English

Sanskrit Official 2019-2020 English Medium Class 10 Question Paper Solution

Advertisements
Sanskrit [Official]
Marks: 80 CBSE
English Medium

Academic Year: 2019-2020
Date & Time: 7th March 2020, 10:30 am
Duration: 3h
Advertisements
  1. अस्मिन्‌ प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
  2. प्रत्येक खण्डम्‌ अधिकृत्य उत्तराणि एकस्मिन्‌ स्थाने क्रमेण लेखनीयानि
  3. प्रश्नसंख्या प्रश्नपत्रानुसारम्‌ अवश्यमेव लेखनीया
  4. सर्वेषां प्रश्नानाम्‌ उत्तराणि संस्कृतेन लेखनीयानि

खण्ड-‘क’ (10 अङ्काः)
‘अपठितांश-अवबोधनम्‌' (अपठितांश-अवबोधन)
[10]1.

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। 10

सुन्दरराजः (सुन्दरराजा) राजदेवस्य गृहे उद्योगी आसीत्‌। सः राजदेवे विशेषविश्वासं प्रदर्शयति स्म। राजदेवः सीतारामनामकम्‌ अन्यं कमपि युवकम्‌ उद्योगे नियोजितवान्‌। तम्‌ उक्तवान च- “सीताराम! सुन्दरराजः दशवर्षाणि यावत्‌ मम गृहे उद्योगित्वेन सहायकः आसीत्‌, तथापि सः मयि विश्वासं न स्थापितवान्‌। अत एव सः अत्र उद्योगं परित्यक्तवान्‌। उद्योगिनः स्वामिनि विश्वासं कूर्युः सदा” इति धारणा। एकदा सीतारामः सुन्दरराजं मिलित्वा अवदत्‌ यत्‌ “भवान्‌ राजदेवगृहे दश वर्षाणि यावत्‌ कार्य कृंतवान्‌ खलु? अतः तत्र कथं व्यवहरणीयम्‌ इति विषये मां किञ्चित्‌ सुस्पष्टं वदतु” इति। “राजदेवः सज्जनः। तद्विषये मया वक्तव्यं किमपि नास्ति। भवान्‌ तत्र कमपि क्लेशं न अनुभविष्यति” इति उक्तवान्‌ सुन्दरराजः। तच्छ्रुत्वा सीतारामः प्रसन्नतया तत्र विश्वस्तः सन्‌ कार्य कर्तुं प्रारभत। उक्तञ्च “विश्वासः फलदायकः महत्सु” इति। 

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्‌) 2

  1. सुन्दरराजः कस्य गृहे उद्योगी आसीत्‌?
  2. राजदेवः अन्यं कम्‌ उद्योगे नियोजितवान्‌?
  3. सुन्दरराजः कति वर्षाणि पर्यन्तं राजदेवस्य गृहेउद्योगित्वेन सहायकः आसीत्‌?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्‌) 4

  1. सीतारामः सुन्दरराजं मिलित्वा किं कथितवान्‌?
  2. राजदेवः कीदृशः व्यक्तिः आसीत्‌?
  3. कः कस्योपरि विश्वासं न स्थापितवान्‌?

(स) अस्य अनुच्छदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1

(द) यथानिर्देशम्‌ उत्तरत (केवलं प्रश्नत्रयम्‌) 3

  1. ‘आसीत्‌’ इत्यस्याः क्रियायाः कर्तृपदं किम्‌?
    (क) सीतारामः
    (ख) सुन्दरराजः
    (ग) राजदेवः
  2. राजदेवः सज्जनः अनयोः पदयोः विशेषणं किम्‌?
    (क) दुर्जनः
    (ख) परिजनः
    (ग) सज्जनः
  3. ‘कण्टम्‌’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
    (क) क्लेशम्‌
    (ख) करुणम्‌
    (ग) असह्यम्‌
  4. अनुच्छेद ‘दुर्जनः’ पदस्य कः विपर्यय आगतः?
    (क) परिजनः
    (ख) सज्जनः
    (ग) विश्वासः 
Concept: undefined - undefined
Chapter:
खण्ड-‘ख’ (15 अङ्काः)
रचनात्मककार्यम्‌ (रचनात्मक कार्य)
[5]2.

मातरं प्रति लिखितम्‌ अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत।

(i) ______

शिमलातः

दिनाङ्कः

परमपूज्यमातः।

सादरं प्रणामाः।

अहं कुशलः अत्र तत्रापि कामये। भवत्याः पत्रं प्राप्य मनसि सन्तोषः (ii) ______। मम भ्राता (iii) ______ स्वस्थः इति हर्षस्य विषयः। सः मम अध्ययनस्य (iv) ______ च विषये चिन्तितः आसीत्‌। अहं पञ्चवादने (v) ______ यथानिर्दिष्टं (vi) ______ करोमि (vii) ______ च पठामि। नववादने विद्यालयं (viii) ______। चतुर्वादने (ix) ______ आगच्छामि। सप्तवादने गृहकार्यं करोमि। पितृमहाभागानां प्रणामाः कथनीयाः।

भवत्याः आज्ञापालकः (x) ______।

प्रदीपः

मञ्जूषा

पुत्र, विद्यालयात्‌, व्यायामं, स्वास्थ्यस्य, जातः, कावेरीछात्रावासः, इदानीम्‌, तदनन्तर, उत्थाय, गच्छामि
Concept: undefined - undefined
Chapter:
[5]3. (i)

अधः प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।

 मञ्जूषा

द्वे, बालिके, बहवः, नीत्वा, लोकाः, इतस्ततः, मेलकं, श्वेतवस्त्रम्‌, श्यामवस्त्रम्‌, गोलचक्रिका, उपविशन्ति, अनुभवन्ति, आनन्दम्‌, बहिः, दृश्यम्‌
Concept: undefined - undefined
Chapter:
अथवा
[5]3. (ii)

मञ्जूषा प्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत।

देशभक्तिः

मञ्जूषा

स्वमातृभूमिः, भावना, सैनिकाः, रक्षकाः, स्वतन्त्रतायाः, राष्ट्रम्‌, रक्षाम्‌ कुर्वन्ति, भारतीयाः, विचाराः, वीराः, माता, भूमिः, मानवम्‌, आत्मबलिदानम्‌
Concept: undefined - undefined
Chapter:
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्‌)
[1]4. (1)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

गोपाल गीत गाता है।

Gopal sings a song.

Concept: undefined - undefined
Chapter:
[1]4. (2)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

हम सब सिनेमा देखते है।

We see picture.

Concept: undefined - undefined
Chapter:
[1]4. (3)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

रमा कल कोलकाता जायेगी।

Rama will go to Kolkata tomorrow.

Concept: undefined - undefined
Chapter:
[1]4. (4)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल श्याम कहाँ था?

Where was Shyam yesterday?

Concept: undefined - undefined
Chapter:
[1]4. (5)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

तुम सब कलम से लिखो।

All of you write by pen.

Concept: undefined - undefined
Chapter:
[1]4. (6)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

बच्चा भालू से डरता है।

The child fears from bear.

Concept: undefined - undefined
Chapter:
[1]4. (7)

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

क्या वे सब पढ़ें?

May they study?

Concept: undefined - undefined
Chapter:
खण्ड-‘ग’ (25 अङ्काः)
‘अनुप्रयुक्त व्याकरणम्‌’ (अनुप्रयक्त व्याकरण)
[1]5. (i) | अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिविच्छेदं वा कृत्वा लिखत। (केवल प्रश्नचतुष्टयम्‌)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।  

शत्रोः अपि शिरः + च्छेदः न करणीयः।

Concept: undefined - undefined
Chapter:
[1]5. (ii)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।  

भासमानं निजभवनम्‌ अपश्यत्‌।

Concept: undefined - undefined
Chapter:
[1]5. (iii)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।  

आकाशः मेघैः आच्छन्नः आसीत्‌।

Concept: undefined - undefined
Chapter:
[1]5. (iv)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।  

हे कल्याणि! सर्वदा सत्‌ + मार्गम्‌ अनुसरतु

Concept: undefined - undefined
Chapter:
[1]5. (v)

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।  

अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।

Concept: undefined - undefined
Chapter:
[1]6. (i) | रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌ )

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।

सः स्थितप्रज्ञः इति को न जानति।

स्थिता प्रज्ञा यस्य सः

स्थितं प्रज्ञं यस्य सः

स्थितः प्रज्ञः यस्या सा

Concept: undefined - undefined
Chapter:
[1]6. (ii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।

मुनिः राजानं यथेष्टम्‌ अभ्यनन्दत्‌।

इष्टेन अनतिक्रम्य

इष्टाय अनतिक्रम्य

इष्टम्‌ अनतिक्रम्य

Concept: undefined - undefined
Chapter:
[1]6. (iii)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।

कुशलवौ रामम्‌ प्रणमतः।

कुशः च लवः च

कुशम्‌ लवः च

कुशः लवौ च

Concept: undefined - undefined
Chapter:
[1]6. (iv)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।

भारस्य वेदनया क्रन्दति स्म।

भारवेदनाः

वेदनाभारेण

भारवेदनया

Concept: undefined - undefined
Chapter:
[1]6. (v)

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।

समः मृगस्य पश्चात्‌ धावति स्म।

अनुमृगम्‌

मृगपश्चात्‌

अनुमृगः

Concept: undefined - undefined
Chapter:
[1]7. (i) | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्‌)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत।

नृत्यातिरिक्तं का तव विशेषता

विशेष + तमप्‌

विशेष + तल्‌

विशेष + क्त

Concept: undefined - undefined
Chapter:
Advertisements
[1]7. (ii)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत।

सर्वेषु जननी वत्सला

वत्सल + टाप्‌

वत्सल + अ

वत्सला + तल्‌

Concept: undefined - undefined
Chapter:
[1]7. (iii)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत।

स्थिरः + त्व लाघवम्‌ मृजा।

स्थिरात्वम्‌

स्थिरता

स्थिरत्वम्‌

Concept: undefined - undefined
Chapter:
[1]7. (iv)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत।

बुद्धिः बलवती

बलवत्‌ + ङीप

बलवत्‌ + टाप्‌

बलवत्‌ + मतुप्‌

Concept: undefined - undefined
Chapter:
[1]7. (v)

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत।

रामानन्दः एकः श्रेष्ठः धर्म + ठक्‌ अस्ति।

धर्मठिकः

धार्मिकः

धर्मिकः

Concept: undefined - undefined
Chapter:
[3]8. (i)

मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तनं कृत्वा अधोलिखतं संवादं पुनः लिखत -

गणेशः सुरेशः। किं त्वं रामायणं पठसि?
सुरेशः आम्‌ (i) ______ रामायणं पठ्यते।
गणेशः किं त्वं श्लोकान्‌ स्मरसि?
सुरेशः आम्‌ मया (ii) ______ अपि स्मर्यन्ते।
गणेशः किं कक्षायाम्‌ आचार्यः कथाम्‌ पाठयति?
सुरेशः आम्‌ कक्षायाम्‌ आचार्येण कथा (iii) ______।

           मञ्जूषा

पाठयते, मया, श्लोकाः
Concept: undefined - undefined
Chapter:
अथवा
[1]8. (ii) (क) | अधोलिखितानां वाक्यानां वाच्परिवर्तनं कुरुत (केवल त्रयाणाम्‌)

अधोलिखित वाक्यम् वाच्परिवर्तनं कुरुत।

त्वं पुस्तकं पठसि।

Concept: undefined - undefined
Chapter:
[1]8. (ii) (ख)

अधोलिखित वाक्यम् वाच्परिवर्तनं कुरुत।

शिशुना पयः पीयते।

Concept: undefined - undefined
Chapter:
[1]8. (ii) (ग)

अधोलिखित वाक्यम् वाच्परिवर्तनं कुरुत।

अहं विद्यालयं गच्छामि।

Concept: undefined - undefined
Chapter:
[1]8. (ii) (घ)

अधोलिखित वाक्यम् वाच्परिवर्तनं कुरुत।

गीतया गीतं गीयते।

Concept: undefined - undefined
Chapter:
[1]8. (ii) (ङ)

अधोलिखित वाक्यम् वाच्परिवर्तनं कुरुत।

रमा संकल्पं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (क) | अधोलिखितदिनचर्यायाः रिक्तस्थानानि कालबोधकशब्दैः पूरयत। (केवलं प्रश्नचतुष्टयम्‌)

अधोलिखित दिनचर्या रिक्तस्थानानि कालबोधकशब्दैः पूरयत।

दिव्यांशः प्रातः 8:00 ______ योगं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (ख)

अधोलिखित दिनचर्या रिक्तस्थानानि कालबोधकशब्दैः पूरयत।

रमेशः सायं 4:30 ______ भ्रमणाय गच्छति।

Concept: undefined - undefined
Chapter:
[1]9. (ग)

अधोलिखित दिनचर्या रिक्तस्थानानि कालबोधकशब्दैः पूरयत।

रमाः प्रातः 7:15 ______ प्रातरांशं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (घ)

अधोलिखित दिनचर्या रिक्तस्थानानि कालबोधकशब्दैः पूरयत।

चन्द्रशेखरः सायं 6:30 ______ व्यायामं करोति।

Concept: undefined - undefined
Chapter:
[1]9. (ङ)

अधोलिखित दिनचर्या रिक्तस्थानानि कालबोधकशब्दैः पूरयत।

कमलेशः रात्रौ 8:45 ______ पुस्तकं पठति।

Concept: undefined - undefined
Chapter:
[1]10. (क) | अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जुषाप्रदत्तैः अव्ययषदैः पूरयत। (केवलं प्रश्नषट्कम्‌)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

विद्यालये ______ अवकाशः भविष्यति।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (ख)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

______ रविवासरः अस्ति।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (ग)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

पत्रवाहकः ______ पत्राणि दातुं गच्छति।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (घ)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

यदि मेघः गर्जति ______ मयूराः नृत्यन्ति।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (ङ)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

अहम्‌ ______ आंग्लभाषां पठामि।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (च)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

सा गणितं ______ पठितुम्‌ इच्छति।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10. (छ)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

______ निरीक्षकेन निर्णयः न करणीयः।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
Advertisements
[1]10. (ज)

अधोलिखितवाक्यम् रिक्तस्थानानि प्रदत्तैः अव्ययषदैः पूरयत।

त्वम्‌ अत्र ______ श्रमं करोषि।

कदा

सहसा

वृथा

अपि

तर्हि

श्वः

अद्य

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]11. (क) | अधोलिखितवाक्येषु रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नत्रयम्‌)

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत।

वृक्षात्‌ फलाः पतन्ति। 

फले

फलानि

फलः

Concept: undefined - undefined
Chapter:
[1]11. (ख)

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत।

सुमेधा कन्दुकेन क्रीडिष्यथ्‌

क्रीडिष्यसि

क्रीडिष्यथः

क्रीडिष्यति

Concept: undefined - undefined
Chapter:
[1]11. (ग)

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत।

बालकाः पुस्तकम्‌ अपठत्‌। 

त्वम

सः

अहम्‌

Concept: undefined - undefined
Chapter:
[1]11. (घ)

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धं पदं विकल्पेभ्यः चित्वा लिखत।

इमौ बालकौ भ्रमन्ति। 

भ्रमतः

भ्रमसि

भ्रमति

Concept: undefined - undefined
Chapter:
खण्ड-‘घ’ (30 अङ्काः)
पठित-अवबोधनम्‌ (पठित अवबोधन)
[5]12.

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

अग्रिमे दिने सः आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्‌। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्‌-पृथक्‌ विवरणं श्रुतवान्‌। सर्वं वृत्तमवगत्य स तं निर्दोषम्‌ अमन्यत आरक्षिणं च दोषभाजनम्‌। किन्तु प्रमाणाभावात्‌ स निर्णेतुं नाशक्नोत्‌। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम्‌ आदिष्टवान्‌। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद्‌ तत्रत्यः कर्मचारी समागत्य न्यवेदयत्‌ यत्‌ इतः कोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम्‌ अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्‌।

(अ) एकपदेन उत्तरत (केवल प्रश्नद्वयम्‌) 1

(क) न्यायाधीशः कः आसीत्‌?

(ख) कस्य अभावात्‌ न्यायाधीशः निर्णेतुं नाशक्नोत्‌?

(ग) न्यायालये कः समागत्य न्यवेदयत्‌?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्‌) 1

(क) न्यायाधीशः कौ शवं न्यायालये आनेतुमदिष्टवान्‌?

(ख) तत्रत्यः कर्मचारी समागत्य किं न्यवेदयत्‌?

(स) प्रदत्तविकल्पेभ्यः उचितम्‌ उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्‌) 3 

  1. ‘निरपराधम्‌’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
    (क) दोषभाजनम्‌
    (ख) निर्दोषम्‌
    (ग) सदोषम्‌
  2. ‘श्रुतवान्‌’ इति पदस्य कर्तुपदं किम्‌?
    (क) व्योमेशचन्द्रः
    (ख) रमेशचन्द्रः
    (ग) बंकिमचन्द्रः
  3. ‘दिने’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्‌?
    (क) अग्रिमे
    (ख) अन्येद्युः
    (ग) ततः 
  4. ‘न्यायाधीशः’ इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्‌?
    (क) न्यवेदयत्‌
    (ख) आदिष्टवान्‌
    (ग) स्थापितवान्‌
Concept: undefined - undefined
Chapter:
[5]13.

अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। 5

आचारः प्रथमो धर्मः इत्येतद्‌ विदुषां वचः।

तस्माद्‌ रक्षेत्‌ सदाचारं प्राणेभ्योऽपि विशेषतः॥

(अ) एकपदेन उत्तरत्‌। (केवलं प्रश्नद्वयम्‌) 1

  1. प्रथमः धर्मः कः?
  2. अस्माकं आचारः सम्यक्‌ भवेत्‌ इति केषां वचनम्‌ अस्ति?
  3. प्राणेभ्योऽपि विशेषतः कः रक्षणीयः?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्‌) 1

(क) जनः विशेषतः प्राणेभ्यः अपि के रक्षेत्‌?

(ख) विदुषां वचः किम्‌?

(स) प्रदत्तविकल्पेभ्यः उचितम्‌ उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्‌) 3

  1. ‘रक्षेत्‌’ इति क्रियापदस्य कर्तृपदं किं भवेत्‌?
    (क) जनः
    (ख) सदाचारम्‌
    (ग) आचारः
  2. ‘प्रथमःधर्मः’ अनयोः पदयोः किं विशेष्यपदम्‌?
    (क) धर्मः
    (ख) वचः
    (ग) विशेषतः
  3. ‘कथनम्‌’ इत्यस्य पदस्य कः पर्यायः श्लोके प्रयुक्तः?
    (क) धर्मः
    (ख) वचः
    (ग) सदा
  4. ‘मूर्खाणाम्‌’ इत्यस्य किं विलोमपदं श्लोके प्रयुक्तम्‌?
    (क) वचः
    (ख) इति
    (ग) विदुषाम्‌
Concept: undefined - undefined
Chapter:
[5]14.

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। 5

चाणक्यः  भो श्रेष्ठिन्‌ प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रिय-मिच्छन्ति राजानः।
चन्दनदासः  आज्ञापयतु आर्यः, किं कियत्‌ च अस्मज्ज- नादिष्यते इति।
चाणक्यः  भो श्रेष्ठिन्‌। चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्‌। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः  आज्ञापयतु आर्यः।
चाणक्यः  राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः  आर्य कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्‌) 1

(क) चाणक्यः चन्दनदासं किं कथयित्वा सम्बोधयति?

(ख) कस्य एव अर्थसम्बन्धः प्रीतिम्‌ उत्पादयति?

(ग) भवताम्‌ अपरिक्लेशः एव कस्य प्रीतिं जनयति?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्‌) 1 

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम्‌ इच्छन्ति?

(ख) ‘राजनि अविरुद्धवृत्तिर्भव’ इति श्रुत्वा चन्दनदासः किं कथयति?

(स) प्रदत्तविकल्पेभ्यः उचितम्‌ उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्‌) 3

  1. नाट्यांशे ‘आविर्भवति’ इति क्रियायाः कर्तृपदं किम्‌?
    (क) अर्थसम्बन्धः
    (ख) अपरिक्लेशः
    (ग) अविरुद्धवृत्तिः
  2. ‘चन्द्रगुप्तराज्यम्‌ इदम्‌’ अत्यत्र विशेष्यपदं किम्‌?
    (क) चन्द्रगुप्तराज्यम्‌
    (ख) राज्यम्‌
    (ग) इदम्‌
  3. नाट्यांशे ‘विरुद्धवृत्तिः’ इत्यस्य किं विलोमपदं प्रयुक्तम्‌?
    (क) अपरिक्लेशः
    (ख) अविरुद्धवृत्तिः
    (ग) अर्थसम्बन्धः
  4. ‘अर्थसम्बन्धः’ इति कर्तृपदस्य क्रियापदं गद्यांशात्‌ चित्वा लिखत।
    (क) उत्पादयति
    (ख) प्रसारयति
    (ग) कुयास्ति नाट्यांशे?
Concept: undefined - undefined
Chapter:
[1]15. (क) | रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्‌)

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।

Concept: undefined - undefined
Chapter: [2] बुद्धिर्बलवती सदा
[1]15. (ख)

रेखाङ्कित-पद आधृत्य प्रश्ननिर्माणं कुरुत -

सिंहः वानराभ्यां स्वरक्षायाम्‌ असमर्थे एवासीत्‌।

Concept: undefined - undefined
Chapter:
[1]15. (ग)

रेखाङ्कित-पद आधृत्य प्रश्ननिर्माणं कुरुत -

आरोग्यम्‌ चापि व्यायामाद्‌ उपजायते।

Concept: undefined - undefined
Chapter:
[1]15. (घ)

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

धैर्यवान् लोके परिभवं न प्राप्नोति।

Concept: undefined - undefined
Chapter: [9] सूक्तय:
[1]15. (घ)

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

धैर्यवान् लोके परिभवं न प्राप्नोति।

Concept: undefined - undefined
Chapter: [9] सूक्तय:
[1]15. (ङ)

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

शिविना विना इदं दुष्कर कार्यं कः कुर्यात्।

Concept: undefined - undefined
Chapter: [11] प्राणेभ्योऽपि प्रिय: सुहृद्
[2]16. I.

मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत। 

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्‌।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

अन्वयः- पिता पुत्राय (i) ______ महत्‌ विद्याधनं (ii) ______। अस्य (पुत्रस्य) पिता किं (iii) ______ तेपे इति उक्तिः (iv) ______।

                                      मञ्जूषा

भुङ्क्ते, तत्कृतज्ञता, यच्छति, पक्वम्‌, वाचम्‌, बाल्ये, तपः परुषाम्‌
Concept: undefined - undefined
Chapter:
[2]16. II.

मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत। 

त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्‌।

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः- यः धर्मप्रदां (i) ______ त्यक्त्वा (ii) ______ यः अभ्युदीरयेत्‌, (सः) विमूढधीः (iii) ______ फलं परित्यज्य अपक्वम्‌ (फलं) (iv) ______।

                                          मञ्जूषा

भुङ्क्ते, तत्कृतज्ञता, यच्छति, पक्वम्‌, वाचम्‌, बाल्ये, तपः परुषाम्‌
Concept: undefined - undefined
Chapter:
अथवा
[4]16. III

मञ्जूषा साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानि पूरयित्वा पुनः लिखत। 

आलस्यं हि मनुष्याणां शरीरस्थो महान्‌ रिपुः।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

भावार्थ:- इदं सत्यमेव यत्‌ (i) ______ तु मानवानां शरीरेषु स्थितः (ii) ______ शत्रुः अस्ति। यतः शरीरे आलस्यकारणात्‌ मानवस्य विकासगतिः स्थिरा भवति।मानवानां कृते जगति (iii) ______ कोऽपि बन्धुः नास्ति। मानवः उद्यमं कृत्वा एव निरन्तरं विकासं करोति, अनेन कदापि (iv) ______ न भवति।

                      मञ्जूषा

दुःखितः, उद्यमसमः, आलस्यम्‌, महान्‌
Concept: undefined - undefined
Chapter:
[4]17.

अधोलिखित-कथांशं समुचित-क्रमेण लिखत।

  1. यतो हि अयम्‌ अन्येभ्यः दुर्बलः।
  2. ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम्‌।
  3. तथापि मम अस्मिन्‌ पुत्रे विशिष्टः स्नेहः।
  4. अचिरादेव चण्डवातेन मेघरवैः च सह प्रवर्षः समजायत।
  5. स तामेव असान्त्वयत्‌ ‘गच्छ वत्से! सर्वं भद्रं जायेत’।
  6. सुरभिवचनं श्रुत्वा इन्द्रस्य हदयम्‌ अद्रवति।
  7. तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
  8. सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
Concept: undefined - undefined
Chapter:
[3]18. (i) | ‘क’ स्तम्भे लिखितानां पदानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति, तानि यथाक्रमेण समक्षं लिखत। (केवलं प्रश्नत्रयम)

‘क’ स्तम्भे लिखितानां पदानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति, तानि यथाक्रमेण समक्षं लिखत।

सुहृद्‌  सूर्यः
गजः  शरीरम्‌
सविता  कुञ्जरः
गात्रम्‌  मित्रम्‌
Concept: undefined - undefined
Chapter:
अथवा
[1]18. (ii) 1. | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गनुकूलम्‌ उचितार्थन्‌ चित्वा लिखत। (केवलं प्रश्नत्रयम्‌)

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

त्वया दुष्टः हन्तव्यः इति।

मारणीयः

पालनीयः

ध्येयः

Concept: undefined - undefined
Chapter:
[1]18. (ii) 2.

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

आवयोः वंशस्य कर्त्ता ‘सहस्रदीधितिः एव।

चन्द्रः

शिवः

भानुः

Concept: undefined - undefined
Chapter:
[1]18. (ii) 3.

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

अनृतं वदसि चैत्‌ काकः दशेत्‌।

सत्यम्‌

मिथ्या

मन्दम्‌

Concept: undefined - undefined
Chapter:
[1]18. (ii) 4.

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

दुर्बलः बलीवर्दः जवेन गन्तुम्‌ अशक्तः।

द्रुतगत्या

काठिन्येन

ताडनेन

Concept: undefined - undefined
Chapter:

Other Solutions

































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 10 Sanskrit with solutions 2019 - 2020

     CBSE Class 10 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 10 question paper 2020 serve as a catalyst to prepare for your Sanskrit board examination.
     Previous year Question paper for CBSE Class 10 -2020 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.

How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×