हिंदी

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत - अनुशासनं जीवनाय अनिवार्यं तत्त्वम् अस्ति। व्यावहारिकजीवने अनुशासनस्य अतीव महत्त्वं विद्यते। किं नाम अनुशासनम् इति जिज्ञासायाम् अयमेव व्यावहारिकः

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तान् अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत -

अनुशासनं जीवनाय अनिवार्यं तत्त्वम् अस्ति। व्यावहारिकजीवने अनुशासनस्य अतीव महत्त्वं विद्यते। किं नाम अनुशासनम् इति जिज्ञासायाम् अयमेव व्यावहारिकः अर्थः मनसि आगच्छति यत् निर्धारितानां नियमानां पालनं, मातुः, पितुः, गुरूणां ज्येष्ठानां च आज्ञापालनम् एव अनुशासनं भवति। अनुशासनस्य पालनेन न केवलं जीवनं व्यवस्थितं भवति अपितु अतिकठिनानि लक्ष्याणि अपि सरलतया प्राप्तानि भवन्ति। अनुशासनशीलाः जनाः जीवने सर्वत्र सफलतां सम्मानं च प्राप्नुवन्ति। प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति। यथा - सूर्यः निश्चिते समये उदितः भवति निर्धारिते च समये एव अस्तं गच्छति। संसारे ये केचन सुप्रसिद्धाः महापुरुषाः अभवन् ते सर्वे अनुशासनप्रियाः आसन्। सर्वे मानवाः यदि गृहे, कार्यस्थले, मार्गे, समाजे च अनुशासनं पालयेयुः तर्हि सर्वमपि सुव्यवस्थितं भवेत्। अतः इदम् अनिवार्यम् अस्ति यत् सर्वे जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु।

(अ) एकपदेन उत्तरत-

  1. सुप्रसिद्धाः महापुरुषाः कीदृशाः आसन्?
  2. जीवनाय अनिवार्यं तत्त्वं किम् अस्ति?
  3. कः निश्चिते समये उदितः भवति?

(आ) पूर्णवाक्येन लिखत-

  1. सर्वमपि सुव्यवस्थितं कथं भवेत्?
  2. अनुशासनं किं भवति?
  3. अनुशासनशीलाः जनाः जीवने किं प्राप्नुवन्ति?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

(ई) यथानिर्देशम् उत्तरत-

  1. ‘प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासनं पालयन्ति।’ अत्र क्रियापदं किम् अस्ति?
    (क) प्रकृतेः (ख) सर्वदा (ग) तत्त्वानि (घ) पालयन्ति
  2. ‘निर्धारिते’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम्?
    (क) भवति (ख) अस्तम् (ग) समये (घ) निश्चिते
  3. ‘आदरम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
    (क) सम्मानम् (ख) आज्ञापालनम् (ग) सफलताम् (घ) अनिवार्यम्
  4. ‘जनाः बाल्यादेव अनुशासनस्य पालनं कुर्वन्तु।’ वाक्येऽस्मिन् ‘कुर्वन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) अनुशासनस्य (ख) जनाः (ग) बाल्यादेव (घ) पालनम्
आकलन
Advertisements

उत्तर

(अ) 

  1. अनुशासनप्रियाः।
  2. अनुशासनम्।
  3. सूर्यः।

(आ) 

  1. यदि सर्वे मानवाः गृहे, कार्यस्थले, मार्गे, समाजे च अनुशासनं पालयेयुः, तर्हि सर्वमपि सुव्यवस्थितं भवेत्।
  2. निर्धारितानां नियमानां पालनं, मातुः पितुः गुरूणां ज्येष्ठानां च आज्ञापालनम् एव अनुशासनं भवति।
  3. सफलतां सम्मानं च प्राप्नुवन्ति।

(इ) अनुशासनस्य महत्त्वम्।

(ई) 

  1. पालयन्ति
  2. समये
  3. सम्मानम् 
  4. जनाः
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 28: अपठितावबोधनम्‌ - अपठितावबोधनम् [पृष्ठ १७९]

APPEARS IN

सीबीएसई Sanskrit Manika Prathamo Bhag Class 9
अध्याय 28 अपठितावबोधनम्‌
अपठितावबोधनम् | Q 5. | पृष्ठ १७९
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×