हिंदी

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। एवमेव वानराः वारं वारं सिंहं तुदन्ति। कुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

एवमेव वानराः वारं वारं सिंहं तुदन्ति। कुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून्‌ दृष्ट्वा पृच्छति -
सिंहः  (क्रोधेन गर्जन्‌) भोः! अहं वनराजः किं भयं न जायते? किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा?
एकः वानरः यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं भवान्‌ तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान्‌ रक्षिष्यसि?
अन्यः वानरः किं न श्रुता त्वया पञ्चतत्रोक्तिः-
यो न रक्षति वित्रस्तान्‌ पीड्र्यमानान्परैः सदा।
जन्तून पार्थिवरूपेण स कृतान्तो न संशयः॥
काकः आम्‌, सत्यं कथितं त्वया। वस्तुतः वनराजः भवितुम्‌ अहमेव योग्यः।

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)    1

  1. अत्र कः आत्मान वनराजः भवितुं योग्यः मन्यते?
  2. वनराजस्य दुरवस्थां दृष्ट्वा के कलरवं कुर्वन्ति?
  3. के वारं वारं सिंहं तुदन्ति?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)    2

  1. अत्र वानरः सिंहं किमर्थं वनराजः भवितुं सर्वथाऽयोग्यं मन्यते?
  2. कः पार्थिवरूपेण कृतान्तः मन्यते?
  3. कुद्धः सिंहः किमर्थम्‌ इतस्ततः धावति गर्जति च?

III. (अ) निर्देशानुसारम्‌ उत्तरत -     2

  1. ‘कलरवम्‌’ इति पदस्य विशेषणपदं किं प्रयुक्तम्‌?
  2. ‘जायते’ इति क्रियापदस्य किं कर्तृपदं नाट्यांशे प्रयुक्तम्‌?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -

  1. ‘रक्षकः’ इति पदस्य विपर्ययपदं नाट्यांशात्‌ चित्वा लिखत।
  2. “किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा?” अत्र ‘माम्‌’ इति सर्वनामपदं कस्मै युक्तम्‌?
आकलन
Advertisements

उत्तर

I. 

  1. काकः
  2. पक्षिणः
  3. वानराः

II. 

  1. वानरः सिंहं वनराजः भवितु सर्वथाऽयोग्यं मन्यते यतोहि सः भक्षकः अस्ति, इतोऽपि सःआत्मरक्षायाम्‌ असमर्थोऽपि अस्ति।
  2. यः परैः पीड्यमानान्‌ वित्रस्तान्‌ न रक्षति सः पार्थिवरूपेण कृतान्तः मन्यते।
  3. वानराः वारं वारं सिंहं तुदन्ति अतः किमपि कर्तुम्‌ असमर्थः कुद्धः सः इतस्ततः धावति।

III. (अ) 

  1. हर्षमिश्रितम्‌
  2. भयम्‌

अथवा

(आ) 

  1. भक्षकः
  2. सिंहाय
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×