मराठी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत - राघवो नाम कश्चन निष्ठावान्‌ बुद्धिमान्‌ च विद्यार्थी आसीत्‌। तस्य अध्ययने महती रुचिः आसीत्‌। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत -

राघवो नाम कश्चन निष्ठावान्‌ बुद्धिमान्‌ च विद्यार्थी आसीत्‌। तस्य अध्ययने महती रुचिः आसीत्‌। अतः सः सर्वदा स्वाध्याये संलग्नः भवति स्म। सम्पूर्णया संलग्रतया परिश्रमेण च तस्य सर्वेषु विषयेषु उत्कृष्टः परिणामः भवति। येन शिक्षकाः सहपाठिनः च तं सर्वदा प्रशंसन्ति। गणितं तस्य प्रियः विषयः अस्ति। सः गणितस्य प्रश्रानां समाधानं कर्तुम्‌ अहर्निशं प्रयतते। तस्य मेधसः परिश्रमस्य च कारणेन सः सर्वदा कक्षायां प्रथमं स्थानम्‌ अवाप्नोति। सः स्वस्य अधिकाधिकं समयम्‌ अध्ययने एव यापयति। राघवस्य अध्ययनं प्रति एतत्‌ समर्पणम्‌ अनुशासनं च तम्‌ आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति। तस्य मित्राणि परिवारसदस्याः प्रतिवेशिजनाः च तस्य सफलतां प्रति गर्वम्‌ अनुभवन्ति। सर्वैः प्रोत्साहितः राघवः अन्येषां बालानां प्रेरकः भवति। अनेन बालाः राघवेण प्रेरिताः अध्ययनाय तत्पराः भवन्ति। समाजे शिक्षितानां बालानां वृद्धिः भवति।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. समाजे कीदृशानां बालानां वृद्धिः भवति?
  2. कः बुद्धिमान्‌ विद्यार्थी आसीत्‌?
  3. राघवः कुत्र संलग्नः भवति?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       4

  1. राघवं किम्‌ आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति?
  2. राघवस्य उत्कृष्टः परिणामः कथं भवति?
  3. के गर्वम्‌ अनुभवन्ति?

(इ) अनुच्छेदस्य समुचितं शीर्षकं लिखत।      1

(ई) यथानिर्देशम्‌ उत्तरत -       3

  1. ‘प्रेरितः’ इत्यर्थे किं पदं गद्यांशे प्रयुक्तम्‌?
    (क) प्रेरकः
    (ख) प्रोत्साहितः
    (ग) तत्परः
    (घ) प्रसंशितः
  2. ‘यापयति’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम्‌?
    (क) बालः
    (ख) समयम्‌
    (ग) राघवः
    (घ) अध्ययनम्‌
  3. ‘उत्कृष्टः’ इत्यस्य विशेषणपदस्य किं विशेष्यम्‌ अत्र गद्यांशे प्रयुक्तम्‌?
    (क) परिणामः
    (ख) विद्यार्थी
    (ग) सः
    (घ) प्रेरकः
आकलन
Advertisements

उत्तर

(अ) 

  1. शिक्षितानाम्‌
  2. राघवः
  3. स्वाध्याये

(आ) 

  1. राघवस्य अध्ययनं प्रति एतत्‌ समर्पणम्‌ अनुशासनं च तम्‌ आदर्शच्छात्ररूपेण समाजे प्रतिष्ठापयति।
  2. सम्पूर्णया संलग्नतया परिश्रमेण च राघवस्य सर्वेषु विषयेषु उत्कृष्टः परिणामः भवति।
  3. मित्राणि परिवारसदस्याः प्रतिवेशिजनाः च तस्य सफलतां प्रति गर्वम्‌ अनुभवन्ति।

(इ) आदर्शच्छात्रः, शिक्षिताः बालाः, अध्ययनशीलता। अन्ये अपि शीर्षकाः भवितुम्‌ अर्हन्ति।

(ई) 

  1. प्रोत्साहितः
  2. राघवः
  3. परिणामः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×