English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। अर्णवः द्रव्यस्य अन्तिमः घटकः मूलं तत्त्वं च परमाणुः, सत्यं खलु? पिता सत्यम्‌ अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम्‌ इति - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

अर्णवः  द्रव्यस्य अन्तिमः घटकः मूलं तत्त्वं च परमाणुः, सत्यं खलु?
पिता  सत्यम्‌ अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्रायः ख्रिस्तपुर्वं पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन किं किम्‌ उक्तं परमाणुविषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीमः।
पिता  कणादमुनिना प्रतिपादितम्‌-परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्यः, स्वयं व्यावर्तकः च। ‘वैशेषिकसूत्राणि’ इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता।
अर्णवः  का सा व्याख्या?
पिता   जालसूर्यमरीचिस्थं यत्‌ सूक्ष्मं दृश्यते रजः।
तस्य षष्ठतमो भागः परमाणुः स उच्यते।।

(1) अवबोधनम्(3 तः 2) 2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1

  1. वयं तस्य महाभागस्य ______ एव जानीमः। (नामधेयम्‌/ग्रामम्‌)
  2. रजसः ______ भागः परमाणु। (षष्ठतमः/शततमः)

(ख) पूर्णवाक्येन उत्तरं लिखत। 1

कस्मिन्‌ ग्रन्थे महर्षिकणादेन परमाणोः व्याख्या कृता?

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः? 1

(2) जालरेखाचित्रं पूरयत। (2)

Comprehension
Advertisements

Solution

(1) 

(क) 

  1. वयं तस्य महाभागस्य नामधेयम्‌ एव जानीमः। 
  2. रजसः षष्ठतमः भागः परमाणु। 

(ख) 

‘वैशेषिकसूत्राणि’ इति ग्रन्थे/स्वग्रन्थे महर्षिकणादेन परमाणोः व्याख्या कृता।

(ग) एषः गद्यांशः ‘स एव परमाणुः’ इति/एतस्मात्‌ पाठात्‌ उद्धृतः।

(2) 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (July) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×