English

भवान् पीयुषः स्वपितरं प्रति पत्रं लिखति। एतत्‌ पत्रं मञ्जूषायाः उचितैः पदैः पूरयित्वा पुनः लिखतः गङ्गा-छात्रावासः,(i) ______ पूज्याः पितृमहोदयाः, (ii) ______। अत्र सर्वगतं (iii) ______। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

भवान् पीयुषः स्वपितरं प्रति पत्रं लिखति। एतत्‌ पत्रं मञ्जूषायाः उचितैः पदैः पूरयित्वा पुनः लिखतः

गङ्गा-छात्रावासः,
(i) ______       

पूज्याः पितृमहोदयाः,

(ii) ______।

अत्र सर्वगतं (iii) ______। आशासे त्वम्‌ अपि कुशली। मया गतसप्ताहे एव भवतः पत्रं प्राप्तम्‌। इदं ज्ञात्वा अहम्‌ अतिप्रसन्नः अस्मि यद्‌ सम्प्रति मातुः स्वास्थ्यम्‌ उत्तमं जातम्‌। अहमपि भवन्तं मम उपलब्धीनां विषये सूचयितुम्‌ इच्छामि। हयः अन्तर्विद्यालयीय-गायनप्रतियोगितायाम्‌ अहं (iv) ______ स्थानं प्राप्तवान्‌। क्रीडादिवसे अपि धावनप्रतियोगितायाम्‌ अहमेव प्रथमः आसम्‌। अस्मिन्‌ वर्षे वार्षिकोत्सवेऽपि अहं नाट्याभिनयं (v) ______। अयं वार्षिकोत्सवः शनिवासरे (vi) ______ विद्यालयस्य पक्षतः ह्यः एव (vii) ______ प्रेषितम्‌। अहमपि (viii) ______ प्रार्थयामि यत्‌ भवान्‌ मात्रा सह अवश्यम्‌ आगच्छतु। मम (ix) ______ भविष्यति। अहं प्रतीक्षां करिष्यामि।

मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः

(x) ______।

मञ्जूषा

भवन्तम्‌, करिष्यामि, पीयूषः, उत्साहवर्धनम्‌, सादरचरणस्पर्शः, आयोजयिष्यते, प्रथमम्‌, कुशलम्‌, निमन्त्रणपत्रम्‌, नवदिल्लीतः।
Writing Skills
Advertisements

Solution

गङ्गा-छात्रावासः,
(i) नवदिल्लीतः

पूज्याः पितृमहोदयाः,

(ii) सादरचरणस्पर्शः

अत्र सर्वगतं (iii) कुशलम्‌। आशासे त्वम्‌ अपि कुशली। मया गतसप्ताहे एव भवतः पत्रं प्राप्तम्‌। इदं ज्ञात्वा अहम्‌ अतिप्रसन्नः अस्मि यद्‌ सम्प्रति मातुः स्वास्थ्यम्‌ उत्तमं जातम्‌। अहमपि भवन्तं मम उपलब्धीनां विषये सूचयितुम्‌ इच्छामि। हयः अन्तर्विद्यालयीय-गायनप्रतियोगितायाम्‌ अहं (iv) प्रथमम्‌ स्थानं प्राप्तवान्‌। क्रीडादिवसे अपि धावनप्रतियोगितायाम्‌ अहमेव प्रथमः आसम्‌। अस्मिन्‌ वर्षे वार्षिकोत्सवेऽपि अहं नाट्याभिनयं (v) करिष्यामि। अयं वार्षिकोत्सवः शनिवासरे (vi) आयोजयिष्यते विद्यालयस्य पक्षतः ह्यः एव (vii) निमन्त्रणपत्रम्‌ प्रेषितम्‌। अहमपि (viii) भवन्तम्‌ प्रार्थयामि यत्‌ भवान्‌ मात्रा सह अवश्यम्‌ आगच्छतु। मम (ix) उत्साहवर्धनम्‌ भविष्यति। अहं प्रतीक्षां करिष्यामि।

मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः

(x) पीयूषः

shaalaa.com
  Is there an error in this question or solution?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×