English

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। सुरभिः भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

सुरभिः

भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत्‌ भवान्‌ पश्यति न?” इति प्रत्यवोचत्‌।

“भद्रे! नूनम्‌। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्‌?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्‌ - “बहून्यपत्यानि मे सन्तीति सत्यम्‌ तथाप्यहमेतस्मिन्‌ पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्‌। 

स च तामेवमसान्त्वयत्‌ - “गच्छ वत्से! सर्वं भद्रं जायेत।”

(i) एकपदेन उत्तरत  (केवलं प्रश्नद्वयम्‌)    1

(क) कस्य दैन्यं दृष्ट्वा सा रोदिति?

(ख) सर्वेष्वपत्येषु का तुल्यवत्सला?

(ग) सः केन भारमुद्वहति?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)    2

(क) कस्मिन्‌ मातुः अभ्यधिका कृपा सहजैव?

(ख) सुरभिवचनं श्रुत्वा किम्‌ अभवत्‌?

(ग) आखण्डलः किं कथयित्वा सुरभिम्‌ असान्त्वयत्‌?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)    2

(क) ‘सुते’ इति पदस्य विशेषणपदं किम्‌?

(ख) ‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्‌?

(ग) ’आकर्ण्य’ इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?

Comprehension
Advertisements

Solution

(i) 

(क) पुत्रस्य। 

(ख) जननी। 

(ग) कृच्छ्रेण

(ii) 

(क) दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव। 

(ख) सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्‌। 

(ग) “गच्छ वत्से। सर्व भद्रं जायेत” इति कथयित्वा आखण्डलः सुरभिम्‌ असान्त्वयत्‌।

(iii) 

(क) ‘दुर्बले’ इति पदस्य विशेषणपदम्‌। 

(ख) ‘कृषकः’ इति कर्तृपदम्‌। 

(ग) ’श्रुत्वा’ इति पर्यायपदं प्रयुक्तम्‌। 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×