हिंदी

SSC (Marathi Semi-English) १० वीं कक्षा - Maharashtra State Board Important Questions

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय

Please select a subject first

Advertisements
Advertisements
< prev  1541 to 1560 of 2530  next > 

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।)
अर्णवः पितः, अस्माकम्‌ उद्यानाद्‌ जपाकुसुमम्‌ आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः।
पिता सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम्‌ अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।)
पिता कि दृष्टं त्वया?
अर्णवः  पितः, अद्भुतम्‌ एतत्‌। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते।
पिता अर्णव, एतानि परागकणानाम्‌ अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद्‌ विश्वं परमाणुभ्यः निर्मितम्‌। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते।
अर्णवः परमाणुः नाम किम्‌?
पिता अस्तु। कथयामि। मुष्टिमात्रान्‌ तण्डुलान्‌ महानसतः आनय।
अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, तात।

(1) अवबोधनम्‌। (3 तः 2)    (3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।     (1)

(1) एतद्‌ विश्वं ______ निर्मितम्‌। (तण्डुलेभ्यः/परमाणुभ्यः)

(2) अर्णवः उद्यानात्‌ ______ गृहीत्वा प्रविशति। (कमलं/जपाकुसुमं)

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।      (1)

परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?     (1)

(2) प्रवाहि जालं पूरयत।       (2)

(तण्डुलान्‌ आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्व प्रविशति।, परमाणुविषये पृच्छति।)

Appears in 1 question paper
Chapter: [4] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।

Appears in 1 question paper
Chapter: [5] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ......।

Appears in 1 question paper
Chapter: [5] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।

Appears in 1 question paper
Chapter: [5] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

समानार्थकशब्दान् लिखत।

कनकम् - ______।

Appears in 1 question paper
Chapter: [5] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।
Appears in 1 question paper
Chapter: [5] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
भवान्‌ ______।

Appears in 1 question paper
Chapter: [5.1] अभ्यासपत्रम् - २।
Concept: अभ्यासपत्रम् - २।

 गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)
Appears in 1 question paper
Chapter: [6] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।
Appears in 1 question paper
Chapter: [6] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

विरुद्धार्थकशब्दान् लिखत।

सद्गुणः × ......।

Appears in 1 question paper
Chapter: [7] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

विरुद्धार्थकशब्दान् लिखत।

प्राचीनाः × .......।

Appears in 1 question paper
Chapter: [7] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।
Appears in 1 question paper
Chapter: [7.1] समासा:।
Concept: समासा:।

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।

समासविग्रहः समासनाम
किञ्चित्‌ जानाति इति। षष्ठी - तत्पुरुषः।
जलस्य व्यवस्थापनम्‌। कर्मधारयः।
लगुडः हस्ते यस्य सः। उपपद - तत्पुरुषः।
कवयः च पण्डिताः च। अव्ययीभावः।
अहनि अहनि। बहुव्रीहिः।
मानवता एव धर्मः। इतरेतर-द्वन्द्वः।
Appears in 1 question paper
Chapter: [7.1] समासा:।
Concept: समासा:।

समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।

समासविग्रह: समासनाम
रामस्य अभिषेकः। इतेतर्‌ द्वन्द्व:।
न शक्यम्‌। कर्मधारयः।
मृगः च शृगाल: च। षष्ठी तत्पुरुष:।
सद्गुणा: एव सत्ति:। अव्ययीभाव:।
महान्‌ भागः यस्य स:। नञ्‌-तत्पुरुष:।
क्रमम्‌ अनुसृत्य। बहुव्रीहिः।
Appears in 1 question paper
Chapter: [7.1] समासा:।
Concept: समासा:।

समानार्थकशब्दान्‌ चित्वा लिखत।

नक्र: - ______।

Appears in 1 question paper
Chapter: [9] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम्‌ अगृहात्‌। तदा शङ्क: उच्चै: आक्रोशत्‌। “अम्ब! त्रायस्व। नक्रात्‌ त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्‌। भयाकुला सा अपि रोदनम्‌ आरभत। शङ्कर: मातरम्‌ आर्ततया प्रार्थयत - “अम्ब, इतः परम्‌ अहं न जीवामि। मरणात्‌ पूर्वं संन्यासी भवितुम्‌ इच्छामि। अधुना वा देहि अनुमतिम्‌। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत्‌ - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्‌। दैववशात्‌ शङ्कर: नक्राद्‌ मुक्त:। स नदीतीरम्‌ आगत्य मातु: चरणौ प्राणमत्‌।

अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम्‌ अवाबोधयत्‌। संन्यासी न केवलम्‌ एकस्या: पत्र:। विशालं जगद्‌ एव तस्य गृहम्‌। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात्‌ निरगच्छत्‌।

तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्‌। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम्‌ अकरोत्‌।

अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌। (3 तः 2)       2

(क) कः कं वदति?        1

“इदानीमेव संन्यासं स्वीकुरु।"

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।       1

“एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरयूनदीं गत:।

(ग) एषः गद्यांश: कस्मात्‌ पाठात्‌ उद्धृत:?     1

(2) शब्दज्ञानम्‌। (3 तः 2)      2

(क) गद्यांशात्‌ 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।     1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययो: मेलनं कुरुत।      1

  'अ' 'आ'
(1) गृहीतम्‌ माता
(2) विवशा पुत्रम्‌
    दर्शनानि

(ग) पूर्वपदं/उत्तरपदं लिखत।       1

(1) तत्क्षणमेव = तत्क्षणम्‌ + ______।

(2) गृहीतमपश्यत्‌ = ______ + अपश्यत्‌।

Appears in 1 question paper
Chapter: [9] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

सर्वनामतालिका पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
...... आवाभ्याम् ...... पञ्चमी
Appears in 1 question paper
Chapter: [9.1] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

सर्वनामतालिका पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
इयम्‌ ...... ...... प्रथम
Appears in 1 question paper
Chapter: [9.1] अभ्यासपत्रम् - ३।
Concept: अभ्यासपत्रम् - ३।

योग्यं पर्यायं चिनुत।

बालकः अन्यशाशत्राणि अधीतवान्‌।

Appears in 1 question paper
Chapter: [9.2] धातुसधित-विशेषणानि।
Concept: धातुसधित-विशेषणानि।

पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।
Appears in 1 question paper
Chapter: [10] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।
< prev  1541 to 1560 of 2530  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Important Questions
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Algebra Mathematics 1
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा History and Political Science [इतिहास व राज्यशास्त्र]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Marathi [मराठी]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Science and Technology 1
Important Questions for Maharashtra State Board SSC (Marathi Semi-English) १० वीं कक्षा Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×