Advertisements
Advertisements
Question
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्दशं संस्कृतेन उत्तरत -
| मदालसा | कुण्डले! दुर्लभो जनः ईदृशः यः गृहस्थप्रयोगशालायां स्वपत्न्यै स्वतन्त्रतां दद्यात्। |
| ॠतध्वजः | (स्वगतम्) अवसरोऽयमात्मानं प्रकाशयितुम्। (प्रकाशम्) उपस्थितोऽहं शत्रुजितः पुत्रः ॠतध्वजः। आज्ञा चेत् अहमपि अस्यां परिचर्चायां सम्मिलितो भवेयम्। |
| कुण्डला | स्वागतम् अतिथये। अपि श्रुताः भवद्भिः मम सखीविचाराः? |
| ॠतध्वजः | आम्। अत एव प्रष्टुमुत्सहे किं गन्धर्वराजविश्वासु-महाभागाः अपि स्वपत्नीं युधिष्ठिर इव हारितवन्तः। हरिश्चन्द्र इव विक्रीतवन्तः? |
| कुण्डला | मदालसे! तृष्णीं किमर्थं तिष्ठसि? देहि प्रत्युत्तरम्। |
| ॠतध्वजः | एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो न्यायः तव सख्याः। |
| मदालसा | अत्रभवन्तः नारीस्वाधीनतामधिकृत्य किं कथयन्ति? |
| ॠतध्वजः | माता एव प्रथमा आचार्या इत्यस्ति मे अवधारणा। नारी एव समस्तसृष्टेः निर्मात्री। परं कथनेन किम्? परीक्ष्य एव ज्ञास्यति अत्रभवती। परीक्षार्थमुद्यतोऽस्मि गृहस्थाश्रमप्रयोगशालायाम्। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) ॠतध्वजः कुत्र परीक्षार्थम् उद्यतः अस्ति?
(ख) कस्य पुत्रः ॠतध्वजः आसीत्?
(ग) स्वागतम् अतिथये इति का वदति?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) ॠतध्वजः किं प्रष्टुम् उत्सहते?
(ख) मदालसायाः कः विचित्रः न्यायः?
(ग) कीदृशः जनः दुर्लभः भवति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
(क) ‘स्त्री’ इत्यस्य समानार्थकं पदं नाट्यांशे किं प्रयुक्तम्?
(ख) ‘परतन्त्रताम्’ इत्यस्य किं विलोमपदं नाट्यांशे प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
(क) ‘मे’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ‘भवेयम्’ इत्यस्य कर्तृपदं संवादात् चित्वा लिखत।
Advertisements
Solution
I.
(क) गृहस्थाश्रमप्रयोगशालायाम्
(ख) शत्रुजितः
(ग) कुण्डला
II.
(क) ॠतध्वजः प्रष्टुमुत्सहते यत् किं गन्धर्वराजविश्वासु-महाभागाः अपि स्वपत्नीं युधिष्ठिर इव हारितवन्तः। हरिश्चन्द्र इव विक्रीतवन्तः?
(ख) एकस्य अपराधेन सर्वा जातिः दण्ड्या इति मदालसायाः विचित्रो न्यायः।
(ग) दुर्लभो जनः ईदृशः यः गृहस्थप्रयोगशालायां स्वपत्न्यै स्वतन्त्रतां दद्यात्।
III. (अ)
(क) नारी
(ख) स्वतन्त्रताम्
अथवा
(आ)
(क) ॠतध्वजाय
(ख) अहम्
