Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे अपतत्। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषभः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् - “अयि शुभे! किमेवं रोदिषि?” सा च “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् - बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- वृषभः कुत्र अपतत्?
- सर्वधेनूनां माता का आसीत्?
- सुरभिः कस्य दैन्यं दष्ट्वा रोदिति सम?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- सुरभिः किमर्थं तस्मिन् पुत्रे एव विशिष्य आत्मवेदनामनुभवतिः?
- सुराधिपः सर्वप्रथमं सुरभिं किम् अपृच्छत्?
- सुरभेः नेत्राभ्यामश्रूणि किमर्थम् आविरासन्?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘अपत्यानि’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
- ‘अनुभवामि’ इत्यर्थे गद्यांशे कर्तृपदं किं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत - 2
- ‘स्नेहः’ इत्यस्य किं पर्यायपदं गद्यांशात् चित्वा लिखत।
- “सः कृच्छ्रेण भारमुद्वहति।” अत्र ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
Advertisements
उत्तर
I.
- भूमौ/क्षेत्रे
- सुरभिः
- पुत्रस्य
II.
- सुरभिः तस्मिन् पुत्रे एव विशिष्य आत्मवेदनामनुभवति यतो हि सः अन्येभ्यो दुर्बलः।
- सुराधिपः सर्वप्रथमं सुरभिम् अपृच्छत्- “अयि शुभे! किमेवं रोदिषि?”
- भूमौ पतिते स्वपुत्रं दृष्टा सुरभेः नेत्राभ्यामश्रूणि आविरासन्।
III. (अ)
- बहूनि
- अहम्
अथवा
(आ)
- वात्सल्यम्
- वृषभाय
