English

हरियाणाराज्ये यमुनानगरमण्डले एकः संस्कृतपरिवारः अस्ति। तस्मिन् गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति। तत्र पशवोऽपि संस्कृतम् अवबोधुं समर्थाः सन्ति।

Advertisements
Advertisements

Question

हरियाणाराज्ये यमुनानगरमण्डले एकः संस्कृतपरिवारः अस्ति। तस्मिन् गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति। तत्र पशवोऽपि संस्कृतम् अवबोधुं समर्थाः सन्ति। तस्मिन् गृहे अभिमन्युः नाम एकः युवकः अस्ति। सोऽपि संस्कृतं वदति। एकदा तत्र एकः संस्कृतप्राध्यापकः आगतवान्। तेन सह अभिमन्युः संस्कृतेन सम्भाषणं कृतवान्। तस्य युवकस्य प्रतिभां दृष्ट्वा प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि दत्तवान्। तस्मात् दिनात् तस्य मनसि संस्कृतं प्रति महती अभिरुचिः समुत्पन्ना। सः प्रतिदिनं गीतायाः श्लोकान् पठित्वा-पठित्वा सर्वान् श्लोकान् अस्मरत्।

उपरिलिखितम्‌ अनुच्छेदं पठित्वा प्रश्नान्‌ उत्तरत -

  1.  एकपदेन उत्तरत -
    1. संस्कृतपरिवारः कुत्र अस्ति?     1
    2. प्राध्यापकः कस्मै शतं रूप्यकाणि दत्तवान्‌?     1
  2. पूर्णवाक्येन उत्तरत -
    1. प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि किमर्थं दत्तवान्‌?     2
    2. युवकः कथं गीतायाः श्लोकान्‌ अस्मरत्‌?      2
  3. यथानिर्देशम्‌ उत्तरत -
    1. ‘अयच्छत्‌’ इत्यर्थे किं क्रियापदम्‌ अनुच्छेदे प्रयुक्तम्‌?     1
    2. ‘कृतवान्‌’ इति क्रियापदस्य कर्तृपदम्‌ चित्वा लिखत।     1
    3.  अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।     2
Comprehension
Advertisements

Solution

    1. हरियाणाराज्ये
    2. अभिमन्यवे 
    1. तस्य युवकस्य (अभिमन्योः) प्रतिभां दृष्ट्वा प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि दत्तवान्।
    2. सः (युवकः) प्रतिदिनं गीतायाः श्लोकान् पठित्वा पठित्वा सर्वान् श्लोकान् अस्मरत्। 
    1. दत्तवान्
    2. युवकः
    3. संस्कृतस्य महत्त्वम्
shaalaa.com
  Is there an error in this question or solution?
Chapter 12: रचना प्रयोग - अभ्‍यासकार्यम् [Page 139]

APPEARS IN

NCERT Sanskrit Vyakaranavithi Class 9 and 10
Chapter 12 रचना प्रयोग
अभ्‍यासकार्यम् | Q 8. | Page 139
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×