English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। पिता सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजनं समाप्यते, यस्मात्‌ सूक्ष्मतरः भागः प्राप्तुं न शक्यते सः एव परमः अणुः। अर्णवः द्रव्यस्य अन्तिमः घटकः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

पिता सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजनं समाप्यते, यस्मात्‌ सूक्ष्मतरः भागः प्राप्तुं न शक्यते सः एव परमः अणुः।
अर्णवः द्रव्यस्य अन्तिमः घटकः मूलं तत्वं च परमाणुः, सत्यं खलु?
पिता सत्यम्‌ अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्रायः ख्रिस्तपूर्वं पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन किं किम्‌ उक्तं परमाणुविषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीमः।
पिता कणादमुनिना प्रतिपादितम्‌-परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्यः, स्वयं व्यावर्तकः च। ‘वैशेषिकसूत्राणि’ इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता।
अर्णवः का सा व्याख्या?
पिता जालसूर्यमरीचिस्थं यत्‌ सूक्ष्मः दृश्यते रज:। तस्य षष्ठतमो भागः परमाणु: स उच्यते। 
अर्णवः अहम्‌ एतद्विषये विस्तरेण  इच्छामि।
पिता उत्तमम्‌! श्वः मम महाविद्यालयम्‌ आगच्छ। तत्र कणादविषयकाणि नैकानि पुस्तकानि सन्ति। तव जिज्ञासा निश्चयेन शाम्येत्‌।

(1) अवबोधनम्‌। (3 तः 2)  2

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।  1

पिता अर्णवाय स्वमहाविद्यालयम्‌ आगन्तुं कथयति यतः ______।

  1. पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति।
  2. पितु; महाविद्यालये स्नेह-सम्मेलनम्‌ अस्ति।

(ख) पूर्णवाक्येन उत्तरं लिखत।  1

कणादमुनिना कस्मिन्‌ ग्रन्थे परमाणो: व्याख्या कृता?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

परमाणुः द्रव्यस्य मूलकारणम्‌।

(2) शब्दज्ञानम्‌। (3 त: 2)  2

(क) गद्यांशात्‌ 2 हेत्वर्थक-धातुसाधित-तुमन्त-अव्यये चित्वा लिखत।   1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत। 1

  विशेषणम्‌ विशेष्यम्‌
(1) अन्तिम: शतके
(2) पञ्चमे अणुः
    घटक:

(ग) पूर्वपदं/उत्तरपदं लिखत।   1

  1. तदपि = ....... + अपि।
  2. स उच्यते = स: + .......।
Comprehension
Advertisements

Solution

(1)

(क) पिता अर्णवाय स्वमहाविद्यालयम्‌ आगन्तुं कथयति यतः पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति

(ख) कणादमुनिना ‘वैशेषिकसूत्राणि’ इति ग्रन्थे परमाणोः व्याख्या कृता।

(ग) परमाणुः द्रव्यस्य मूलकारणम्‌। - सत्यम्‌

(2) 

(क) प्राप्तुं, पठितुम्‌

(ख) 

  विशेषणम्‌ विशेष्यम्‌
(1) अन्तिम: घटकः
(2) पञ्चमे शतके

(ग) 

  1. तदपि = तद् + अपि।
  2. स उच्यते = स: + उच्यते
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Question Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×