Advertisements
Advertisements
Question
अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -
| अनुशासनं जीवनाय अनिवार्यं तत्त्वम् अस्ति। व्यावहारिकजीवने अनुशासनस्य अतीव महत्त्वं विद्यते। किं नाम अनुशासनम् इति जिज्ञासायाम् अयमेव व्यावहारिकः अर्थः मनसि आगच्छति यत् निर्धारितानां नियमानां पालनं, मातुः, पितुः, गुरूणां ज्येष्ठानां च आज्ञापालनम् एव अनुशासनं भवति। अनुशासनस्य पालनेन न केवलं जीवनं व्यवस्थितं भवति अपितु अतिकठिनानि लक्ष्याणि अपि सरलतया प्राप्तानि भवन्ति। अनुशासनशीलाः जनाः जीवने सर्वत्र सफलतां सम्मानं च प्राप्नुवन्ति। प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति। यथा - सूर्यः निश्चिते समये उदितः भवति निर्धारिते च समये एव अस्तं गच्छति। संसारे ये केचन सुप्रसिद्धाः महापुरुषाः अभवन् ते सर्वे अनुशासनप्रियाः आसन्। सर्वे मानवाः यदि गृहे, कार्यस्थले, मार्गे, समाजे च अनुशासनं पालयेयुः तर्हि सर्वमपि सुव्यवस्थितं भवेत्। अतः इदम् अनिवार्यम् अस्ति यत् सर्वे जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु। |
(अ) एकपदेन उत्तरत-
- सुप्रसिद्धाः महापुरुषाः कीदृशाः आसन्?
- जीवनाय अनिवार्यं तत्त्वं किम् अस्ति?
- कः निश्चिते समये उदितः भवति?
(आ) पूर्णवाक्येन लिखत-
- सर्वमपि सुव्यवस्थितं कथं भवेत्?
- अनुशासनं किं भवति?
- अनुशासनशीलाः जनाः जीवने किं प्राप्नुवन्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) यथानिर्देशम् उत्तरत-
- ‘प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति।’ अत्र क्रियापदं किम् अस्ति?
(क) प्रकृतेः (ख) सर्वदा (ग) तत्त्वानि (घ) पालयन्ति - ‘निर्धारिते’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
(क) भवति (ख) अस्तम् (ग) समये (घ) निश्चिते - ‘आदरम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) सम्मानम् (ख) आज्ञापालनम् (ग) सफलताम् (घ) अनिवार्यम् - ‘जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु।’ वाक्येऽस्मिन् ‘कुर्वन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अनुशासनस्य (ख) जनाः (ग) बाल्यादेव (घ) पालनम्
Comprehension
Advertisements
Solution
(अ)
- अनुशासनप्रियाः।
- अनुशासनम्।
- सूर्यः।
(आ)
- यदि सर्वे मानवाः गृहे, कार्यस्थले, मार्गे, समाजे च अनुशासनं पालयेयुः, तर्हि सर्वमपि सुव्यवस्थितं भवेत्।
- निर्धारितानां नियमानां पालनं, मातुः पितुः गुरूणां ज्येष्ठानां च आज्ञापालनम् एव अनुशासनं भवति।
- सफलतां सम्मानं च प्राप्नुवन्ति।
(इ) अनुशासनस्य महत्त्वम्।
(ई)
- पालयन्ति
- समये
- सम्मानम्
- जनाः
shaalaa.com
Is there an error in this question or solution?
