English

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - संस्कृतभाषायाम् एव विश्वस्य प्राचीनतमः आलेखः ऋग्वेदः निबद्धः। अस्यां भाषायां भारतीय-संस्कृतेः मूलाधारभूतानि रामायणं,

Advertisements
Advertisements

Question

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

संस्कृतभाषायाम् एव विश्वस्य प्राचीनतमः आलेखः ऋग्वेदः निबद्धः। अस्यां भाषायां भारतीय-संस्कृतेः मूलाधारभूतानि रामायणं, महाभारतं पुराणानि चापि प्राप्यन्ते। चत्वारो वेदाः, सर्वा उपनिषदः, अष्टादशपुराणानि अन्यानि च महाकाव्यनाट्यादीनि अस्यामेव भाषायां लिखितानि सन्ति। इयं सा भाषा यस्यां निबद्धाः विचाराः प्राचीनकालात् आरभ्य आधुनिककालं यावत् सततम् अखिलं विश्वं प्रभावितं कुर्वन्ति। वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति। श्रीमद्भगवद्गीतायाः सन्देशः विश्वस्य जनेषु विविधभाषानुवादमाध्यमेन प्रख्यातः। विश्वस्य अनेकेषु विश्वविद्यालयेषु संस्कृतस्य भिन्नशाखानाम् अध्ययनार्थं विभागाः सन्ति। इयं देवभाषा सम्पूर्णं विश्वे भारतवर्षस्य गौरवं वर्धयति। विद्यमानेषु निखिलेषु अपि वाङ्मयेषु संस्कृतभाषायाः वाङ्मयं सर्वश्रेष्ठं सुसम्पन्नं च वर्तते। धन्योऽयं भारतदेशः यत्र सुरभारती समुल्लसति।

(अ) एकपदेन उत्तरत-

  1. विश्वस्य प्राचीनतमः आलेखः कः?
  2. संस्कृतं कस्य गौरवं वर्धयति?
  3. अनेकेषु विश्वविद्यालयेषु कस्य अध्ययनस्य कृते विभागाः सन्ति?

(आ) पूर्णवाक्येन उत्तरत-

  1. संस्कृतभाषायां किं किं प्राप्यते?
  2. श्रीमद्भगवद्गीतायाः सन्देशः कथं प्रख्यातः?
  3. मानवेभ्यः किं प्रेरणादायकम् अस्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) यथानिर्देशम् उत्तरत-

  1. ‘सन्ति’ इति क्रियापदस्य किं कर्तृपदम्?
    (क) संस्कृतस्य (ख) अनेके (ग) विश्वस्य (घ) विभागाः
  2. ‘विश्वम्’ इति पदस्य किं विशेषणपदम्?
    (क) अखिलम् (ख) सम्पूर्णम् (ग) संस्कृतम् (घ) सततम्
  3. ‘निरन्तरम्’ इत्यर्थं किं पदं गद्यांशे प्रयुक्तम्?
    (क) सततम् (ख) विश्वम् (ग) अखिलम् (घ) संस्कृतम्
  4. ‘वेदानां ज्ञानं विश्वस्य मानवेभ्यः प्रेरणादायकम् अस्ति।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?
    (क) ज्ञानम् (ख) मानवेभ्यः (ग) प्रेरणादायकम् (घ) अस्ति
Comprehension
Advertisements

Solution

(अ) 

  1. ऋग्वेदः।
  2. भारतवर्षस्य।
  3. संस्कृतस्य।

(आ) 

  1. रामायणं, महाभारतं, पुराणानि, चत्वारः वेदाः, उपनिषदः, महाकाव्यनाट्यादीनि च प्राप्यन्ते।
  2. विविधभाषानुवादमाध्यमेन विश्वस्य जनेषु प्रख्यातः।
  3. वेदानां ज्ञानम्।

(इ) संस्कृतभाषायाः महत्त्वम्।

(ई) 

  1. विभागाः
  2. अखिलम्
  3. सततम्
  4. अस्ति
shaalaa.com
  Is there an error in this question or solution?
Chapter 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [Page 178]

APPEARS IN

CBSE Sanskrit Manika Prathamo Bhag Class 9
Chapter 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 4. | Page 178
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×