Advertisements
Advertisements
Question
|
कदाचित् देवराजः इन्द्रः भूलोकम् आगतवान्। भूलोके कमपि नगरं प्रविष्टः सः मार्गे गच्छन् आसीत्। तत्र कश्चन विक्रेता बहूनां देवानां विग्रहान् संस्थाप्य विक्रयणं करोति स्म। देवेन्द्रः कुतूहलेन समीपं गत्वा दृष्टवान्। तत्र विष्णुः, शिवः, लक्ष्मीः, सरस्वती, गणेशः इत्यादीनां देवानां विग्रहाः आसन् देवेन्द्रस्य विग्रहः अपि तत्र आसीत्। देवेन्द्रः एकैकस्यापि विग्रहस्य मूल्यं पृष्ट्वा-पृष्ट्वा ज्ञातवान्। अन्ते च कुतूहलेन तत्र स्थितस्य देवेन्द्रविग्रहस्य मूल्यं पृष्टवान्। सः विक्रेता उक्तवान्− यः कोऽपि कमपि विग्रहं क्रीणाति तस्मै एषः देवेन्द्र-विग्रहः निःशुल्कं दीयते इति। तदा तु देवेन्द्रस्य स्थितिः शोचनीया एव आसीत्।
|
उपरिलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत -
- एकपदेन उत्तरत -
- देवराजः कुत्र आगतवान्? 1
- कस्य स्थितिः शोचनीया आसीत्? 1
- पूर्णवाक्येन उत्तरत -
- विक्रेता तत्र केषां देवानां विग्रहान् स्थापितवान्? 2
- देवेन्द्रविग्रहं कस्मै निःशुल्कं दीयते? 2
- यथानिर्देशम् उत्तरत -
- ‘स्थितिः शोचनीया’ अत्र विशेष्यपदं किम्? 1
- ‘अपश्यत्’ इत्यर्थे किं क्रियापदम् अनुच्छेदे प्रयुक्तम्? 1
- अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। 2
Comprehension
Advertisements
Solution
-
- भूलोकम्
- देवेन्द्रस्य
-
- विक्रेता तत्र विष्णुः, शिवः, लक्ष्मीः, सरस्वती, गणेशः इत्यादीनां देवानां विग्रहान् स्थापितवान्।
- यः कोऽपि कमपि अन्यं विग्रहं क्रीणाति तस्मै देवेन्द्रविग्रहं निःशुल्कं दीयते।
-
- स्थितिः
- दृष्टवान्
- देवेन्द्रः विक्रेता च (या इन्द्रस्य गर्वभङ्गः)
shaalaa.com
Is there an error in this question or solution?
