English Medium
Hindi Medium
Academic Year: 2024-2025
Date & Time: 22nd February 2025, 10:30 am
Duration: 3h
Advertisements
General Instructions:
- This question paper is divided into 4 (Four) sections. It has total 18 questions.
- Section A - 1 Question no. 1to 1
- Section B - 3 Questions no. 2 to 4
- Section C - 7 Questions no. 5 to 11
- Section D - 7 Questions no. 12 to 18
- Attempt questions as per specific instructions.
- Write question no. in answer book before attempting it.
सामान्यनिर्देश:
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डा: सन्ति । अस्मिन् प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति।
- खण्डः ‘क’ - 1 - प्रश्नसंख्या 1
- खण्डः ‘ख’ - 3 - प्रश्नसंख्या 2 - 4
- खण्डः ‘ग’ - 7 - प्रश्नसंख्या 5 - 11
- खण्डः ‘घ’ - 7 - प्रश्नसंख्या 12 - 15
- विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः ।
- उत्तरपुस्तिकायां लेखनात् पूर्वं सर्वप्रथमं प्रश्नसंख्या लेखनीया ।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
परोपकारः अर्थात् परेषाम् उपकारः अस्ति। परोपकारस्य प्रवृत्या एव मनुष्यः पशुभ्यः पृथक् भवति। आहारादिप्रवृत्तिषु पशवः मानवैः समं भवन्ति, परं मानवः स्वविवेकेन ज्ञानेन च आत्मनः उन्नतिं करोति। अपि च, न केवलं मानवाः अपितु अस्माकं प्रकृतिः अपि परेभ्यः एव अस्ति। यथा वृक्षाः स्वफलानि न खादन्ति, ते परेषां कृते एव फलानि छायां च यच्छन्ति। नद्यः परोपकाराय एव वहन्ति। गावः अन्येभ्यः एव दुग्धं यच्छन्ति। अस्माकं पुण्यभूमौ अनेके महापुरुषाः अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम् अकुर्वन्। राजा शिविः शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान्। ऋषिः दधीचिः अपि वुत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्। अद्यापि लोके अनेके समाजसुधारकाः सन्ति ये स्वार्थं परित्यज्य लोककल्याणं कुर्वन्ति। अतः सत्यमेव कथितम् - अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- काः परोपकाराय एव वहन्ति?
- केषु पशवः मानवैः समं भवन्ति?
- कः वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्?
(आ) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) 4
- मनुष्यः पशुभ्यः कथं पृथक् भवति?
- राजा शिविः शरणागतस्य कपोतस्य रक्षायै किं कृतवान्?
- मानवः केन आत्मनः उन्नतिं करोति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- ‘गावः अन्येभ्यः एव दुग्धं यच्छन्ति’ अत्र किं कर्तृपदम्?
- गावः
- अन्येभ्यः
- यच्छन्ति
- एव
- ‘दधीचिः’ इति विशेष्यपदस्य विशेषणपदं किम्?
- ऋषिः
- गावः
- मानवः
- पशवः
- ‘तरवः’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- नद्यः
- वृक्षाः
- गावः
- फलानि
- ‘ते परेषां कृते एव फलानि छायां च यच्छन्ति’ अस्मिन् वाक्ये ‘ते’ इति पदं कस्मै प्रयुक्तम्?
- जनेभ्यः
- सर्वेभ्यः
- नदीभ्यः
- वृक्षेभ्यः
Chapter:
भवतः नाम ध्रुवः। भवान् उत्तरप्रदेशस्य एकस्मिन् छात्रावासे वसति। भवतः माता अरुणा भवन्तं अनुशासनस्य महत्वम् ज्ञापयितुं पत्रं लिखति। ध्रुवं प्रति लिखितं पत्र पूरयित्वा पुनः लिखत।
|
12, गगनविहारः, दिल्लीतः प्रिय ध्रुव! (i) ______। अत्र (ii) ______ तत्रास्तु। (iii) ______ मन्ये तव अध्ययनं सम्यक् चलति यतः त्वम् अनुशासितः छात्रः असि। पुत्र! जीवनस्य प्रत्येकं क्षेत्रे अनुशासनस्य (iv) ______ आवश्यकता भवति। अनुशासनं हि नाम कर्तव्यपालनम्। सर्वेषां कृते (v) ______ आवश्यकम्। मानवजीवने कर्तव्य-अकर्तव्यबोधः अनुशासनेन एव भवति। परं च अद्यत्वे छात्रेषु अनुशासनस्य भावः न दृष्यते। ते (vi) ______ अनुशासनं न पालयन्ति। गुरून् मातापितृन् च (vii) ______। त्वं कदापि एवं न कुरु यतः अनुशासनं विना जीवने (viii) ______ न प्राप्यते। त्वं स्व-स्वास्थ्यं प्रति अपि (ix) ______ भव। समयेन भोजनं कुरु, विश्रामम् अपि आवश्यकम्। शेषं सर्वं कुशलम्। भवतः माता (x) ______। |
मञ्जूषा
| महती, सावधानः, तिरस्कुर्वन्ति, अनुशासनम्, अहम्, चिरंजीव, अरुणा, साफल्यम्, विद्यालयस्य, कुशलम्। |
Chapter:
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।

मञ्जूषा
| उपवनम्, महिला, वृक्षाः, सूर्योदयः, स्वच्छम्, कृषकाः, हरीतिमा, बालकाः, खगाः, उदेति, व्यायामः, पित्रा, बालिका, पुष्पाणि, धावति, वातावरणम्, आकाशे, सन्ति। |
Chapter:
निम्नलिखितं विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत -
‘योगस्य लाभाः’
मञ्जूषा
| शरीरम्, स्वस्थः, जनाः, आनन्दम्, प्रातःकाले, मानसिकम्, स्वास्थ्यम्, स्फूर्तिः, भवति, अनुभवन्ति, सर्वे, छात्राः, समयानुसारम्, यथाशक्ति। |
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
हम सब संस्कृत पढ़ते हैं।
We all study Sanskrit.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
हमें अपने स्वास्थ्य की रक्षा करनी चाहिए।
We should take care of our health.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
सैनिकों ने देशरक्षा के लिए युद्ध किया।
The soldiers fought for the defence of their country.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
वे सब मैदान में खेलने जाएँगे।
They will go to play in the field.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
चारों वेद ईश्वर की वाणी हैँ।
The four Vedas are words of God.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
बच्चों! तुम वहाँ जाओ।
Children! You go there.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
सबको सदैव प्रसन्न रहना चाहिए।
All should be happy always.
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
नास्ति योजकः + तत्र दुर्लभः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
सर्वथा सम्यक् + उक्तं सिंहमहोदयेन।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
कृषकः क्षेत्रकर्षणं कुर्वन्नासीत्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत -
एतयोर्जननी तेनावमानिता निर्वासिता।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
नास्ति किञ्चित् निरर्थकम्।
अर्थस्य योग्यम्
अर्थस्य प्रति
अर्थस्य सहितम्
अर्थस्य अभावः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
नैव जनग्रसनम्।
जनेषु ग्रसनम्
जनान ग्रसनम्
जनानां ग्रसनम्
जनेभ्यः ग्रसनम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
सर्वेषु अपत्येषु जननी तुल्यवत्सला।
तुल्यं वत्सलं यस्याः सा
तुल्यं वत्सलं यस्य सः
तुल्यं वत्सलम्
तुल्यं वत्सलं सा
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
तयोः एकः शरीरेण दुर्बलः आसीत्।
शरीरादुर्बलः
शरीरदुर्बलः
शरीर्दुर्बलः
शरीरेदुर्बलः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
क्षत्रियकुलपितामहयोः सूर्ये च चन्द्रे च को वा भवतोर्वंशस्य कर्ता।
सूर्यचन्द्रः
सूर्यचन्द्रयोः
सूर्यचन्द्राभ्याम्
सूर्यचन्द्रौ
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
कुसुमावलिः समीरचालिता मे वरणीया।
वरणीय + आ
वरणीया + आ
वरणीय + टाप्
वरणीय + इन्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
मम पिता मह्यम् एकां संस्कृतस्य मास + ठक् पत्रिकाम् आनीतवान्।
मासिकम्
मासिका
मासिकीम्
मासिकः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
आकारस्य लघु + त्व कार्यबाधकः न भवति।
लघुत्वम्
लघुत्व
लघुता
लघुत्वा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
जनैः गङ्गायाः शुद्धता करणीया।
शुद्ध + टाप्
शुद्ध + तल्
शुद्ध + त्व
शुद्ध + क्त्वा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
ताः कन्याः गुणवत्यः सन्ति।
गुण + मतुप्
गुण + टाप्
गुण + त्व
गुण + क्तवतु
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।
त्वया चित्राणि ______।
दृश्यन्ते
दृश्ये
दृश्येते
दृश्यते
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।
______ ध्यानेन पठनं करोमि।
मह्यम्
माम्
अस्माभिः
अहम्
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।
साधुना ______ क्रियते।
पूजायाम्
पूजा
पूजायाः
पूजाम्
Chapter:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।
किं त्वया ग्रामः ______ ?
गम्यन्ते
गम्येते
गच्छामि
गम्यते
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
मम मित्रं प्रातः (6:45) धावनं करोति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तदा सः (8:00) विद्यालयं गच्छति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
(1:30) विद्यालयात् गृहम् आगच्छति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
सायंकाले (4:15) क्रिकेटक्रीडां क्रीडति।
Chapter:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तदन्तरं सः (7:00) पठनं करोति।
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
तव भोजनावकाशः ______ भविष्यति?
ह्यः
शनैः
तर्हि
कदा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ मम जन्मदिवसे मम गृहे यज्ञम् अभवत्।
ह्यः
शनैः
तर्हि
कदा
Chapter:
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
यदि सर्वे प्रयासं न करिष्यन्ति ______ पर्यावरणं शुद्धं न भविष्यति।
ह्यः
शनैः
तर्हि
कदा
Chapter:
Advertisements
प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
शिशुः ______ चलित्वा मातुः समीपम् आगच्छत्।
ह्यः
शनैः
तर्हि
कदा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
सा शोभना कन्या सन्ति।
आसम्
स्तः
अस्तु
अस्ति
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
नीलः गगनं शोभते।
नीलाम्
नीलम्
नीला
नीलस्य
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
शाखेषु खगाः सन्ति।
शाखायाम्
शाखे
शाखा
शाखया
Chapter:
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
पिता पुत्राय स्निह्यति।
पुत्रस्य
पुत्रेण
पुत्रे
पुत्रौ
Chapter:
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रशनानाम् उत्तराणि संस्कृतेन लिखत -
| अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्रयात् पुत्रौ चपेटया प्रहृत्य जगाद - “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्षयते।” |
(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) राजसिंहः कुत्र वसति स्म?
(ख) बुद्धिमती पुत्रद्वयोपेता कुत्र चलिता?
(ग) सा कुत्र एकं व्याघ्रं ददर्श?
(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) सा पुत्रौ चपेटया प्रहृत्य किम् जगाद?
(ख) एकदा का पितुः गृहं प्रति चलिता?
(ग) बुद्धिमती किमर्थं पितुर्गृहं प्रति चलिता?
(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) 2
(क) ‘जगाद’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) ‘व्याघ्रम्’ इति पदस्य विशेषणपदं किम्?
(ग) अनुच्छेदे ‘अपश्यत्’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?
Chapter:
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयताम् अम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः। केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा, यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥ |
(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) अस्मिन् श्लोके कविः कं सम्बोधयति?
(ख) कीदृशं वचः न ब्रूहि?
(ग) अम्भोदाः कुत्र सन्ति?
(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) बहवः के सन्ति?
(ख) सर्वस्य पुरतः किं न वक्तव्यम्?
(ग) के वृष्टिभिः वसुधां आर्द्रयन्ति?
(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) 2
(क) ‘केचिद् वृथा गर्जन्ति।’ अत्र ‘केचिद्’ पदं केभ्यः प्रयुक्तम्?
(ख) ‘बहवः अम्भोदाः’ अनयोः पदयोः विशेषणपदं किम्?
(ग) श्लोके ‘समक्षम्’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तोऽस्ति?
Chapter:
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
| सुरभिः |
भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् - “बहून्यपत्यानि मे सन्तीति सत्यम् तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत् - “गच्छ वत्से! सर्वं भद्रं जायेत।” |
(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) 1
(क) कस्य दैन्यं दृष्ट्वा सा रोदिति?
(ख) सर्वेष्वपत्येषु का तुल्यवत्सला?
(ग) सः केन भारमुद्वहति?
(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कस्मिन् मातुः अभ्यधिका कृपा सहजैव?
(ख) सुरभिवचनं श्रुत्वा किम् अभवत्?
(ग) आखण्डलः किं कथयित्वा सुरभिम् असान्त्वयत्?
(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) 2
(क) ‘सुते’ इति पदस्य विशेषणपदं किम्?
(ख) ‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्?
(ग) ’आकर्ण्य’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
Chapter:
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
जनकेन सुताय शैशवे विद्याधनं दीयते।
Chapter: [9] सूक्तय:
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
Chapter: [1] शुचिपर्यावरणम्
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
भ्रातरौ आवाम् सोदर्यौ स्वः।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
Chapter:
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
Chapter:
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -
|
दुष्कराण्यपि कर्माणि मतिवैभवशालिनः। नीतिं युक्ति समालम्ब्य लीलयैव प्रकुर्वते॥ |
अन्वयः -
मतिवैभवशालिनः (जनाः) (i) ______ युक्तिं (च) (ii) ______ दुष्कराणि (iii) ______ कर्माणि (iv) ______ एव प्रकुर्वते।
मञ्जूषा
| लीलया, नीतिम्, अपि, समालम्ब्य। |
Chapter:
अधोलिखितश्लोकस्य भावार्थं रिक्तस्थानानि मञ्जूषायाः साहाय्येन पूरयित्वा पुनः लिखत -
|
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥ |
भावार्थः -
अस्य भावोऽस्ति यत् काकस्य वर्णः (i) ______ वर्तते (ii) ______ अपि वर्णः कृष्णः एव अस्ति। अतः तयोः (iii) ______ मध्ये कः भेदः अस्ति? अर्थात् वर्णदृष्ट्या तयोः कश्चिद् भेदो न दृश्यते। परन्तु यदा (iv) ______ समयः आगच्छति तदा तयोः स्वरैः ज्ञायते यत् कः काकः अस्ति कश्च पिको वर्तते।
मञ्जुषा
| वसन्तस्य, पिकस्य, पिककाकयोः, कृष्णः। |
Chapter:
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत।
- एकः सिंहः विश्राम्यते स्म।
- ततः प्रकृतिमाता प्रविशति।
- वानराः तं तुदन्ति स्म।
- अधुना पशुः राजा न भवेत् अपितु कोऽपि पक्षी एव राजेति निश्चेतव्यम्।
- सर्वे प्राणिनः सिंहस्य दशां दृष्टवा हसन्ति।
- सर्वेषां प्राणिनामेव यथासमयं महत्चं विद्यते।
- सर्व प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति। अन्ते निर्णयं कुर्वन्ति यत् -
- मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।
गजः
सिंहः
गर्दभः
व्याघ्रः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
सर्वेषु अपत्येषु जननी तुल्यवत्सला।
सन्ततिषु
पुत्रीषु
शिष्येषु
जनेषु
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
वायसः वसन्तस्य गुणं न जानाति।
पिकः
काकः
मयूरः
शुकः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत -
अनृतं वदसि चेत् काकः दशेत्।
उच्चैः
शनैः
सत्यम्
असत्यम्
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit with solutions 2024 - 2025
Previous year Question paper for CBSE Class 10 -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.