Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
| पिता | सम्यग् उक्तं त्वया। यत्र एतद् विभाजनं समाप्यते, यस्मात् सूक्ष्मतरः भागः प्राप्तुं न शक्यते सः एव परमः अणुः। |
| अर्णवः | द्रव्यस्य अन्तिमः घटकः मूलं तत्वं च परमाणुः, सत्यं खलु? |
| पिता | सत्यम् अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्रायः ख्रिस्तपूर्वं पञ्चमे षष्ठे वा शतके। |
| अर्णवः | तात, महर्षिणा कणादेन किं किम् उक्तं परमाणुविषये? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीमः। |
| पिता | कणादमुनिना प्रतिपादितम्-परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्यः, स्वयं व्यावर्तकः च। ‘वैशेषिकसूत्राणि’ इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता। |
| अर्णवः | का सा व्याख्या? |
| पिता | जालसूर्यमरीचिस्थं यत् सूक्ष्मः दृश्यते रज:। तस्य षष्ठतमो भागः परमाणु: स उच्यते। |
| अर्णवः | अहम् एतद्विषये विस्तरेण इच्छामि। |
| पिता | उत्तमम्! श्वः मम महाविद्यालयम् आगच्छ। तत्र कणादविषयकाणि नैकानि पुस्तकानि सन्ति। तव जिज्ञासा निश्चयेन शाम्येत्। |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
पिता अर्णवाय स्वमहाविद्यालयम् आगन्तुं कथयति यतः ______।
- पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति।
- पितु; महाविद्यालये स्नेह-सम्मेलनम् अस्ति।
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
कणादमुनिना कस्मिन् ग्रन्थे परमाणो: व्याख्या कृता?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
परमाणुः द्रव्यस्य मूलकारणम्।
(2) शब्दज्ञानम्। (3 त: 2) 2
(क) गद्यांशात् 2 हेत्वर्थक-धातुसाधित-तुमन्त-अव्यये चित्वा लिखत। 1
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत। 1
| विशेषणम् | विशेष्यम् | |
| (1) | अन्तिम: | शतके |
| (2) | पञ्चमे | अणुः |
| घटक: |
(ग) पूर्वपदं/उत्तरपदं लिखत। 1
- तदपि = ....... + अपि।
- स उच्यते = स: + .......।
Advertisements
उत्तर
(1)
(क) पिता अर्णवाय स्वमहाविद्यालयम् आगन्तुं कथयति यतः पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति।
(ख) कणादमुनिना ‘वैशेषिकसूत्राणि’ इति ग्रन्थे परमाणोः व्याख्या कृता।
(ग) परमाणुः द्रव्यस्य मूलकारणम्। - सत्यम्
(2)
(क) प्राप्तुं, पठितुम्
(ख)
| विशेषणम् | विशेष्यम् | |
| (1) | अन्तिम: | घटकः |
| (2) | पञ्चमे | शतके |
(ग)
- तदपि = तद् + अपि।
- स उच्यते = स: + उच्यते।
