English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। किञ्चित्कालानन्तरं शृगालः मृगम्‌ अवदत्‌, ‘वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌।’ तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

किञ्चित्कालानन्तरं शृगालः मृगम्‌ अवदत्‌, ‘वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌।’ तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।” दूरात्‌ तत्‌ पश्यन्‌ जम्बूकः मनसि आनन्दितः। सोऽचिन्तयत्‌, “फलितं मे मनोरथम्‌। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्‌, “मित्र, छिन्धि तावन्मम बन्धनम्‌। त्रायस्व माम्‌।” जम्बूको दूरादेवावदत्‌, “मित्र, दृढोऽयं बन्धः। स्नायुनिर्मितान्‌ पाशानेतान्‌ कथं वा व्रतदिवसे स्पृशामि?” इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।

प्रदोषकाले मृगमन्विष्यम्‌ काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे! किमेतत्‌?” मृगेणोक्तम्‌, “सुहृद्‌वाक्यस्य अनादरात्‌ बद्धोऽहम्‌।”

(१) अवबोधनम्‌ (४ तः ३)   ३

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।   (१)

जम्बूकः मनसि आनन्दितः यतः ______।

(१) मृगः पाशैः बद्धः। 

(२) जम्बुकस्य अन्येन सह मित्रता अभवत्‌।

(ख) कः कं वदति?    (१)

“मित्र, छिन्धि तावन्मम बन्धनम्‌।”

(ग) पूर्णवाक्येन उत्तरं लिखत।   (१)

क्षुद्रबुद्धिः कुत्र निभृतं स्थितः?

(घ) एषः गद्यांश कस्मात्‌ पाठात्‌ उद्धृतः?    (१)

(२) शब्दज्ञानम्‌। (३ तः २)     (२)  

(क) गद्यांशात्‌ २ पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये चित्वा लिखत।    (१)

(ख) प्रश्ननिर्माणं कुरुत।     (२)

प्रदोषकाले मृगमन्विष्यन्‌ काकः क्षेत्रे उपस्थितः।

(ग) लकारं लिखत।     (१)

वने अस्मिन्‌ एकं सस्यपूर्णक्षेत्रम्‌ अस्ति।

(३) पृथक्करणम्‌।      (२)

क्रमेण योजयत।

(क) क्षेत्रपतिना पाशयोजनम्‌।

(ख) शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्‌।

(ग) मृगस्य पाशबन्धनम्‌।

(घ) मृगस्य प्रत्यहं क्षेत्रं गमनम्‌।

Comprehension
Advertisements

Solution

(१) 

(क) जम्बूकः मनसि आनन्दितः यतः मृगः पाशैः बद्धः। 

(ख) मृगः जम्बूकं वदति।

(ग) क्षुद्रबुद्धिः वृक्षस्य पृष्ठतः निभृतं स्थितः।

(घ) एषः गद्यांशः व्यसने मित्रपरीक्षा पाठात्‌ उद्धृतः।

(२) 

(क) 

  1. दृष्ट्वा
  2. उक्त्वा

(ख) कदा मृगमन्विष्यन्‌ काकः क्षेत्रे उपस्थितः?

(ग) लट्लकारः।

(३) 

(ख) शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्‌।

(घ) मृगस्य प्रत्यहं क्षेत्रं गमनम्‌।

(क) क्षेत्रपतिना पाशयोजनम्‌।

(ग) मृगस्य पाशबन्धनम्‌।

shaalaa.com
  Is there an error in this question or solution?
2019-2020 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×