Advertisements
Advertisements
Question
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
| प्रसादः | (अग्रे आगत्य) नमस्ते। अहं रसायनशास्त्रस्य छात्रः। प्राचीनभारतीयरसायनशास्त्रम् इति मम संशोधनक्षेत्रम्। तद्विषयका: ग्रन्थाः संस्कृतभाषया लिखिताः। शालायां यद् संस्कृतावध्ययनं कृतं तस्य उपयुक्तताम् अहम् अधुना अवगच्छामि। |
| लीना | अहमपि भाषाशास्त्रम् अधीत्य बेङ्गलुरू इत्यत्र सॉफ्टवेअर-क्षेत्रे भारतीयभाषाविश्लेषिकारूपेण कार्यं करोमि। संस्कृतस्य ज्ञानम् आधुनिकभारतीय-भाषाणां विश्लेषणे अतीव साहाय्यकरं भवति इति मे अनुभवः। |
| तनुजाः | पार्श्वनिवेदनम् इति मे व्यवसायः। संस्कृतश्लोकादीनां पठनेन शब्दोच्चारणस्य उत्तमः अभ्यासः भवति। तेन अभिनये निवेदने च प्रभावः वर्धते। साम्प्रतं कलाक्षेत्रे कार्यरताः अस्मासु केचन भरतमुनेः नाट्यशास्त्रस्य अध्ययनं कुर्वन्ति। |
| समीरः | भोः, भारतीयविद्यायाः नाम भारतीयत्त्वज्ञान-योगशास्त्र-इतिहास- स्थापत्यादिशास्त्राणाम् अध्ययनाय विदेशेष्वपि नैके जनाः उत्सुकाः। तदर्थं काश्चन दूरचित्रवाहिन्यः अपि सन्ति। तत्र संस्कृततज्जञानम् आवश्यकता वर्तते।मम सुहद् आशयसम्पादकरूपेण तत्र कार्यरतः। |
| महोदया | अस्माभिः संस्कृतस्य अध्ययनं शालायां कृतम्। परं तस्य अनेन प्रकारेण उपयोजनं भवेदिति अस्माभिः नैव चिन्तितम्। |
(१) अवबोधनम्। (४ तः ३) ३
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। (१)
(१) अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्। (शालायां/गृहे)
(२) संस्कृतश्लोकादीनां पठनेन शब्दोच्चारणस्य ______ अभ्यासः भवति। (उत्तमः/अन्तिमः)
(ख) पूर्णवाक्येन उत्तरं लिखत। (१)
प्रसादस्य संशोधनक्षेत्रं किम्?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (१)
संस्कृतस्य ज्ञानम् आधुनिकभारतीय-भाषाणां विश्लेषणे अतीव साहाय्यकरं भवति।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। (१)
मम सुहृद् आशयसम्पादकरूपेण तत्र कार्यरतः।
(२) शब्दज्ञानम् (३ तः २) (२)
(क) गद्यांशात् २ षष्ठीविभक्त्यन्तपदे चित्वा लिखत। (१)
(ख) गद्यांशात् विशेषण् चित्वा लिखत। (१)
(१) ______ अभ्यासः
(२) ______ जनाः।
(ग) पूर्वपदं लिखतः। (१)
(१) नैव = ______ + एव।
(२) विदेशेष्वपि = ______ + अपि।
(३) पृथक्करणम्। (२)
(क) जालरेखाचित्रं पूरयत।

Advertisements
Solution
(१)
(क)
(१) अस्माभिः संस्कृतस्य अध्ययनं शालायां कृतम्।
(२) संस्कृतश्लोकादीनां पठनेन शब्दोच्चारणस्य उत्तमः अभ्यासः भवति।
(ख) ‘प्राचीनभारतीयरसायनशास्त्रम्’ इति प्रसादस्य संशोधनक्षेत्रम्।
(ग) सत्यम्।
(घ) मम वयस्यः आशयसम्पादकरूपेण तत्र कार्यरतः।
(२)
(क)
- रसायनशास्त्र
- मम
(ख)
(१) उत्तमः अभ्यासः
(२) नैके जनाः।
(ग)
(१) नैव = न + एव।
(२) विदेशेष्वपि = विदेशेषु + अपि।
(३)
(क)

