुक्तव्याकरणम्‌ - 20 अङ्काः
[4]5
[4]5.A
[1]5.A.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

वेदम्‌ अनूच्य आचार्योऽन्तेवासिनम्‌ अनुशास्ति।

Concept: undefined - undefined
Chapter:
[1]5.A.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

शैशवे + अभ्यस्तविद्यानाम्‌।

Concept: undefined - undefined
Chapter:
[1]5.A.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

तस्य एव वचनात्‌ भवत्‌ + अभिषेको निवृत्तः।

Concept: undefined - undefined
Chapter:
[1]5.A.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

अथ क्षणाभ्यन्तरं पुनः स एव पादध्वनिरश्रावि इति।

Concept: undefined - undefined
Chapter:
अथवा
[4]5.B
[1]5.B.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

विनिर्मितम्‌ + छादनम्‌ अज्ञतायाः।

Concept: undefined - undefined
Chapter:
[1]5.B.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

पुरा धाराराज्ये सिन्धुल-सञ्ज्ञो राजा चिरं प्रजाः पर्यपालयत्‌

Concept: undefined - undefined
Chapter:
[1]5.B.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

कोकिलानां मधुरवचांसि श्रुत्वा कस्य यूनः + हृदयम्‌ उत्कण्ठितं न भविष्यति।

Concept: undefined - undefined
Chapter:
[1]5.B.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌। 

Concept: undefined - undefined
Chapter:
[4]6 | अधोलिवित-वाक्येषु रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
[1]6.A

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

एतद्‌ अनुशासनम्‌

शासनस्य अभावः 

शासनस्य पश्चात्‌

शासनम्‌ अनन्तरम्‌

शासनम्‌ अनुसारम्‌

Concept: undefined - undefined
Chapter:
[1]6.B

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

एकशरीरे संक्षिप्ता पृथिवी रक्षितव्येति।

एकम्‌ शरीरे इति

एकस्मात्‌ शरीरम्‌

एकं शरीरम्‌, तस्मिन्‌

शरीराय एकम्‌ तस्मिन्‌

Concept: undefined - undefined
Chapter:
[1]6.C

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

राजा दिलीपः आकारेण सदृशी प्रज्ञा यस्य सः आसीत्‌।

आकारसदृशप्रज्ञः 

आकारसदृशप्रज्ञा

आकारसदृशीप्रज्ञः 

आकारसदृशायप्रज्ञ

Concept: undefined - undefined
Chapter:
Advertisements
[1]6.D

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

परस्परमनुव्रतौ पतिपत्न्यौ आवां त्रिवर्गं साधयावः।

त्रयाणां वर्गैः समाहारः, तम्‌ 

त्रयाणां वर्गस्य समाहारः तम्‌

त्रयाणां वर्गाणां तम्‌

त्रयाणां वर्गाणां समाहारः तम्‌

Concept: undefined - undefined
Chapter:
[4]7 | अधोलिवित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
[1]7.A

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - 

स्त्रीयः बालाश्च न किमपि प्रच्छ् + तव्यत्‌

प्रष्टव्यः 

प्रष्टव्यत्‌

प्रष्टव्यम्‌ 

प्रष्टव्याः

Concept: undefined - undefined
Chapter:
[1]7.B

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - 

वस्तुतः रुपं विद्यावतां एव भवति।

विद्या + मतुप्‌ 

विद्या + क्तवतु

विद्या + शतृ

विद्या + तल्‌

Concept: undefined - undefined
Chapter:
[1]7.C

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - 

ताते धनुर्न मयि सत्यम्‌ - अव + ईक्ष् + शानच्‌। 

अवीक्षमान्‌ 

अवेक्ष्यमाणे

अवीक्षमानाः 

अवीक्षमाने 

Concept: undefined - undefined
Chapter:
[1]7.D

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - 

नैकेनापि समं गता वसुमती

वसुमत्‌ + णिनि

वसुमत्‌ + इन्‌

वसुमत्‌ + ङीप्‌ 

वसुमत्‌ + क्तिन्‌

Concept: undefined - undefined
Chapter:
[4]8
[1]8.A

समुचितं विभक्तियुक्तं पदं प्रदत्तविकल्पेभ्यः चित्वा रिक्तस्थानपूर्ति कृत्वा लिखत -

______ प्रियं धनमाहृत्य प्रजातन्तुः मा व्यवच्छेत्सीः।

आचार्यात्‌ 

आचार्यस्य

आचार्याय 

आचार्यैः

Concept: undefined - undefined
Chapter:
[1]8.B

समुचितं विभक्तियुक्तं पदं प्रदत्तविकल्पेभ्यः चित्वा रिक्तस्थानपूर्ति कृत्वा लिखत -

हा धिक! ______ अविज्ञाय उपालभसे।

अस्माकम्‌ 

अस्मभ्यम्‌

अस्मात्‌ 

अस्मान्‌

Concept: undefined - undefined
Chapter:
[1]8.C

समुचितं विभक्तियुक्तं पदं प्रदत्तविकल्पेभ्यः चित्वा रिक्तस्थानपूर्ति कृत्वा लिखत -

______ भोजः जीवितो भविष्यति।

शिवप्रसादम्‌ 

शिवप्रसादेन

शिवप्रसादाय 

शिवप्रसादानाम्‌

Concept: undefined - undefined
Chapter:
[1]8.D

समुचितं विभक्तियुक्तं पदं प्रदत्तविकल्पेभ्यः चित्वा रिक्तस्थानपूर्ति कृत्वा लिखत -

______ अन्ते वारि विषापहम्।

भोजनस्य 

भोजनात्‌

भोजनेन 

भोजनम्‌

Concept: undefined - undefined
Chapter:
[4]9
[4]9.A

वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं लिखत -

रामभद्रः भोः नारायण! (i) ______ अधुना कुत्र गम्यते?
नारायणः किं न जानासि त्वम्‌? सः पठनाय (ii) ______ गच्छति।
रामभद्रः तेन गृहं पुनः कदा (iii) ______?
नारायण निश्चयेन अध्ययनं समाप्य एव (iv) ______ गृहं प्रत्यागमिष्यति।

                    मञ्जूषा

आगमिष्यते, विदेशम्‌, सः, श्यामेन।
Concept: undefined - undefined
Chapter:
अथवा
[4]9.B
[1]9.B.i

वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितानि वाक्यम् लिखत -

किं तेन सः ______ (ज्ञा)?

Concept: undefined - undefined
Chapter:
[1]9.B.ii

वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितानि वाक्यम् लिखत -

______ (अस्मद्‌) न जानामि।

Concept: undefined - undefined
Chapter:
[1]9.B.iii

वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितानि वाक्यम् लिखत -

गुरुः सर्वान्‌ ______ (शिष्य) पाठयति।

Concept: undefined - undefined
Chapter:
[1]9.B.iv

वाच्यानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितानि वाक्यम् लिखत -

शिष्यैः ध्यानेन ______ (पाठ) पठ्यन्ते।

Concept: undefined - undefined
Chapter:
खण्डः (घ) - भागः I पठितांशावबोधनम्‌ - 25 अङ्काः
[5]10

अधोलिखितं गद्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाश्रौषीत्‌। ततः स्थिरीभूय पुरतः पश्यन्‌ सत्यपि दीपप्रकाशे कमप्यनवलोकयन्‌ गम्भीरस्वरेणैवम्‌ अवादीत्‌- ‘कः कोऽत्र भोः? कः कोऽत्र भोः?’ इति।

अथ क्षणानन्तरं पुनः स एव पादध्वनिरश्रावीति भूयः साक्षेपमवोचत्‌- ‘क एष मामनुत्तरयन्‌ मुमूर्षुः समायाति बधिरः? ततो “दौवारिक! शान्तो भव किमिति व्यर्थं मुमूर्षुरिति बधिर इति च वदसि?’ इति वक्तारमपश्यतैवाऽऽकर्णि मन्द्रस्वरमेदुरा वाणी। अथ ‘तत्‌ किं नाज्ञायि अद्यापि भवता प्रभुवर्याणामादेशो यद्‌ दौवारिकेण प्रहरिणा वा त्रिःपृष्टोऽपि प्रत्युत्तरमद्दद्‌ हन्तव्यः इति’ इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि’ इति कथयन्‌ द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)   1

(क) प्रत्युत्तरमद्दद्‌ जनः केन हन्तव्यः?

(ख) दौवारिकः भुशुण्डी कुत्र निदधाति?

(ग) कः पादक्षेपध्वनिमिव अश्रौषीत्‌?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

(क) द्वौवारिकेण कीदृशः संन्यासी दृष्टः?

(ख) द्वौवारिकः साक्षेपं किम्‌ अवोचत्‌?

(ग) प्रभुवर्याणां कः आदेशः?

III. निर्देशानुसारम्‌ उत्तरत -   2

(क) ‘अश्रौषीत्‌’ इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) ‘स्वामिवर्याणाम्‌’ इत्यस्य पर्यायपदं किं प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -         

(क) ‘धृततुम्बीपात्रः’ इत्यस्य विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम्‌?

(ख) ‘कथयसि’ इत्यर्थे किं क्रियापदं गद्यांशे प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[5]11

अधोलिखितं पद्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्‌॥

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) केन मौनं विनिर्मितम्‌?

(ख) अज्ञतायाः छादनं किम्‌ अस्ति?

(ग) अपण्डितानां कृते मौनं किं भवति?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) विधात्रा कीदृशगुणं मौनं विनिर्मितम्‌?

(ख) केषां समाजे मौनं विभूषणम्‌?

(ग) केषां विभूषणम्‌ मौनम्‌?

III. (अ) निर्देशानुसारम्‌ उत्तरत -      2

(क) ‘आवरणम्‌’ इत्यर्थे किं पदमत्र प्रयुक्तम्‌?

(ख) ‘विदुषाम्‌’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

(क) ‘विधात्रा’ इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम्‌?

(ख) ‘ईश्वरेण’ इत्यर्थे किं पदं पद्यांशे प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[5]12

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्दशं संस्कृतेन उत्तरत -

मदालसा  कुण्डले! दुर्लभो जनः ईदृशः यः गृहस्थप्रयोगशालायां स्वपत्न्यै स्वतन्त्रतां दद्यात्‌।
ॠतध्वजः  (स्वगतम्‌) अवसरोऽयमात्मानं प्रकाशयितुम्‌। (प्रकाशम्‌) उपस्थितोऽहं शत्रुजितः पुत्रः ॠतध्वजः। आज्ञा चेत्‌ अहमपि अस्यां परिचर्चायां सम्मिलितो भवेयम्‌।
कुण्डला स्वागतम्‌ अतिथये। अपि श्रुताः भवद्भिः मम सखीविचाराः?
ॠतध्वजः आम्‌। अत एव प्रष्टुमुत्सहे किं गन्धर्वराजविश्वासु-महाभागाः अपि स्वपत्नीं युधिष्ठिर इव हारितवन्तः। हरिश्चन्द्र इव विक्रीतवन्तः?
कुण्डला मदालसे! तृष्णीं किमर्थं तिष्ठसि? देहि प्रत्युत्तरम्‌।
ॠतध्वजः  एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो न्यायः तव सख्याः।
मदालसा  अत्रभवन्तः नारीस्वाधीनतामधिकृत्य किं कथयन्ति?
ॠतध्वजः  माता एव प्रथमा आचार्या इत्यस्ति मे अवधारणा। नारी एव समस्तसृष्टेः निर्मात्री। परं कथनेन किम्‌? परीक्ष्य एव ज्ञास्यति अत्रभवती। परीक्षार्थमुद्यतोऽस्मि गृहस्थाश्रमप्रयोगशालायाम्‌।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)          1

(क) ॠतध्वजः कुत्र परीक्षार्थम्‌ उद्यतः अस्ति?

(ख) कस्य पुत्रः ॠतध्वजः आसीत्‌?

(ग) स्वागतम्‌ अतिथये इति का वदति?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2 

(क) ॠतध्वजः किं प्रष्टुम्‌ उत्सहते?

(ख) मदालसायाः कः विचित्रः न्यायः?

(ग) कीदृशः जनः दुर्लभः भवति?

III. (अ) निर्देशानुसारम्‌ उत्तरत -       2

(क) ‘स्त्री’ इत्यस्य समानार्थकं पदं नाट्यांशे किं प्रयुक्तम्‌?

(ख) ‘परतन्त्रताम्‌’ इत्यस्य किं विलोमपदं नाट्यांशे प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

(क) ‘मे’ इति सर्वनामपदं कस्मै प्रयुक्तम्‌?

(ख) ‘भवेयम्‌’ इत्यस्य कर्तृपदं संवादात्‌ चित्वा लिखत।

Concept: undefined - undefined
Chapter:
[3]13
[3]13.A

अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत -

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव॥

भावार्थः - राजा दिलीपः ज्ञाने सत्यपि मौनं (i) ______, शक्तौ सत्याम्‌ अपि (ii) ______ क्षमां करोति, महान्तं त्यागं कृत्वा अपि स्वकीयां (iii) ______ न करोति। एवं राज्ञः दिलीपस्य गुणाः गुणानुसारित्वात्‌ सहोदराः इव सन्ति।

                 मञ्जूषा

प्रशंसाम्‌, अपराधान्‌, धारयति।
Concept: undefined - undefined
Chapter:
Advertisements
[3]13.B
[1]13.B.i

प्रदत्त-भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

त्रिविधं नरकस्येदम्‌।

नरकमयम्‌ इदं सर्वम्‌ अस्ति।

नरकस्य द्वारं त्रिविधम्‌ उक्तम्‌ अस्ति।

नरकयुक्तं द्वारम्‌ इदम्‌ अस्ति।

Concept: undefined - undefined
Chapter:
[1]13.B.ii

प्रदत्त-भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः।

सत्युयुगस्य आभूषरूपः राजा मान्धाता अपि मरणं प्राप्तवान्‌।

मह्याः पतिः मान्धाता कृतयुगं अलङ्कारं कर्तुं गतः।

मान्धाता भूषणयुक्तः महीपः गतः। 

Concept: undefined - undefined
Chapter:
[1]13.B.iii

प्रदत्त-भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

भूत्यै न प्रमदितव्यम्‌।

विभूतिः प्रमादं न करोति।

भूमेः कृते प्रमादः न करणीयः।

धनसम्पदैश्वर्याय कल्याणाय च प्रमादः (आलस्यम्‌) न करणीयः।

Concept: undefined - undefined
Chapter:
[3]14

अधोलिखित- श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्तिं कुरुत -

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः - दैवी (i) ______ विमोक्षाय आसुरी (च) (ii) ______ मता (अतः) पाण्डव! मा शुचः (यतः) दैवीम्‌ सम्पदम्‌ (iii) ______ असि।

              मञ्जूषा 

निबन्धाय, अभिजातः, सम्पत्‌।
Concept: undefined - undefined
Chapter:
[4]15
[4]15.A

‘क’ स्तम्भस्य वाक्यांशस्य ‘ख’ स्तम्भस्य वाक्यांशेन सह मेलनं कुरुत -

‘क’ स्तम्भः ‘ख’ स्तम्भः
(क) यस्याः शक्रसमो भर्ता (क) वृत्तविचिकित्सा वा स्यात्‌।
(ख) सेतुर्येन महोदधौ विरचितः  (ख) स्वाध्यायस्तप आर्जवम्‌।
(ग) यदि ते कर्मविचिकित्सा (ग) क्वासौ दशास्यान्तकः।
(घ) दानं दमश्च यज्ञश्च (घ) मया पुत्रवती च या।
Concept: undefined - undefined
Chapter:
अथवा
[4]15.B | अधोलिवित-वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम्‌ उत्तरं चित्वा लिखत -
[1]15.B.i

अधोलिखित वाक्यम् रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम्‌ उत्तरं चित्वा लिखत -

यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि।

रिपुः

सुकर्माणि

मूर्खाः

अरण्ये 

Concept: undefined - undefined
Chapter:
[1]15.B.ii

अधोलिखित वाक्यम् रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम्‌ उत्तरं चित्वा लिखत -

शरीरे अरिः प्रहरति हृदये स्वजनस्तथा।

रिपुः

सुकर्माणि

मूर्खाः

अरण्ये 

Concept: undefined - undefined
Chapter:
[1]15.B.iii

अधोलिखित वाक्यम् रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम्‌ उत्तरं चित्वा लिखत -

त्वया भोजो भुवनेश्वरी-विपिने रात्रौ हन्तव्यः।

रिपुः

सुकर्माणि

मूर्खाः

अरण्ये 

Concept: undefined - undefined
Chapter:
[1]15.B.iv

अधोलिखित वाक्यम् रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम्‌ उत्तरं चित्वा लिखत -

आसुरीं योनिमापन्ना मूढाः जन्मनि जन्मनि।

रिपुः

सुकर्माणि

मूर्खाः

अरण्ये 

Concept: undefined - undefined
Chapter:
खण्डः - घ भागः - ii सामान्यसंस्कृतसाहित्यपरिचयः 10 अङ्काः
[3]16 | अधोलिखित-प्रश्नानाम्‌ उत्तराणि लिखत - (केवलं प्रश्नत्रयम्‌)
[1]16.A

‘श्रीमद्धगवद्गीतायाः’ कः पाठः सङ्कलितः?

Concept: undefined - undefined
Chapter:
[1]16.B

‘मातुराज्ञा गरीयसी’ इति पाठः कस्मात्‌ नाटकात्‌ सङ्कलितः?

Concept: undefined - undefined
Chapter:
[1]16.C

‘पुरन्ध्रीपञ्चकम्‌’ इत्यस्याः रचनायाः लेखिका का?

Concept: undefined - undefined
Chapter:
[1]16.D

‘नैकेनापि समं गता वसुमती’ इत्यस्य पाठस्य सन्दर्भग्रन्थः कः?

Concept: undefined - undefined
Chapter:
[3]17 | मञ्जूषायाः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्‌) 
[1]17.A

महाकाव्ये न्यूनातिन्यूनम्‌ ______ सर्गाः भवन्ति। 

नैषधे

कालिदासेन

महाकाव्यम्‌

अष्ट 

Concept: undefined - undefined
Chapter:
[1]17.B

उदिते ______ काव्ये क्व माघः क्व च भारविः।

नैषधे

कालिदासेन

महाकाव्यम्‌

अष्ट 

Concept: undefined - undefined
Chapter:
[1]17.C

रघुवंशम्‌ इति महाकाव्यं ______ विरचितम्‌।

नैषधे

कालिदासेन

महाकाव्यम्‌

अष्ट 

Concept: undefined - undefined
Chapter:
[1]17.D

सर्गबद्धा रचना ______ कथ्यते।

नैषधे

कालिदासेन

महाकाव्यम्‌

अष्ट 

Concept: undefined - undefined
Chapter:
[4]18

समुचितं मेलयित्वा लिखत - 

भागः - क भागः - ख
(क) श्रीहर्षः (क) भासः
(ख) प्रतिमानाटकम्‌ (ख) नाट्य-शास्त्रम्‌
(ग) भरत-मुनिः  (ग) कालिदासः
(घ) अभिज्ञानशाकुन्तलम्‌ (घ) नैषधीयचरितम्‌
Concept: undefined - undefined
Chapter:

Other Solutions


































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 12 Sanskrit (Core) with solutions 2025 - 2026

     CBSE Class 12 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 12 question paper 2026 serve as a catalyst to prepare for your Sanskrit (Core) board examination.
     Previous year Question paper for CBSE Class 12 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit (Core), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 12.

How CBSE Class 12 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Core) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×