English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखतः एकदा भगवान्‌ बोधिसत्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत्‌। स बाल्यात्‌ एव वृद्धोपसेवी, विनयशीलः - Sanskrit (Communicative)

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखतः 

एकदा भगवान्‌ बोधिसत्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत्‌। स बाल्यात्‌ एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्‌। जनकल्याणकर्मसु रतः असौ पुत्रवत्‌ प्रजाः पालयति स्म। कारुण्य-ओैदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्‌। राज्ञः दानशीलताम्‌ आकर्ण्य देशान्तरेभ्योऽपि जनाः तं देशम्‌ आयान्ति स्म। अथ कदाचित्‌ दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम्‌ अर्थिनां विरलसङ्ख्यां विलोक्य अचिन्तयत्‌-मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्‌।

(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्‌) 1

(क) कः शिवीनां राजा अभवत्‌?

(ख) राजा कथं प्रजाः पालयति स्म?

(ग) विरलसङ्ख्यां केषाम्‌ अभवत्‌?

(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

(क) राजा बाल्यात्‌ एव कीदृशः आसीत्‌?

(ख) जनाः किमर्थं तं देशम्‌ आयान्ति स्म?

(ग) दानशालासु विचरन्‌ स राजा किम्‌ अचिन्तयत्‌?

(iii) निर्देशानुसारम्‌ उत्तरत: (केवलं प्रश्नद्वयम्‌) 2

(क) ‘असौ पुत्रवत्‌ प्रजाः पालयति स्म’ अत्र किं क्रियापदं प्रयुक्तम्‌?

(ख) ‘भगवान्‌’ इति विशेषणपदस्य विशेष्यपदं किं प्रयुक्तम्‌?

(ग) ‘वस्त्रम्‌’ इति पदस्य किं पर्यायपदम्‌ अत्र प्रयुक्तम्‌?

Comprehension
Advertisements

Solution

(i) 

(क) भगवान्‌ बोधिसत्वः

(ख) पुत्रवत्‌

(ग) अर्थिनाम्‌

(ii) 

(क) राजा बाल्यात्‌ एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्‌।

(ख) राज्ञः दानशीलताम्‌ आकर्ण्य देशान्तरेभ्योऽपि जनाः तं देशम्‌ आयान्ति स्म।

(ग) दानशालासु विचरन्‌ स राजा अचिन्तयत्‌ यत् मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते।

(iii) 

(क) पालयति स्म

(ख) बोधिसत्वः

(ग) वसन

shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×