English Medium
Hindi Medium
Academic Year: 2025-2026
Date: मार्च 2026
Advertisements
सामान्यनिर्देशाः -
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
- ‘क’ खण्डः : अपठितावबोधनम् (10 अङ्काः)
- ‘ख’ खण्डः : रचनात्मककार्यम् (15 अङ्काः)
- ‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
- ‘घ’ खण्डः : पठितावबोधनम् (30 अङ्काः)
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क: प्रश्नपत्रानुसारम् एव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
शुद्धं पर्यावरणम् एव अस्माकं जीवनस्य आधारोऽस्ति। असन्तुलितेन पर्यावरणेन न केवलं मानवजातेः अपितु पशुपक्षिणामपि विनाशः सम्भवति। साम्प्रतं प्रदूषणं विश्वस्य महती समस्या अस्ति। कुत्रापि स्वच्छः वायुः न प्राप्यते, न स्वच्छं जलं लभ्यते न च स्वच्छा: खाद्यपदार्थाः प्राप्यन्ते। प्रदूषणस्य आधिक्येन जनाः निरन्तरं विविधैः रोगैः आक्रान्ताः भवन्ति। प्रदूषणस्य निराकरणाय देशाः बहुविधं प्रयासं कुर्वन्ति परन्तु प्रदूषणं तु अनवरतं वर्धते। अद्यत्वे जायमानैः युद्धैः, युद्धाभ्यासैः, यन्त्रालयानां यानानां च धूमेन सम्पूर्णवायुमण्डलं दूषितं सञ्जातम्। वृक्षाणां कर्तनात् शुद्धवायोः उपलब्धता अपि न्यूना जायते। दूषितः वायुः एव श्वासमाध्यमेन हृदयं प्रविशति। अतः विविधाः श्वासरोगाः, हृदयरोगाः, चर्मरोगाः नेत्ररोगाः च जनान् पीडयन्ति। एतेन मानवाः एव न अपितु पशुपक्षिणः अपि रोगग्रस्ताः भवन्ति। वायुप्रदूषणं नगरेषु अधिकम् अस्ति। उद्योगानां विषाक्तं जलं जनाः नद्यां निपातयन्ति येन जलचराणां मानवानां चापि हानिः भवति। अस्माभिः सर्वैः मिलित्वा प्रदूषणसमस्यायाः निवारणाय सर्वे उपायाः कर्तव्याः अन्यथा पृथिव्याम् अपि जीवनम् असम्भवं भविष्यति। यावत् जनाः जागरूकाः न भविष्यन्ति तावत् अस्याः समस्यायाः समाधानं न भविष्यति। अतः वयं प्रदूषणं निवारयाम, पृथ्वीं सुरक्षयाम। प्रदूषणस्य निवारणाय पर्यावरणस्य संरक्षणाय च वृक्षाः रोपणीयाः, उद्योगानां विस्तारः च वैज्ञानिकरीत्या करणीयः, आयुद्धगतिविधयः निवारणीयाः। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- दूषितः वायुः कथं हृदयं प्रविशति?
- अस्माभिः कस्याः निवारणं कर्तव्यम्?
- साम्प्रतं विश्वस्य महती समस्या का अस्ति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 4
- वायुप्रदूषणेन के के रोगाः भवन्ति?
- सम्पूर्णवायुमण्डलं कथं दूषितं जातम्?
- प्रदूषणस्य निवारणाय के उपायाः कर्तव्याः?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
ई. यथानिर्देशम् उत्तरत - 3
- ‘मलिनम्’ इति पदस्य विलोमपदं अनुच्छेदे किं प्रयुक्तम्?
(क) प्रदूषणम्
(ख) नित्यम्
(ग) विनाशम्
(घ) स्वच्छम् - “उद्योगानां विषाक्तं जलं जनाः नद्यां निपातयन्ति।” अत्र विशेष्यपदं किम्?
(क) विषाक्तम्
(ख) जलम्
(ग) जनाः
(घ) उद्योगानाम् - ‘प्रविशति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) श्वासेन
(ख) हृदयम्
(ग) प्रदूषणम्
(घ) वायुः
Chapter:
भवान् हितेशः। पितुः स्थानान्तरणवशात् भवान् असमप्रदेशात् दिल्लीनगरम् आगत्य नूतने विद्यालये प्रवेशं प्राप्तवान्। मञ्जूषायां दत्तानां पदानां सहायतया अस्य नगरस्य विद्यालयस्य च वर्णनं कुर्वन् मित्रं राघवेन्द्रं प्रति पत्रं लिखतु।
मञ्जूषा
| योग्याः शिक्षकाः, सहृदयाः छात्राः, पठनस्य वातावरणम्, दिल्लीनगरात्, ग्रीष्मः, ऐतिहासिकनगरम्, स्थानान्तरणम्, क्रीडाक्षेत्रम्, पुस्तकालयः, पर्यटनस्थानानि, प्रसन्नः। |
Chapter:
भवती सुमेधा तिरुपतिस्थे राजकीये माध्यमिकविद्यालये दशमीकक्षायां पठति। विद्यालयस्य शुल्कं दातुं भवती असमर्था अस्ति अतः मञ्जूषायां दत्तानां पदानां सहायतया शुल्कक्षमार्थं निवेदयन्ती प्रधानाचार्यां प्रति प्रार्थनापत्रं लिखतु।
मञ्जूषा
| मम पिता, वाहनचालकः, विद्यालये, सदस्याः, अङ्काः, भ्रातृभगिन्यः, माता, शुल्कम्, वेतनम्, अस्वस्था, असमर्थः, गतकक्षायाम्, प्रथमस्थानम्, अनुग्रहम्, सञ्चालनम्। |
Chapter:
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा
| ऐतिहासिकस्थलम्, रक्तदुर्गम्, पर्यटकाः, वैदेशिकाः, दर्शनाय, धारयन्ति, हरीतिमा, जनाः, मुखाच्छादकम्, भ्रमन्ति, जनसम्मर्दः, राष्ट्रिय-ध्वजः, रक्तपाषाणैः, रक्तवर्णः, प्राचीरः। |
Chapter:
मञ्जूषायां प्रदत्तशब्दानां साहाय्येन अधोलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत -
“मार्ग-सुरक्षा”
मञ्जूषा
| पदयात्रिणः, दुर्घटना, परिणामाः, अवधानेन, दक्षिणतः, रक्त-हरित-पीत-सङ्केतान्, नियमाः, चतुष्पथि, पालनीयाः, दृष्ट्वा, वामतः, वाहनचालनसमये, यातायातसङ्केताः। |
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
विज्ञान के इस युग में बहुत आविष्कार हुए।
In this era of science, numerous inventions have taken place.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
स्वस्थ शरीर में स्वस्थ मन होता है।
A healthy mind resides in a healthy body.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
रूस और युक्रेन के बीच युद्ध कब समाप्त होगा?
When will the war between Russia and Ukraine come to an end?
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
तुम्हारा स्वास्थ्य कैसा है?
How is your health?
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
कभी भी अहंकार मत करो।
Never be arrogant.
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
योजकस्तत्र दुर्लभः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
कर्तुं शक्यो भवेत् + येन स विवेक इतीरितः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
बुद्धिमती भयात् पुनः + अपि मुक्ताऽभवत्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
यानानां पङ्क्तयो हि अनन्ताः कठिनं संसरणम्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
कश्चित् खगः + एव वनराजः भविष्यति।
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
सः रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागत।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
सर्वे + अपि नैतादृशाः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
महादेवी करुणां करोतु।
महा देवी
महती च इयं देवी
महत् देवी
महान् देवी
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
समानशीलव्यसनेषु सख्यम्।
समानं शीलं व्यसनं येषां तेषु
समानं च शीलं च व्यसनं च
समान-शील-व्यसनैः सह
समानं शीलं व्यसनं यत्र समानम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्।
मलं मलं प्रति
मलस्य अभावः
मलस्य योग्यम्
मलेन सहितम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
ततः प्रविशतः तापसौ कुशलवौ।
कुशः च लवौ च
कुशलवयोः समाहारः
कुशः च लवः च
कुशौ च लवौ च
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
वाक्पटुः धैर्य + मतुप् मन्री सभायामप्यकातरः।
धैर्यमान्
धैर्यवती
धैर्यमन्तः
धैर्यवान्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
सा भामिन् + ङीप् व्याघ्रस्य भयात् विमुक्ता।
भामिनः
भामिनी
भामिन
भामिना
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः।
रोगी + टाप्
रुग् + ताम्
रुग्ण + तल्
रुग्ण + ताम्
Chapter:
किं कुपिता एवं भणति उत प्रकृतिस्था?
कुप् + क्त
कुप् + ठक्
कुप् + तल्
कुप् + मतुप्
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं वाक्यम् पुनः लिखत -
पित्रा आपणात् ______ आनीयन्ते।
फलानि
फलम्
फले
फलैः
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं वाक्यम् पुनः लिखत -
______ शाटिकां क्रीणामि।
मया
अहम्
अस्मभिः
आवाम्
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं वाक्यम् पुनः लिखत -
अहमत्र भवतोः जनकं नामतो वेदितुम् ______?
इष्यते
इष्यन्ते
इच्छामि
इच्छति
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
भाविका प्रातः ______ (4:00) वादने उत्तिष्ठति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तदनन्तरं सा ______ (05:15) वादने योगाभ्यासं करोति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
योगासनात् परं सा ______ (6:30) वादने स्नानं करोति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तदनन्तरं सा ______ (7:45) वादने विद्यालयं गच्छति।
Chapter:
Advertisements
प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ असत्यं वदिष्यति तर्हि उचितं न स्यात्।
इतस्ततः
अपि
यदि
Chapter:
प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
कर्महीनः जनः ______ भ्रमित्वा समयं यापयति।
इतस्ततः
अपि
यदि
Chapter:
प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
अहम् ______ तत्र गन्तुम् इच्छामि।
इतस्ततः
अपि
यदि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
ते वृक्षाणि हरिताः सन्ति।
वृक्षाः
वृक्षः
वृक्षे
वृक्षम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
पिता पुत्राय क्रुध्यन्ति।
क्रुध्यामि
क्रुध्यतः
क्रुध्यति
क्रुध्यसि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
बालकः ह्यः गच्छति।
गमिष्यति
गच्छतु
अगच्छत्
गच्छेत्
Chapter:
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे अपतत्। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषभः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् - “अयि शुभे! किमेवं रोदिषि?” सा च “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् - बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- वृषभः कुत्र अपतत्?
- सर्वधेनूनां माता का आसीत्?
- सुरभिः कस्य दैन्यं दष्ट्वा रोदिति सम?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- सुरभिः किमर्थं तस्मिन् पुत्रे एव विशिष्य आत्मवेदनामनुभवतिः?
- सुराधिपः सर्वप्रथमं सुरभिं किम् अपृच्छत्?
- सुरभेः नेत्राभ्यामश्रूणि किमर्थम् आविरासन्?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘अपत्यानि’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
- ‘अनुभवामि’ इत्यर्थे गद्यांशे कर्तृपदं किं प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत - 2
- ‘स्नेहः’ इत्यस्य किं पर्यायपदं गद्यांशात् चित्वा लिखत।
- “सः कृच्छ्रेण भारमुद्वहति।” अत्र ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
Chapter:
अधोलिखिते पद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥ यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च॥ |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- मानवः केभ्यः अहितं कर्म न कुर्यात्?
- आलस्यं कुत्र स्थितः भवति?
- मनुष्याणां बन्धुः कः अस्ति?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- यः जनः सुखानि इच्छति सः किं न कुर्यात्?
- किं कृत्वा मानवः दुःखी न भवति?
- मनुष्याणां महान् रिपुः कः अस्ति?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘प्रभूतानि’ इति पदस्य विशेष्यपदं किम् अस्ति?
- “यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।” अत्र क्रियापदं किम् अस्ति?
अथवा
(आ) निर्देशानुसारम् उत्तरत - 2
- अत्र ‘बन्धुः’ इत्यस्य किं विलोमपदं प्रयुक्तम्?
- ‘अस्ति’ इति क्रियापदस्य कर्तृपदं चित्वा लिखत।
Chapter:
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| एवमेव वानराः वारं वारं सिंहं तुदन्ति। कुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति - | |
| सिंहः | (क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते? किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा? |
| एकः वानरः | यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं भवान् तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि? |
| अन्यः वानरः | किं न श्रुता त्वया पञ्चतत्रोक्तिः- यो न रक्षति वित्रस्तान् पीड्र्यमानान्परैः सदा। जन्तून पार्थिवरूपेण स कृतान्तो न संशयः॥ |
| काकः | आम्, सत्यं कथितं त्वया। वस्तुतः वनराजः भवितुम् अहमेव योग्यः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- अत्र कः आत्मान वनराजः भवितुं योग्यः मन्यते?
- वनराजस्य दुरवस्थां दृष्ट्वा के कलरवं कुर्वन्ति?
- के वारं वारं सिंहं तुदन्ति?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- अत्र वानरः सिंहं किमर्थं वनराजः भवितुं सर्वथाऽयोग्यं मन्यते?
- कः पार्थिवरूपेण कृतान्तः मन्यते?
- कुद्धः सिंहः किमर्थम् इतस्ततः धावति गर्जति च?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘कलरवम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
- ‘जायते’ इति क्रियापदस्य किं कर्तृपदं नाट्यांशे प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘रक्षकः’ इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत।
- “किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा?” अत्र ‘माम्’ इति सर्वनामपदं कस्मै युक्तम्?
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
चातकः पुरन्दरं जलं याचते।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
बुद्धिमती पितुः गृहं प्रति चलिता।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
व्याघ्रमारी तूर्णं धाविता।
Chapter:
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -
|
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥ करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। |
अन्वयः - वायुमण्डलम् (i) ______ दूषितम् (अस्ति)। जलम् हि निर्मलम् न (अस्ति) (ii) ______ कुत्सितवस्तुमिश्रितं (अस्ति) धरातलम् समलम् (अस्ति)। (iii) ______ बहिः अन्तः (च) तु बहु शुद्धीकरणम् (iv) ______ (अस्ति)।
मञ्जूषा
| जगति, करणीयम्, भक्ष्यम्, भृशम्। |
Chapter:
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
|
आपेदिरेऽम्बरपथं परितः पतङ्गाः भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सङ्कोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु॥ |
भावार्थः - हे सरोवर! (i) ______ सङ्कुचिते सति अर्थात् यदा त्वं शुष्कं जायमानः अस्ति तदा तव समीपस्थाः खगाः आकाशमार्गेण अन्यत्र गच्छन्ति। (ii) ______ आम्रपुष्पाणाम् आश्रयं स्वीकुर्वन्ति, किन्तु त्वयि स्थिताः दीनाः (iii) ______ कुत्र गच्छेयुः? ते तु अत्रैव स्थास्यन्ति अन्यत्र कुत्रापि न (iv) ______। आपत्काले स्वामिभक्ता एव सह तिष्ठन्ति अन्ये स्वार्थिनः मैत्रीं त्यजन्ति।
मञ्जुषा
| भ्रमराः, गमिष्यन्ति, मत्स्याः, त्वयि। |
Chapter:
अधोलिखित-कथांशं समुचित-क्रमेण लिखत -
- चौरस्य पदध्वनिना अतिथिः प्रबुद्धः अभवत् धावित्वा तं चौरम् अगृह्वाच्च।
- न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य अतिथिं ससम्मानं मुक्तवान्।
- कश्चन निर्धनः जनः रुग्णं पुत्रं द्रुष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
- मार्गे रात्रौ सः कस्यचित् गृहे आश्रयं प्राप्तवान्।
- न्यायाधीशः पृथक्-पृथक् विवरणं श्रुतवान् किन्तु प्रमाणाभावात् निर्णेतुं नाशक्नोत्।
- तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
- न्यायाधीशः पुनः तौ घटनायाः विषये वक्तुम् आदिष्टवान्।
- आरक्षी एव तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागारे प्राक्षिपत्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चित्वा लिखत -
मां निजगले बद्ध्वा चल स॒त्वरम्।
सर्वम्
सत्वम्
दूरम्
शीघ्रम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चित्वा लिखत -
अन्येषां वदने ये तु ते चक्षुर्नामनी मते।
वादने
मुखे
सम्भाषणे
वचने
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थं चित्वा लिखत -
उदीरितः अर्थः पशुना अपि गृह्यते।
चिन्तितः
विचारितः
कथितः
विस्मृतः
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit with solutions 2025 - 2026
Previous year Question paper for CBSE Class 10 -2026 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
