मराठी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: भारतदेशः कृषिप्रधानः देशः अस्ति अतः भारतीयसमाजे कृषकः प्रमुखतमः स्तम्भः इव स्थितः अस्ति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: 

भारतदेशः कृषिप्रधानः देशः अस्ति अतः भारतीयसमाजे कृषकः प्रमुखतमः स्तम्भः इव स्थितः अस्ति। कृषकाः प्रातःकाले एव उत्थाय घर्मवृष्टिशीतवातादीन्‌ सहमानाः अनवरतं परिश्रमं कुर्वन्ति। ते भूमेः गर्भे बीजानि आरोपयन्ति, तदनन्तरं वृषभैः यन्त्रैः च भूमेः सम्यक्‌ कर्षणं कृत्वा सिञ्चनकार्ये संलग्नाः भवन्ति। वर्षकाले मेघानां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति। शरद्‌-ऋतौ सुवर्णवर्णैः शस्यशालिभिः क्षेत्राणि रमणीयानि दृश्यन्ते। यद्यपि कृषकस्य श्रमेण राष्ट्रस्य अन्नपूरणं, वस्त्रपूरणं जीवनधारणं च साध्यते, तथापि कृषकः स्वयं दारिद्रयपीडितं जीवनं यापयति। कदापि अतिवृष्ट्या अनावृष्ट्या वा सम्पूर्णं शस्यं विनश्यति, विपणौ अपि सः न्यूनमूल्यं लभते ऋणभारः च कृषकान्‌ दुःखेन पीडयति। तथापि कृषकाः धैर्यं न त्यजन्ति, अपितु पूर्णनिष्ठया स्वकर्म कुर्वन्तः समाजस्य पालनं कुर्वन्ति। एतदर्थम्‌ ‘अन्नदाता’ इति विशेषणेन कृषकः सम्माननीयः। यदि कृषकाः न स्युः, तर्हि मानवसमाजस्य जीवितं असम्भवमेव भवेत्‌। अतः वयं कृषकाणां श्रमस्य, त्यागभावनायाः, धैर्यस्य च सम्मानं कुर्याम। राष्ट्रस्य मेरुदण्डः, समाजस्य जीवनप्राणः, संस्कृतेः रक्षकाः च कृषकाः एव।

(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्‌) 2

  1. भारतदेशः कीदृशः देशः अस्ति? 
  2. केन विशेषणेन कृषकः सम्माननीयः?
  3. वर्षाकाले केषां प्रसादेन धान्यलक्ष्मीरिव भूमिः सुशोभिता भवति?

(आ) पूर्णवाक्येन उत्तरतः (केवलं प्रश्नद्वयम्‌) 4

  1. किं किं कृषकान्‌ दुःखेन पीडयति?
  2. कृषकाः कदा सिज्चनकार्ये संलग्नाः भवन्ति?
  3. वयं कस्य सम्मानं कुर्याम?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1

(ई) यथानिर्देशम्‌ उत्तरतः (केवलं प्रश्नत्रयम्‌) 3

  1. ‘कृषकः स्वयं दारिद्रयपीडितजीवनं यापयति’ अत्र किं क्रियापदम्‌?
    1. कृषकः
    2. स्वयम्‌
    3. यापयति
    4. दारिद्रयपीडितजीवनं
  2. ‘अनवरतम्‌’ इति विशेषणपदस्य विशेष्यपदं किम्‌? 
    1. कृषकः
    2. परिश्रमं
    3. रक्षकाः
    4. न्यनमूल्यम्‌
  3. ‘वर्षा’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
    1. वृष्टिः 
    2. घर्मः
    3. मेघानाम्‌ 
    4. शस्यम्‌
  4. ‘ते भूमेः गर्भे बीजानि आरोपयन्ति’ अत्र किं कर्तृपदम्‌?
    1. भूमेः
    2. ते
    3. गर्भे
    4. बीजानि
आकलन
Advertisements

उत्तर

(अ) 

  1. कृषिप्रधानः
  2. अन्नदाता
  3. मेघानां

(आ) 

  1. अतिवृष्ट्या अनावृष्ट्या वा सम्पूर्णं शस्यं विनश्यति, विपणौ अपि सः न्यूनमूल्यं लभते ऋणभारः च कृषकान्‌ दुःखेन पीडयति।
  2. ते भूमेः गर्भे बीजानि आरोपयन्ति, तदनन्तरं वृषभैः यन्त्रैः च भूमेः सम्यक्‌ कर्षणं कृत्वा सिञ्चनकार्ये संलग्नाः भवन्ति।
  3. वयं कृषकाणां श्रमस्य, त्यागभावनायाः, धैर्यस्य च सम्मानं कुर्याम।

(इ) कृषकः/अन्नदाता

(ई) 

  1. यापयति
  2. परिश्रमं
  3. वृष्टिः 
  4. ते
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2025-2026 (March) Official Board Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×