Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्रान् यथानिर्देशं संस्कृतेन उत्तरत -
|
संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाश्रौषीत्। ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशे कमप्यनवलोकयन् गम्भीरस्वरेणैवम् अवादीत्- ‘कः कोऽत्र भोः? कः कोऽत्र भोः?’ इति। अथ क्षणानन्तरं पुनः स एव पादध्वनिरश्रावीति भूयः साक्षेपमवोचत्- ‘क एष मामनुत्तरयन् मुमूर्षुः समायाति बधिरः? ततो “दौवारिक! शान्तो भव किमिति व्यर्थं मुमूर्षुरिति बधिर इति च वदसि?’ इति वक्तारमपश्यतैवाऽऽकर्णि मन्द्रस्वरमेदुरा वाणी। अथ ‘तत् किं नाज्ञायि अद्यापि भवता प्रभुवर्याणामादेशो यद् दौवारिकेण प्रहरिणा वा त्रिःपृष्टोऽपि प्रत्युत्तरमद्दद् हन्तव्यः इति’ इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि’ इति कथयन् द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) प्रत्युत्तरमद्दद् जनः केन हन्तव्यः?
(ख) दौवारिकः भुशुण्डी कुत्र निदधाति?
(ग) कः पादक्षेपध्वनिमिव अश्रौषीत्?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) द्वौवारिकेण कीदृशः संन्यासी दृष्टः?
(ख) द्वौवारिकः साक्षेपं किम् अवोचत्?
(ग) प्रभुवर्याणां कः आदेशः?
III. निर्देशानुसारम् उत्तरत - 2
(क) ‘अश्रौषीत्’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) ‘स्वामिवर्याणाम्’ इत्यस्य पर्यायपदं किं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
(क) ‘धृततुम्बीपात्रः’ इत्यस्य विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम्?
(ख) ‘कथयसि’ इत्यर्थे किं क्रियापदं गद्यांशे प्रयुक्तम्?
Advertisements
Solution
I.
(क) दौवारिकेण/प्रहरिणा
(ख) स्कन्धे
(ग) तापदुर्गदौवारिकः
II.
(क) क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि” इति कथयन् द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः।
(ख) द्वौवारिकः साक्षेपमवोचत्- “क एष मामनुत्तरयन् मुमूर्षुः समायाति बधिरः?
(ग) प्रभुवर्याणामादेशो यद् दौवारिकेण प्रहरिणा वा त्रिःपृष्टोऽपि प्रत्युत्तरमद्दद् हन्तव्यः इति
III.
(क) द्वौवारिकः
(ख) प्रभुवर्याणाम्
अथवा
(आ)
(क) संन्यासी
(ख) वदसि
