English

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: वाक्पटुधैर्यवान्‌ मन्त्री सभायामप्यकातरः। स केनापि प्रकारेण परैर्न परिभूयते॥ य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

Advertisements
Advertisements

Question

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत:

वाक्पटुधैर्यवान्‌ मन्त्री सभायामप्यकातरः।

स केनापि प्रकारेण परैर्न परिभूयते॥

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्‌) 1

(क) मन्त्री कैः न परिभूयते?

(ख) मनुष्यः आत्मनः किम्‌ इच्छति?

(ग) मनुष्यः कीदृशं कर्म न कुर्यात्‌?

(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

(क) यः आत्मनः श्रेयः इच्छति, स किं न कुर्यात्‌?

(ख) मन्त्री कीदृशः भवेत्‌?

(ग) मन्त्री कुत्र अकातरः भवेत्‌?

(iii) निर्देशानुसारम्‌ उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

(क) ‘स केनापि प्रकारेण परैर्न परिभूयते’ अत्र वाक्ये कर्तृपदं किम्‌?

(ख) ‘दुःखानि’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्‌?

(ग) ‘धैर्यवान्‌’ इत्यस्य विशेष्यपदं चित्वा लिखत।

Comprehension
Advertisements

Solution

(i) 

(क) परैः

(ख) श्रेयः 

(ग) अहितम्

(ii) 

(क) यः आत्मनः श्रेयः इच्छति, स परेभ्यः कदापि अहितं कर्म न कुर्यात्‌।

(ख) मन्त्री वाक्पटुः, धैर्यवान् सभायाम् अकातरः च भवेत्‌।

(ग) मन्त्री सभायाम् अकातरः भवेत्‌।

(iii) 

(क) सः 

(ख) सुखानि

(ग) मन्त्री

shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×