Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत -
| राघवो नाम कश्चन निष्ठावान् बुद्धिमान् च विद्यार्थी आसीत्। तस्य अध्ययने महती रुचिः आसीत्। अतः सः सर्वदा स्वाध्याये संलग्नः भवति स्म। सम्पूर्णया संलग्रतया परिश्रमेण च तस्य सर्वेषु विषयेषु उत्कृष्टः परिणामः भवति। येन शिक्षकाः सहपाठिनः च तं सर्वदा प्रशंसन्ति। गणितं तस्य प्रियः विषयः अस्ति। सः गणितस्य प्रश्रानां समाधानं कर्तुम् अहर्निशं प्रयतते। तस्य मेधसः परिश्रमस्य च कारणेन सः सर्वदा कक्षायां प्रथमं स्थानम् अवाप्नोति। सः स्वस्य अधिकाधिकं समयम् अध्ययने एव यापयति। राघवस्य अध्ययनं प्रति एतत् समर्पणम् अनुशासनं च तम् आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति। तस्य मित्राणि परिवारसदस्याः प्रतिवेशिजनाः च तस्य सफलतां प्रति गर्वम् अनुभवन्ति। सर्वैः प्रोत्साहितः राघवः अन्येषां बालानां प्रेरकः भवति। अनेन बालाः राघवेण प्रेरिताः अध्ययनाय तत्पराः भवन्ति। समाजे शिक्षितानां बालानां वृद्धिः भवति। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- समाजे कीदृशानां बालानां वृद्धिः भवति?
- कः बुद्धिमान् विद्यार्थी आसीत्?
- राघवः कुत्र संलग्नः भवति?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 4
- राघवं किम् आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति?
- राघवस्य उत्कृष्टः परिणामः कथं भवति?
- के गर्वम् अनुभवन्ति?
(इ) अनुच्छेदस्य समुचितं शीर्षकं लिखत। 1
(ई) यथानिर्देशम् उत्तरत - 3
- ‘प्रेरितः’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम्?
(क) प्रेरकः
(ख) प्रोत्साहितः
(ग) तत्परः
(घ) प्रसंशितः - ‘यापयति’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्?
(क) बालः
(ख) समयम्
(ग) राघवः
(घ) अध्ययनम् - ‘उत्कृष्टः’ इत्यस्य विशेषणपदस्य किं विशेष्यम् अत्र गद्यांशे प्रयुक्तम्?
(क) परिणामः
(ख) विद्यार्थी
(ग) सः
(घ) प्रेरकः
Comprehension
Advertisements
Solution
(अ)
- शिक्षितानाम्
- राघवः
- स्वाध्याये
(आ)
- राघवस्य अध्ययनं प्रति एतत् समर्पणम् अनुशासनं च तम् आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति।
- सम्पूर्णया संलग्नतया परिश्रमेण च राघवस्य सर्वेषु विषयेषु उत्कृष्टः परिणामः भवति।
- मित्राणि परिवारसदस्याः प्रतिवेशिजनाः च तस्य सफलतां प्रति गर्वम् अनुभवन्ति।
(इ) आदर्शच्छात्रः, शिक्षिताः बालाः, अध्ययनशीलता। अन्ये अपि शीर्षकाः भवितुम् अर्हन्ति।
(ई)
- प्रोत्साहितः
- राघवः
- परिणामः
shaalaa.com
Is there an error in this question or solution?
