Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| एवमेव वानराः वारं वारं सिंहं तुदन्ति। कुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति - | |
| सिंहः | (क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते? किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा? |
| एकः वानरः | यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं भवान् तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि? |
| अन्यः वानरः | किं न श्रुता त्वया पञ्चतत्रोक्तिः- यो न रक्षति वित्रस्तान् पीड्र्यमानान्परैः सदा। जन्तून पार्थिवरूपेण स कृतान्तो न संशयः॥ |
| काकः | आम्, सत्यं कथितं त्वया। वस्तुतः वनराजः भवितुम् अहमेव योग्यः। |
I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- अत्र कः आत्मान वनराजः भवितुं योग्यः मन्यते?
- वनराजस्य दुरवस्थां दृष्ट्वा के कलरवं कुर्वन्ति?
- के वारं वारं सिंहं तुदन्ति?
II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- अत्र वानरः सिंहं किमर्थं वनराजः भवितुं सर्वथाऽयोग्यं मन्यते?
- कः पार्थिवरूपेण कृतान्तः मन्यते?
- कुद्धः सिंहः किमर्थम् इतस्ततः धावति गर्जति च?
III. (अ) निर्देशानुसारम् उत्तरत - 2
- ‘कलरवम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्?
- ‘जायते’ इति क्रियापदस्य किं कर्तृपदं नाट्यांशे प्रयुक्तम्?
अथवा
(आ) निर्देशानुसारम् उत्तरत -
- ‘रक्षकः’ इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत।
- “किमर्थ मामेवं तुदन्ति सर्वे मिलित्वा?” अत्र ‘माम्’ इति सर्वनामपदं कस्मै युक्तम्?
आकलन
Advertisements
उत्तर
I.
- काकः
- पक्षिणः
- वानराः
II.
- वानरः सिंहं वनराजः भवितु सर्वथाऽयोग्यं मन्यते यतोहि सः भक्षकः अस्ति, इतोऽपि सःआत्मरक्षायाम् असमर्थोऽपि अस्ति।
- यः परैः पीड्यमानान् वित्रस्तान् न रक्षति सः पार्थिवरूपेण कृतान्तः मन्यते।
- वानराः वारं वारं सिंहं तुदन्ति अतः किमपि कर्तुम् असमर्थः कुद्धः सः इतस्ततः धावति।
III. (अ)
- हर्षमिश्रितम्
- भयम्
अथवा
(आ)
- भक्षकः
- सिंहाय
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
