English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्‌। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद्‌ मातैव पुत्रस्य पालनम्‌ अकरोत्‌। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम्‌ अधीतवान्‌। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्‌। गृहं प्राप्य मातृसेवाम्‌ आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम्‌ अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टा आर्याम्बा चिन्तामग्ना जाता। एकसिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गतः।

(1) अवबोधनम्। (3 तः 2) 2

(क) पूर्णवाक्येन उत्तरं लिखत।  1

गुरुमुपगम्य शङ्करः किम्‌ अधीतवान्‌?

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  1 

एकस्मिन्‌ दिने शङ्करः स्तानार्थं शरयूनदीं गतः। 

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।  1

बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः।

(2) पृथक्करणम्‌।  2

स्थानाधारेण शब्दपेटिकां पूरयत।

(कालडीग्रामः, केरलप्रदेशः, भारतदेशः, आलुवानगरम्‌)

Comprehension
Advertisements

Solution

(1) 

(क) गुरुमुपगम्य शङ्करः वेद-वेदाङ्गानि, विविधशास्त्राणि च अधीतवान्।

(ख) एकस्मिन्‌ दिने शङ्करः स्तानार्थं शरयूनदीं गतः। - असत्यम्‌

(ग) बाल्ये एव तस्य तातः शिवगुरुः दिवङ्गतः।

(2)

shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×