Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
|
परोपकारः अर्थात् परेषाम् उपकारः अस्ति। परोपकारस्य प्रवृत्या एव मनुष्यः पशुभ्यः पृथक् भवति। आहारादिप्रवृत्तिषु पशवः मानवैः समं भवन्ति, परं मानवः स्वविवेकेन ज्ञानेन च आत्मनः उन्नतिं करोति। अपि च, न केवलं मानवाः अपितु अस्माकं प्रकृतिः अपि परेभ्यः एव अस्ति। यथा वृक्षाः स्वफलानि न खादन्ति, ते परेषां कृते एव फलानि छायां च यच्छन्ति। नद्यः परोपकाराय एव वहन्ति। गावः अन्येभ्यः एव दुग्धं यच्छन्ति। अस्माकं पुण्यभूमौ अनेके महापुरुषाः अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम् अकुर्वन्। राजा शिविः शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान्। ऋषिः दधीचिः अपि वुत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्। अद्यापि लोके अनेके समाजसुधारकाः सन्ति ये स्वार्थं परित्यज्य लोककल्याणं कुर्वन्ति। अतः सत्यमेव कथितम् - अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- काः परोपकाराय एव वहन्ति?
- केषु पशवः मानवैः समं भवन्ति?
- कः वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्?
(आ) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) 4
- मनुष्यः पशुभ्यः कथं पृथक् भवति?
- राजा शिविः शरणागतस्य कपोतस्य रक्षायै किं कृतवान्?
- मानवः केन आत्मनः उन्नतिं करोति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- ‘गावः अन्येभ्यः एव दुग्धं यच्छन्ति’ अत्र किं कर्तृपदम्?
- गावः
- अन्येभ्यः
- यच्छन्ति
- एव
- ‘दधीचिः’ इति विशेष्यपदस्य विशेषणपदं किम्?
- ऋषिः
- गावः
- मानवः
- पशवः
- ‘तरवः’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- नद्यः
- वृक्षाः
- गावः
- फलानि
- ‘ते परेषां कृते एव फलानि छायां च यच्छन्ति’ अस्मिन् वाक्ये ‘ते’ इति पदं कस्मै प्रयुक्तम्?
- जनेभ्यः
- सर्वेभ्यः
- नदीभ्यः
- वृक्षेभ्यः
Advertisements
Solution
(अ)
- नद्यः
- आहारादिप्रवृत्तिषु
- ऋषिः दधीचिः
(आ)
- परोपकारस्य प्रवृत्या एव मनुष्यः पशुभ्यः पृथक् भवति।
- राजा शिविः शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मासं कर्तयित्वा श्येनाय दत्तवान्।
- मानवः स्वविवेकेन आत्मनः उन्नतिं करोति।
(इ) परोपकारः
(ई)
- गावः
- ऋषिः
- वृक्षाः
- वृक्षेभ्यः
