हिंदी

अधोलिखितं गद्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ यथानिर्देशं संस्कृतेन उत्तरत - संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाश्रौषीत्‌। ततः स्थिरीभूय पुरतः पश्यन्‌ सत्यपि दीपप्रकाशे कमप्यनवलोकयन्‌ गम्भीरस्वरेणैवम्‌ अवादीत्‌- ‘कः कोऽत्र भोः? कः कोऽत्र भोः?’ इति।

अथ क्षणानन्तरं पुनः स एव पादध्वनिरश्रावीति भूयः साक्षेपमवोचत्‌- ‘क एष मामनुत्तरयन्‌ मुमूर्षुः समायाति बधिरः? ततो “दौवारिक! शान्तो भव किमिति व्यर्थं मुमूर्षुरिति बधिर इति च वदसि?’ इति वक्तारमपश्यतैवाऽऽकर्णि मन्द्रस्वरमेदुरा वाणी। अथ ‘तत्‌ किं नाज्ञायि अद्यापि भवता प्रभुवर्याणामादेशो यद्‌ दौवारिकेण प्रहरिणा वा त्रिःपृष्टोऽपि प्रत्युत्तरमद्दद्‌ हन्तव्यः इति’ इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि’ इति कथयन्‌ द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)   1

(क) प्रत्युत्तरमद्दद्‌ जनः केन हन्तव्यः?

(ख) दौवारिकः भुशुण्डी कुत्र निदधाति?

(ग) कः पादक्षेपध्वनिमिव अश्रौषीत्‌?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)   2

(क) द्वौवारिकेण कीदृशः संन्यासी दृष्टः?

(ख) द्वौवारिकः साक्षेपं किम्‌ अवोचत्‌?

(ग) प्रभुवर्याणां कः आदेशः?

III. निर्देशानुसारम्‌ उत्तरत -   2

(क) ‘अश्रौषीत्‌’ इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) ‘स्वामिवर्याणाम्‌’ इत्यस्य पर्यायपदं किं प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -         

(क) ‘धृततुम्बीपात्रः’ इत्यस्य विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम्‌?

(ख) ‘कथयसि’ इत्यर्थे किं क्रियापदं गद्यांशे प्रयुक्तम्‌?

आकलन
Advertisements

उत्तर

I. 

(क) दौवारिकेण/प्रहरिणा

(ख) स्कन्धे

(ग) तापदुर्गदौवारिकः 

II. 

(क) क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि” इति कथयन्‌ द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः।

(ख) द्वौवारिकः साक्षेपमवोचत्‌- “क एष मामनुत्तरयन्‌ मुमूर्षुः समायाति बधिरः?

(ग) प्रभुवर्याणामादेशो यद्‌ दौवारिकेण प्रहरिणा वा त्रिःपृष्टोऽपि प्रत्युत्तरमद्दद्‌ हन्तव्यः इति

III. 

(क) द्वौवारिकः

(ख) प्रभुवर्याणाम्‌

अथवा

(आ)     

(क) संन्यासी

(ख) वदसि

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×