Advertisements
Advertisements
Question
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| राजीवः | किम् एतत् कस्यचित् दुर्गस्य चित्रम्? |
| पर्यटनाधिकारी | आम्। एतत् दिवांग-उपत्यका-मण्डले स्थितं भीष्मकनगरदुर्गम्! अस्य अवशेषाः तु आर्यकला-संस्कृति-सम्पदः परिचायकाः। अधुना इदं चित्रं पश्यत। |
| शैलैशः | अहं जानामि इदं स्थानम्। इदं तु ‘तवाङ्ग गोम्पा’ इति प्रसिद्धः बौद्धमठः। |
| पर्यटनाधिकारी | सम्यक् अभिज्ञातम्! मनोहरे सुरम्ये ‘तवाङ्ग’ इति स्थले राजते अयं बौद्धमठः । पञ्चशतानां बौद्धभिकक्षूणां निवासयोग्या स्थली इयम्। लोहितजनपदे अपि अनेकबौद्धविहाराः सन्ति। |
| नीलिमा | मान्यवर! मया अस्य प्रदेशस्य ‘परशुरामकुण्डम्’ इति दर्शनीयस्थलविषये अपि पठितम्। किम् इदम्? |
(i) एकपदेन उत्तरत: (केवलं प्रश्नद्वयम्) 1
(क) भीष्मकनगरदुर्गम् कस्मिन् मण्डले स्थितम्?
(ख) कस्मिन् जनपदे अनेके बौद्धविहाराः सन्ति?
(ग) कस्य अवशेषाः आर्यकला-संस्कृति-सम्पदः परिचायकाः सन्ति?
(ii) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) प्रसिद्धः बौद्धमठः कः वर्तते?
(ख) भीष्मकनगरदुर्गस्य अवशेषाः केषां परिचायकाः सन्ति?
(ग) अरुणाचलप्रदेशे ‘परशुरामकुण्डम्’ किम् अस्ति?
(iii) निर्देशानुसारम् उत्तरत: (केवलं प्रश्नद्वयम्) 2
(क) नाट्यांशे ‘सन्ति’ इति क्रियायाः कर्तृपदं किम्?
(ख) ‘अधुना इदं चित्रं पश्यत।’ अत्र ‘चित्रम्’ विशेष्यपदस्य विशेषणपदं किम्?
(ग) ‘राजते अयं बौद्धमठः।’ अस्मिन् वाक्ये क्रियापदं किम्?
Advertisements
Solution
(i)
(क) दिवांग-उपत्यका-मण्डले
(ख) लोहितजनपदे
(ग) भीष्मकनगरदुर्गस्य
(ii)
(क) ‘तवाङ्ग गोम्पा’ इति प्रसिद्धः बौद्धमठः वर्तते।
(ख) भीष्मकनगरदुर्गस्य अवशेषाः आर्यकला-संस्कृति-सम्पदः परिचायकाः सन्ति।
(ग) अरुणाचलप्रदेशे ‘परशुरामकुण्डम्’ एकं दर्शनीयस्थलं अस्ति।
(iii)
(क) बौद्धविहाराः
(ख) इदम्
(ग) राजते
