Advertisements
Advertisements
सूचनानुसारं कृतीः कुरुत।
मृगः प्रत्यहं सस्यं खादति स्म। (स्म' निष्कासयत।)
Concept: undefined >> undefined
गद्यांशं पठित्वा कृतीः कुरुत।
| गङ्गातीरे एकः साधुः आसीत्। यः अपकारं करोति तस्यापि उपकारं करोति स्म सः। प्रतिदिनं सः गङ्गानद्यां स्नानं करोति स्म। एकस्मिन् दिने नदीप्रवाहे सः एकं वृश्चिकं दृष्टवान्। तं हस्तेन गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्। किन्तु वृश्चिकः साधोः हस्तम् अदशत्। साधुः वृश्चिकं त्यक्तवान्। वृश्चिकः जले अपतत्। साधुः पुनः तं तीरे स्थापयितुं प्रयत्नं कृतवान्। पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान्। वृश्चिकः अपि अदशत्। नदीतीरे कश्चन पुरुषः आसीत्। सः साधुम् उक्तवान् "साधुमहाराज! अयं दुष्टः वृश्चिक; पुनः पुनः दशति। भवान् किमर्थ तं हस्ते वृथा स्थापयति? वृश्चिकं त्यजतु'' इति। "वृश्चिकः शुद्र: जन्तुः। दशनं तस्य स्वभावः। सः स्वस्वभावं न त्यजति। अहं तु मनुष्यः। अहं मम परोपकारस्वभावं कथं त्यजामि?'' इति साधुः तं पुरुषम् उक्तवान्। |
(1) पूर्णवाक्येन उत्तरं लिखत। (1)
साधुः नदीप्रवाहे कं दृष्टवान्?
(2) प्रातिपदिकं लिखत। (1)
(क) साधोः
(ख) अहम्
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
दशनं वृश्चिकस्य स्वभावः।
(4) माध्यमभाषया सरलार्थं लिखत। (1)
अहं मम परोपकारस्वभावं कथं त्यजामि?
(5) गद्यंशात् लङ्लकारस्य 1 क्रियापदं चित्वा लिखत। (1)
(6) कारकपरिचयं कुरुत। (1)
गङ्गातीरे एकः साधुः आसीत्।
Concept: undefined >> undefined
Advertisements
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।
|
विरलाः जानन्ति गुणान्। विरलाः कुर्वन्ति निर्धने स्नेहम्। विरलाः परकार्यरताः परदुःखेनापि दुःखिताः विरलाः॥ |
(क) पूर्णवाक्येन उत्तरं लिखत। (2 तः 1) (1)
(1) के गुणान् जानन्ति?
(2) विरलाः केन दुःखिताः?
(ख) विरुद्धार्थकं शब्दं लिखत। (1)
गुणाः × ______।
Concept: undefined >> undefined
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
| रविश्चन्द्रो घना वृक्षाः नदी गावश्च सज्जनाः। एते परोपकाराय लोके देवेन निर्मिताः॥ |

Concept: undefined >> undefined
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रहः | समासनाम |
| मातृसेवा | मातुः सेवा। | ........ |
Concept: undefined >> undefined
समासानां तालिकापूर्ति कुरुत।
| समस्तपदम् | विग्रह: | समासनाम |
| मृगशृगालौ | ......... | इतरेतरद्वन्द्वः |
Concept: undefined >> undefined
चित्रं दृष्टवा नामानि लिखत।

Concept: undefined >> undefined
माध्यमभाषया सरलार्थं लिखत।
| (ततः प्रविशति वैखानसः, अन्यौ तापसौ च) | |
| वैखानसः | (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
| दुष्यन्तः | प्रतिसंहृत एष: सायक:। (यथोक्तं करोति) |
| वैखानसः | राजन्! समिदाहरणाय प्रस्थिता वयम्। |
Concept: undefined >> undefined
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Concept: undefined >> undefined
माध्यमभाषया सरलार्थं लिखत।
अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्।।
Concept: undefined >> undefined
चित्रं दृष्टवा नामानि लिखत।

Concept: undefined >> undefined
चित्र दृष्ट्वा नामानि लिखत।

Concept: undefined >> undefined
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
| __________ |
Concept: undefined >> undefined
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
किञ्चित्कालानन्तरं शृगाल: मृगम् अवदत् , 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग: पाशैर्बद्ध:। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।” दूरात् तत् पश्यन् जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।'' जम्बूको दूरादेवावदत्, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः। प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत् ? मृगेणोक्तम्, “सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च- सुहदां हितकामानां य: शुणोति न भाषितम्। काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्, “उपायस्तावत् चिन्तनीय:।” |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- एकस्मिन् दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
- फलितः मे ______। (कार्यभाग:/मनोरथ:)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
क्षेत्रम् आगत: शृगालः पाशैर्बद्धः।
(घ) एषः गद्यांशं: कस्मात् पाटात उद्धूत: ? 1
(2) शब्दज्ञानम्। (3 तः 2)
(क) लकारं लिखत। 1
इदानीं प्रभूतं भोजनं प्राप्स्यामि।
(ख) सन्धिविग्रहं कुरुत। 1
वनेऽस्मिन् = ______ + ______।
(ग) प्रश्न निर्माणं कुरुत। 1
प्रदोषकाले मृगमन्विष्यन् काक: तत्रोपस्थितः।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
- क्षेत्रपतिना पाशयोजनम्।
- शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
- मृगस्य पाशबन्धनम्।
- मृगस्य प्रत्यहं क्षेत्रं गमनम्।
Concept: undefined >> undefined
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
| 'अ' | 'आ' |
| (1) दरिद्रः | (1) शरीरम् |
| (2) भिन्नम् | (2) शिष्यः |
| (3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1

Concept: undefined >> undefined
तालिकापूर्तिं कुरुत।
नामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ______ | मालाभ्याम् | ______ | तृतीया |
| भगवते | ______ | ______ | चतुर्थी |
| ______ | ______ | जन्मसु | सप्तमी |
Concept: undefined >> undefined
माध्यमभाषया सरलार्थं लिखत।
| रदनिका | एहि वत्स ! शकटिकया क्रीडाव:। |
| दारक: | (सकरुणम्) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि। |
| रदनिका | (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि। |
Concept: undefined >> undefined
माध्यमभाषया सरलार्थं लिखत।
| नद्यौ | रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्। |
| विश्चामित्र | नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम् इच्छाम: परतीरं गन्तुम्। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान् विस्मराम:। |
Concept: undefined >> undefined
पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
|
वृथाभ्रमणकुक्रीडापरपीडापभाषणै:। उत्तमो नातिवक्ता स्यादधमो बहु भाषते। यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः बहु भाषते?
(ख) पदयांशात् विशेषणं चित्वा लिखत। 1
(1) ______ द्विपः।
2) ______ मनः।
(ग) सन्धिविग्रहं कुरुत । 1
(1) किञ्चिज्ज्ञोऽहम् = ______ + ______
(2) जालरेखाचित्रं पूरयत। 2

Concept: undefined >> undefined
तालिकापूर्तिं कुरुत ।
सर्वनामतालिका।
| एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
| ______ | इमौ | ______ | प्रथमा |
| कस्मात् | ______ | ______ | पञ्चमी |
| ______ | ______ | तासु | सप्तमी |
Concept: undefined >> undefined

