English
Maharashtra State BoardSSC (English Medium) 10th Standard

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं 'कालडि' नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं 'कालडि' नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्‌। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद्‌ मातैव पुत्रस्य पालनम्‌ अकरोत्‌। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम्‌ अधीतवान्‌। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्‌। गृहं प्राप्य मातृसेवाम्‌ आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम्‌ अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टा आर्याम्बा चिन्तामग्ना जाता।

(1) अवबोधनम्‌। (4 तः 3)    (3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।     (1)

  1. ______ वयसि उपनीत: स: पठनार्थं गुरुम्‌ उपागच्छत्‌। (पञ्चमे/दशमे)
  2. शङ्कर: गृहं प्राप्य ______ आरभत। (जनसेवाम्‌/मातृसेवाम्‌)

(ख) पूर्णवाक्येन उत्तरं लिखत।    (1)

शङ्करस्य पिता क:?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।    (1)

शङ्कर: मनसा वचसा कर्मणा च विरक्त:।

(घ) एषः गद्यांश : कस्मात्‌ पाठात्‌ उद्धृतः ?

(2) शब्दज्ञानम्‌। (3 तः 2)    (2)

(क) 2 पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।     (1) 

(ख) प्रश्ननिर्माणं कुरुत।    (1) 

माता पुत्रस्य पालनम्‌ अकरोत्‌।

(ग) लकारं लिखत।    (1) 

शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्‌

(3) पृथक्करणम्‌।    (2)

स्थानाधारेण शब्दपेटिकां पूरयत।

(कालडीग्रामः, केरलप्रदेशः, भारतदेशः, आलुवानगरम्‌)

Comprehension
Advertisements

Solution

(1)

(क)

  1. पञ्चमे वयसि उपनीत: स: पठनार्थं गुरुम्‌ उपागच्छत्‌।
  2. शङ्कर: गृहं प्राप्य मातृसेवाम्‌ आरभत। 

(ख)

शिवगुरुः शङ्करस्य पिता।

(ग) सत्यम्‌

(घ) 

एषः गद्यांशः `आदिशङ्कराचार्यः' इति/अस्मात्‌ पाठात्‌ उद्धृतः।

(2)

(क) समाप्य, प्राप्य

(ख)

माता कस्य पालनं अकरोत्?

(ग)

अभवत्‌ - लङ्‌लकारः

(3)

  • देशः – भारतदेशः
  • प्रदेशः – केरलप्रदेशः
  • नगरम्‌ – आलुवानगरम्‌
  • ग्रामः – कालडिग्रामः

shaalaa.com
  Is there an error in this question or solution?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×