Advertisements
Advertisements
Question
मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत -
पुरा हिरण्यकशिपुः (i) ______ एकः अहङ्कारी बलिष्ठः च (ii) ______ अभवत्। सः दैत्यश्चराचरः वर्षसहस्राणि निराहारो हि अधः शिरः (iii) ______ परम-तपसा च ब्रह्मदेवं (iv) ______ कृत्वा वरमयाचत। ततः ब्रह्मा तस्मै विशिष्टं (v) ______ अयच्छत्- न मनुष्यैः न पशुभिः न दिवा न रात्रौ न गृहे न बहिः न (vi) ______ नास्त्रेण च मृयेत। अनेन वरेण हिरण्यकशिपुः अजेयः अभवत्। सः देवताः (vii) ______ सर्वत्र स्वाधिपत्यम् अस्थापयत्। (viii) ______ विष्णुः हिरण्यकशिपोः परमशत्रुः आसीत्, यतः विष्णुः (ix) ______ भ्रातरं हिरण्याक्षं हत्वा लोकान् रक्षितवान्। तस्मात् (x) ______ सर्वत्र विष्णोः पूजा नामस्मरणं भजनं च तेन निषिद्धम्।
मञ्जूषा
| राज्ये, भगवान्, परिश्रमेण, शस्त्रेण, पराजित्य, नामकः, वरम्, प्रसन्नम्, राक्षसराजा, हिरण्यकशिपोः। |
Advertisements
Solution
पुरा हिरण्यकशिपुः (i) नामकः एकः अहङ्कारी बलिष्ठः च (ii) राक्षसराजा अभवत्। सः दैत्यश्चराचरः वर्षसहस्राणि निराहारो हि अधः शिरः (iii) परिश्रमेण परम-तपसा च ब्रह्मदेवं (iv) प्रसन्नम् कृत्वा वरमयाचत। ततः ब्रह्मा तस्मै विशिष्टं (v) वरम् अयच्छत्- न मनुष्यैः न पशुभिः न दिवा न रात्रौ न गृहे न बहिः न (vi) शस्त्रेण नास्त्रेण च मृयेत। अनेन वरेण हिरण्यकशिपुः अजेयः अभवत्। सः देवताः (vii) पराजित्य सर्वत्र स्वाधिपत्यम् अस्थापयत्। (viii) भगवान् विष्णुः हिरण्यकशिपोः परमशत्रुः आसीत्, यतः विष्णुः (ix) हिरण्यकशिपोः भ्रातरं हिरण्याक्षं हत्वा लोकान् रक्षितवान्। तस्मात् (x) राज्ये सर्वत्र विष्णोः पूजा नामस्मरणं भजनं च तेन निषिद्धम्।
