मराठी

अधोलिखिते पद्ये पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - आलस्यं हि मनुष्याणां शरीरस्थो महान्‌ रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखिते पद्ये पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

आलस्यं हि मनुष्याणां शरीरस्थो महान्‌ रिपुः।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

  1. मानवः केभ्यः अहितं कर्म न कुर्यात्‌?
  2. आलस्यं कुत्र स्थितः भवति?
  3. मनुष्याणां बन्धुः कः अस्ति?

II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)         2

  1. यः जनः सुखानि इच्छति सः किं न कुर्यात्‌?
  2. किं कृत्वा मानवः दुःखी न भवति?
  3. मनुष्याणां महान्‌ रिपुः कः अस्ति?

III. (अ) निर्देशानुसारम्‌ उत्तरत -       2

  1. ‘प्रभूतानि’ इति पदस्य विशेष्यपदं किम्‌ अस्ति?
  2. “यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।” अत्र क्रियापदं किम्‌ अस्ति?

अथवा

(आ) निर्देशानुसारम्‌ उत्तरत -       2

  1. अत्र ‘बन्धुः’ इत्यस्य किं विलोमपदं प्रयुक्तम्‌?
  2. ‘अस्ति’ इति क्रियापदस्य कर्तृपदं चित्वा लिखत।
आकलन
Advertisements

उत्तर

I. 

  1. परेभ्यः
  2. शरीरे/मानवशरीरे/शरीरस्थः
  3. उद्यमः

II. 

  1. यः जनः सुखानि इच्छति सः कदापि परेभ्यः अहितं कर्म न कुर्यात्‌।
  2. उद्यमं/परिश्रमं कृत्वा मानवः दुःखी न भवति।
  3. मनुष्याणां महान्‌ रिपुः आलस्यम्‌ अस्ति।

III. (अ) 

  1. सुखानि 
  2. इच्छति

अथवा

(आ) 

  1. रिपुः
  2. बन्धुः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×