English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे अपतत्‌। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यत्नमकरोत्‌। तथापि वृषभः नोत्थितः। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे अपतत्‌। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यत्नमकरोत्‌। तथापि वृषभः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्‌। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्‌ - “अयि शुभे! किमेवं रोदिषि?”

सा च “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत्‌ भवान्‌ पश्यति न?” इति प्रत्यवोचत्‌।

“भद्रे नूनम्‌। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्‌?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्‌ - बहून्यपत्यानि मे सन्तीति सत्यम्‌। तथाप्यहमेतस्मिन्‌ पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)     1

  1. वृषभः कुत्र अपतत्‌?
  2. सर्वधेनूनां माता का आसीत्‌?
  3. सुरभिः कस्य दैन्यं दष्ट्वा रोदिति सम?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. सुरभिः किमर्थं तस्मिन्‌ पुत्रे एव विशिष्य आत्मवेदनामनुभवतिः?
  2. सुराधिपः सर्वप्रथमं सुरभिं किम्‌ अपृच्छत्‌?
  3. सुरभेः नेत्राभ्यामश्रूणि किमर्थम्‌ आविरासन्‌?

III. (अ) निर्देशानुसारम्‌ उत्तरत -         2

  1. ‘अपत्यानि’ इति पदस्य विशेषणपदं किं प्रयुक्तम्‌?
  2. ‘अनुभवामि’ इत्यर्थे गद्यांशे कर्तृपदं किं प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -       2

  1. ‘स्नेहः’ इत्यस्य किं पर्यायपदं गद्यांशात्‌ चित्वा लिखत।
  2. “सः कृच्छ्रेण भारमुद्वहति।” अत्र ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्‌?
Comprehension
Advertisements

Solution

I. 

  1. भूमौ/क्षेत्रे
  2. सुरभिः
  3. पुत्रस्य

II. 

  1. सुरभिः तस्मिन्‌ पुत्रे एव विशिष्य आत्मवेदनामनुभवति यतो हि सः अन्येभ्यो दुर्बलः।
  2. सुराधिपः सर्वप्रथमं सुरभिम्‌ अपृच्छत्‌- “अयि शुभे! किमेवं रोदिषि?”
  3. भूमौ पतिते स्वपुत्रं दृष्टा सुरभेः नेत्राभ्यामश्रूणि आविरासन्‌।

III. (अ) 

  1. बहूनि
  2. अहम्‌

अथवा

(आ) 

  1. वात्सल्यम्‌
  2. वृषभाय
shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×