Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
| भारतदेशः कृषिप्रधानः देशः अस्ति अतः भारतीयसमाजे कृषकः प्रमुखतमः स्तम्भः इव स्थितः अस्ति। कृषकाः प्रातःकाले एव उत्थाय घर्मवृष्टिशीतवातादीन् सहमानाः अनवरतं परिश्रमं कुर्वन्ति। ते भूमेः गर्भे बीजानि आरोपयन्ति, तदनन्तरं वृषभैः यन्त्रैः च भूमेः सम्यक् कर्षणं कृत्वा सिञ्चनकार्ये संलग्नाः भवन्ति। वर्षकाले मेघानां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति। शरद्-ऋतौ सुवर्णवर्णैः शस्यशालिभिः क्षेत्राणि रमणीयानि दृश्यन्ते। यद्यपि कृषकस्य श्रमेण राष्ट्रस्य अन्नपूरणं, वस्त्रपूरणं जीवनधारणं च साध्यते, तथापि कृषकः स्वयं दारिद्रयपीडितं जीवनं यापयति। कदापि अतिवृष्ट्या अनावृष्ट्या वा सम्पूर्णं शस्यं विनश्यति, विपणौ अपि सः न्यूनमूल्यं लभते ऋणभारः च कृषकान् दुःखेन पीडयति। तथापि कृषकाः धैर्यं न त्यजन्ति, अपितु पूर्णनिष्ठया स्वकर्म कुर्वन्तः समाजस्य पालनं कुर्वन्ति। एतदर्थम् ‘अन्नदाता’ इति विशेषणेन कृषकः सम्माननीयः। यदि कृषकाः न स्युः, तर्हि मानवसमाजस्य जीवितं असम्भवमेव भवेत्। अतः वयं कृषकाणां श्रमस्य, त्यागभावनायाः, धैर्यस्य च सम्मानं कुर्याम। राष्ट्रस्य मेरुदण्डः, समाजस्य जीवनप्राणः, संस्कृतेः रक्षकाः च कृषकाः एव। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- भारतदेशः कीदृशः देशः अस्ति?
- केन विशेषणेन कृषकः सम्माननीयः?
- वर्षाकाले केषां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति?
(आ) पूर्णवाक्येन उत्तरतः (केवलं प्रश्नद्वयम्) 4
- किं किं कृषकान् दुःखेन पीडयति?
- कृषकाः कदा सिज्चनकार्ये संलग्नाः भवन्ति?
- वयं कस्य सम्मानं कुर्याम?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरतः (केवलं प्रश्नत्रयम्) 3
- ‘कृषकः स्वयं दारिद्रयपीडितजीवनं यापयति’ अत्र किं क्रियापदम्?
- कृषकः
- स्वयम्
- यापयति
- दारिद्रयपीडितजीवनं
- ‘अनवरतम्’ इति विशेषणपदस्य विशेष्यपदं किम्?
- कृषकः
- परिश्रमं
- रक्षकाः
- न्यनमूल्यम्
- ‘वर्षा’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- वृष्टिः
- घर्मः
- मेघानाम्
- शस्यम्
- ‘ते भूमेः गर्भे बीजानि आरोपयन्ति’ अत्र किं कर्तृपदम्?
- भूमेः
- ते
- गर्भे
- बीजानि
Comprehension
Advertisements
Solution
(अ)
- कृषिप्रधानः
- अन्नदाता
- मेघानां
(आ)
- अतिवृष्ट्या अनावृष्ट्या वा सम्पूर्णं शस्यं विनश्यति, विपणौ अपि सः न्यूनमूल्यं लभते ऋणभारः च कृषकान् दुःखेन पीडयति।
- ते भूमेः गर्भे बीजानि आरोपयन्ति, तदनन्तरं वृषभैः यन्त्रैः च भूमेः सम्यक् कर्षणं कृत्वा सिञ्चनकार्ये संलग्नाः भवन्ति।
- वयं कृषकाणां श्रमस्य, त्यागभावनायाः, धैर्यस्य च सम्मानं कुर्याम।
(इ) कृषकः/अन्नदाता
(ई)
- यापयति
- परिश्रमं
- वृष्टिः
- ते
shaalaa.com
Is there an error in this question or solution?
